Monday, March 22, 2021

sondarya lahari sloka 25 - Sanskrit

Sri.{Praveen Bhat
श्रीगुरुभ्यो नमः।
जगन्मात्रे नमः।

*॥सौन्दर्यलहरी॥*
त्रयाणां देवानां त्रिगुणजनितानां तव शिवे
भवेत् पूजा पूजा तव चरणयोर्या विरचिता ।
तथा हि त्वत्पादोद्वहनमणिपीठस्य निकटे
स्थिता ह्येते शश्वत् मुकुलितकरोत्तंसमकुटाः ॥२५॥

त्रयाणां 6/3 of the triad 
देवानां 6/3 of the deities 
त्रि-गुण-जनितानां (त्रयाणां गुणानां समाहारः त्रिगुणम्। त्रिगुणात् जनितानाम्।) 6/3 of those born of three guNas 
तव 6/1 Thy 
शिवे 1S1/1 O Shivani 
भवेत् (भू सत्तायम् +लट्) III/1 is 
पूजा F1/1 homage 
पूजा F1/1 homage 
तव 6/1 Thy 
चरणयोः 6/2 of feet 
या F1/1 which 
विरचिता F1/1 described 
तथा 0 appropriate 
हि 0 since 
त्वत्-पाद-उद्वहन-मणि-पीठस्य (तव पादौ त्वत्पादौ। त्वत्पादयोः उद्वहनं त्वत्पादोद्वहनम्। मणियुक्तपीठः मणिपीठः। त्वत्पादोद्वहनाय मणिपीठस्य।) 6/1 of the gem studded foot-rest of Thine. 
निकटे 7/1 in the vicinity 
स्थिता F1/1 present/ situated 
हि 0 indeed 
एते 1/3 these 
शश्वत् 0 always 
मुकुलित-कर-उत्तंस-मकुटाः (मुकुलिताः कराः एव उत्तंसाः मुकुलितकरोत्तंसाः। तैः युक्ताः मकुटाः येषां ते मुकुलितकरोत्तंसमकुटाः।) M1/3 those with their hands folded and held together on their foreheads.
हे शिवे, या तव चरणयोः पूजा विरचिता सा तव त्रिगुणजनितानां त्रयाणामपि देवानां पूजा भवेत्। तथा हि  मुकुलितकरोत्तंसमकुटाः एते त्वत्पादोद्वहनमणिपीठस्य निकटे शश्वद् हि स्थिताः।
/हे शिवे, तव त्रिगुणजनितानां त्रयाणामपि देवानां या पूजा विरचिता सा पूजा तव चरणयोः पूजा भवेत् । तथा हि मुकुलितकरोत्तंसमकुटाः एते त्वत्पादोद्वहनमणिपीठस्य निकटे शश्वद् हि स्थिताः।
/हे शिवे, तव त्रिगुणजनितानां त्रयाणामपि देवानां तव चरणयोः या पूजा विरचिता भवेत् सा [एव] पूजा। तथा हि मुकुलितकरोत्तंसमकुटाः एते त्वत्पादोद्वहनमणिपीठस्य निकटे शश्वद् हि स्थिताः।
O! Sivaani! That homage made to Thy feet is verily the homage made to the Trinity (three gods) born of Thy three powers or Gunas. This is indeed true and appropriate, for, the Trinity, with their folded hands held together on their fore- heads, always adore Thee with their crowns touching the gem studded foot rest of yours.

No comments:

Post a Comment