Thursday, September 23, 2021

Sri Krishna sallapa rasamrutham -Sanskrit poem

श्रीकृष्णसंलापरसामृतम्
*******************
रोहिणीयशोदासंलापः -:
क्रोडे क्रीडति नन्दनः सुरुचिरः संज्ञां भजस्व प्रिये
सत्यं किं वचनं च ते भगिनि हे बाधा गता मे तनोः।
बाहुभ्यां धर सत्वरं सुतवति स्तन्यं ददस्वादराद्
आगच्छार्भक मेन्तिकं पिब पयः श्रीकृष्णचन्द्रोवतु।।
नन्दयशोदासंलापः -:
श्रीमन् नन्दनृप क्व वा प्रियतम प्रायाहि पश्यात्मजं
हे कान्ते रुचिरो प्रसूततनयो मन्ये प्रसन्नो हरिः।
नोचेत् किं घनसुन्दरो हरिसमः पुत्रो हि मे संभवेत्
सस्नेहं सततं यतस्व दयिते श्रीकृष्णचन्द्रोवतु।।
नन्दप्रजासंलापः -:
जातो मे तनयः प्रजाजनगण प्रायाहि पार्श्वं मम
किं कुर्याद् वद हे सुपुत्रजनक प्रीत्यान्तिके तेखिलः।
आनन्दस्य महोत्सवो भवतु मे राज्यं भृशं नृत्यतु
भुक्त्वा स्वादुरसादिकं च हसतु, श्रीकृष्णचन्द्रोवतु।।
               (व्रजकिशोरत्रिपाठी)

No comments:

Post a Comment