🌷🌷🌷🌷🌷🌷🌷🌷
।।जम्बूद्वीपस्य वर्णनम् ।।
🌷🌷🌷🌷🌷🌷🌷🌷
सप्तद्वीपाश्च वर्तन्ते भूमण्डले हि शोभनाः ।
तेषां नामानि चात्रैव बोधयामि तु मानवान् ।।१।।
जम्बूद्वीपो हि सर्वेषु मुख्योऽस्ति प्रथमस्तथा ।
प्लक्षद्वीपो द्वितीयो वै तृतीयश्शाल्मली तथा ।।२।। चतुर्थकः कुशद्वीपः क्रौञ्चद्वीपस्तु पञ्चमः ।
शाकद्वीपस्तथा षष्ठस्सप्तमः पुष्करो यथा ।।३।।
मेरुद्वीपो यथैवेति जम्बूद्वीपेन चावृतः।
जम्बूद्वीपस्तथैवेति क्षाराब्धिना तु चावृतः ।।४।।
उपद्वीपास्तु वर्तन्ते जम्बूद्वीपविभागतः ।
स्वर्णप्रस्थस्तथा नाम चन्द्रशुक्लस्तु सुन्दरः ।।५।।
मन्दरहरिणश्चैव रमणकश्च सिंहलः ।
पाञ्चजन्यस्तथावर्तनो लङ्केष्टौ यथा शुभाः ।।६।।
जम्बूफलरसानां तु जम्बूनदी च वर्तते ।
जम्बूद्वीपस्य नामैव सार्थकं प्रतिभासते ।।७।।
इलावृतस्य भागाद्धि भूभागे दक्षिणे तथा ।
श्रीमेरुमन्दराद्गत्वा जम्बूनदी हि सिञ्चति।।८।।
आर्द्रौ तटौ च वै नद्याश्शुष्कायेते च वायुना ।
तदा जाम्बुनदं नाम सुवर्णं भवतीति च ।।९।।
सुवर्णेन च निर्मान्ति वतंसकानि देवताः ।
कटककटिसूत्राणि धारयन्ति च योषितः ।।१०।।
जम्बूद्वीपश्च रम्यो हि रम्या जम्बूनदी यथा ।
शिवान्या वर्णनं रम्यं कृतं द्वीपस्य वै तथा ।।११।।
डा. शिवानी शर्मा, जयन्तीपुरम्, हरियाणाराज्यम् ।
No comments:
Post a Comment