Thursday, March 4, 2021

Sanskrit joke - Police vs advocate

** *संस्कृतं व्यावहारिकी भाषा भवेत्***

🤣😛😜😃😄😆😁😀😝🤣

****** *पुलिसदलम्  v/s वाक्कील:*****
******(Police v/s Advocate)*****

वाहन-चालकेभ्यः पुलिस-प्रशासनेन एकस्मिन् पट्टे( on a board) एषः निर्देशः  लिखितः👇 

*NO PARKING.*(अत्र वाहनं मा स्थापयतु)
*PENALTY = Rs 250.* (दण्डः = रू. 250)

पुलिस-बलस्य इमम् आदेशम् उल्लंघ्य वाहन-चालकाः निर्भयीभूय निजवाहनानि तत्रैव स्थापयितुम् आरब्धवन्तः । एतां निज-उपेक्षां दृष्ट्वा पुलिस-अधिकारिणः खिन्नमनीभूय नपुंसकक्रोधपीडिताः अभूवन् । परं पुलिसजनाः आत्मनः असहायान् मन्यमानाः तूष्णीँ स्थिताः आसन् ।

*एकस्मिन् दिने ततः गच्छन्  एकः वाक्कीलः नियमस्य उल्लंघनं दृष्ट्वा अति-खिन्नमना अभवत् ।* अतः सः उपर्युक्तायाः सूचनायाः प्रथमपङ्क्तेः *NO (मा)* द्वितीय पङ्क्त्याः *PENALTY (दण्ड:)* शब्दौ  उच्छिद्य  निर्देशं च परिवर्त्य एवं लिखितवान् 👇

*PARKING(वाहन-स्थापन-स्थलम्)*
*Rs250 (रूप्यकाणि 250)*

तद् दिनाद् आरभ्य को$पि वाहनचालकः तत्स्थले निजवाहनं न स्थापयति । एवं च पुलिस-बलस्य समस्या सरलतया समाहिता जाता । *(आदेश की भाषा बदले जाने के बाद कोई भी अपने वाहन वहां खड़े नहीं करता और इस प्रकार पुलिस की समस्या आसानी से दूर हो गई।)*

*अधुना पुलिस-अधिकारिणः तस्य वाक्कीलस्य अन्वेषणे कार्यरताः सन्ति  येन एषः मन्त्रयोगः (=magic= जादू) कृतः। ते वाञ्छन्ति एतस्मै  वाक्कीलाय अग्रिमे राष्ट्रिये पर्वणि कश्चित् प्रतिष्ठितः पुरुस्कारः (सम्भवतः  पद्मश्री) दीयेत यदर्थं ते सर्वकारं निवेदयिष्यन्ति ।*--- डॉ. खजानसिँह, एडवोकेट, रोहतक (हरि.)

No comments:

Post a Comment