*द्रौपदी पितामहभीष्मः च!*
महाभारतस्य युद्धं प्रचलद् आसीत्। पितामहो भीष्मः अर्जुनस्य बाणैः व्रणितः भूत्वा बाणशय्यायां पतितः आसीत्।
कौरवाः पाण्डवाश्च तेन सह मेलितुं प्रतिदिनं गच्छन्ति स्म।
एकदा द्रौपदी पाण्डवाश्च पितामहभीष्मं परितः उपाविशन्। पितामहः च तेभ्यः उपदेशं ददाति स्म।
तदा ते सर्वे अपि पितामहस्य उपदेशं श्रद्धापूर्वकं शृण्वन्तः आसन्। तदानीम् अकस्मात् द्रौपदी उच्चैः अट्टहासम् अकरोत्।
द्रौपद्याः इत्थं व्यवहारं दृष्ट्वा पितामहः अत्यन्तं दुःखितः अभवत्, तां च अपृच्छत् पुत्रि! तव अट्टहासस्य कारणं किम्? किमहं तस्य कारणं ज्ञातुं शक्नवानि? इति।
तदा द्रौपदी अब्रवीत् पितामह! अद्य भवान् अस्मभ्यम् अन्यायस्य विरुद्धे युद्धं कर्तुम् उपदेशं ददाति। परन्तु यदा राजसभायां मम चीरहरणं भवति स्म तदा भवतः एवम् उपदेशः कुत्र आसीत्?
तदा भवान् किमर्थं मौनताम् अवलम्बितवान्? इति।
द्रौपद्याः वचनमिदं श्रुत्वा तदा पितामहस्य नेत्राभ्याम् अश्रूणि आगतानि, कातरस्वरेण च अब्रवीत् पुत्रि! त्वं तु जानासि यत् तदानीम् अहं दुर्योधनस्य अन्नं खादन् आसम्।
तद् अन्नं प्रजाजनान् पीडयित्वा सम्पादितम् आसीत्। अतः तद् अन्नं खादित्वा मम संस्कारः क्षीणः अभवत्। मम वाणी च अवरुद्धा अभवत्।
परन्तु इदानीं तेन अन्नेन निर्मितं शोणितं सर्वं शरीरात् निरगच्छत्। अतः इदानीं पुनः मम स्वाभाविकसंस्कारः प्रत्यागच्छत्।
अतः पुत्रि! यः यथा खादति तस्य मनः तथैव भवति।
*-प्रदीपः!*
No comments:
Post a Comment