Thursday, September 30, 2021

double vision - Sanskrit joke

हास्यकथा।
गोपालः तदानीं प्रौढः। नेत्राभ्यां सम्यग् द्रष्टुं न शक्नोति स्म। 

राजा अपृच्छत् गोपाल! ह्यः राज्यसभां किमर्थं न आगतवान्? 

गोपालः- राजन्! मम नेत्रयोः समस्या अभवत्। सर्वमपि द्वयं पश्यामि। ह्यः आगतवान्, परन्तु अत्र आगत्य सभाद्वयं दृष्टवान्। कुत्र प्रविशामि इति विचिन्त्य न प्रविष्टवान्। 

राजा- एतत्तु तव कृते समीचीनमेव अभवत्। त्वं महान् अभवः। पूर्वं त्वम् एकमेव वृषभं पश्यसि स्म , परन्तु इदानीं वृषभद्वयं पश्यसि। 

गोपालः- आम्, सत्यमेवोक्तं राजन्! पूर्वम् अहं भवतः पादद्वयं पश्यामि स्म, परन्तु इदानीं मम वृषभवद् भवतः पादचतुष्टयं पश्यामि। 
*-प्रदीपः!*

No comments:

Post a Comment