*काचित् कथा, येषां हृदयं दुर्बलं स्यात् ते न पठन्तु।*
कस्यचन वृद्धस्य समीपे कश्चन मूल्यवान् ग्रन्थः आसीत्।
धनस्य अभावः इति कारणात् सः तं ग्रन्थं विक्रेतुं विपणिं गतवान्।
सायंकालः अभवत्, अन्धकारः वर्धमानः आसीत्।
वृद्धः वदति स्म - मत्समीपे कश्चन महान् ग्रन्थः अस्ति, एतं ग्रन्थं पठन्ति चेद् भवतां जीवनं परिवर्तनं भवेत् इति।
तदानीं कश्चन वृद्धस्य वचनं श्रुत्वा तस्य समीपम् आगतवान्, अस्य ग्रन्थस्य मूल्यं किम् इति पृष्टवान् च।
वृद्धः अवदत् त्रिसहस्ररुप्यकाणि इति।
सः जनः तदा वृद्धाय त्रिसहस्ररुप्यकाणि दत्त्वा ग्रन्थम् अक्रीणात्।
वृद्धः तस्मै ग्रन्थं प्रदाय उक्तवान् भोः! ग्रन्थं सम्पूर्णं पठतु किन्तु यावत् पर्यन्तं कापि समस्या न भवेत् तावत् पर्यन्तं ग्रन्थस्य अन्तिमं पृष्ठं न उद्घाटयतु।
सः तद् अङ्गीकृत्य ततः स्वगृहं गतवान्।
गृहं गत्वा सम्पूर्णं ग्रन्थं पठितवान्।
एकदा सः ग्रन्थस्य अन्तिमे पृष्ठे किम् अस्ति इति विचिन्त्य दृष्टवान् तत् पठित्वा च सः हाय हाय इति कृत्वा तत्क्षणाद् अम्रियत।
ग्रन्थस्य अन्तिमे पृष्ठे किम् आसीत् इत्युक्ते तस्मिन् पृष्ठे ग्रन्थस्य मूल्यं *पञ्चदशरुप्यकाणि* इति लिखितम् आसीत्।
*-प्रदीपः!*
No comments:
Post a Comment