Tuesday, March 9, 2021

Cash On Delivery - Sanskrit joke

पुणेनगरीयः :- हरिओम्, फ्लिपकार्टसंस्थायाः क्रमाङ्कः वा?

फ्लिप्कार्ट् :- आम् महोदय।

पुणेनगरीयः :- अद्य मम पत्नी प्रसूता, सुन्दरः पुत्ररत्नं प्राप्तम् अस्ति।

फ्लिप्कार्ट् :-  अभिनन्दनानि । अतीव आनन्दमयी वार्ता एषा। किन्तु अस्मिन् वयं किं साहाय्यं कुर्मः?

पुणेनगरीयः :-  न किमपि विशेषम्। अहं मम वित्तकोषक्रमाङ्कं ददामि। भवान् तस्मिन् धनं निक्षिपतु।

फ्लिप्कार्ट् :- महोदय, कोऽपि सम्भ्रमः जातः अस्ति इति भाति। एषा फ्लिप्कार्ट् संस्था। अस्माभिः धनं किमर्थं दातव्यम्?

पुणेनगरीयः :- भवता एव आङ्ग्लभाषायां सर्वत्र विज्ञापितम् अस्ति, प्रसूत्योत्तरधनम् (cash on delivery) इति । तत् किमर्थम्?

No comments:

Post a Comment