Friday, February 12, 2021

do not believe on things you hear - Sanskrit story

*श्रुतवत्सु वचनेषु विश्वासः न करणीयः।*

कस्मिंश्चित् वने कश्चन तडागः आसीत्। तडागः जलेन पूर्णः भवति स्म। तडागस्य समीपे मधुकर्कट्याः एकः वृक्षः आसीत्। 

वनस्य सर्वे पशवः तडागम् आगत्य जलं पिबन्ति स्म। 
एकदा एकः शशकः जलं पीत्वा तडागस्य समीपे क्रीडन् आसीत्। 

तदानीं तस्मात् वृक्षात् एका मधुकर्कटी तडागस्य जले अपतत्। 
तस्मात् कारणात् जले गुडुम् इति कृत्वा महान् शब्दः अभवत्। 
शब्दं श्रुत्वा शशकः भीतः सन् ततः पलायनम् अकरोत्। 

शशकस्य पलायनं दृष्ट्वा शृगालः तम् अपृच्छत् किं भोः! किमर्थं पलायसे त्वम्? 
अरे महाशय! वार्तां मा कार्षीत्। पृष्ठतः गुडुम् आगच्छति! इति। 

शशकस्य वचनं श्रुत्वा सः शृगालोऽपि धावनम् आरब्धवान्। 

किञ्चिद् अग्रे कश्चन महान् काययुक्तो गजः तयोः धावनं दृष्ट्वा अपृच्छत् भोः! युवां किमर्थं धावनं कुरुथः? 

शृगालः तदा प्रत्यवदत् महाशय! पृष्ठतः गुडुम् आगच्छति। सः अस्मान् हनिष्यति। अतः भवानपि पलायताम्। 

तयोः वचनं श्रुत्वा गजः अपि धावनम् आरब्धवान्। 

  तदानीं कश्चन सिंहः तेषां पलायनं दृष्ट्वा अपृच्छत् भोः! भवन्तः किमर्थं पलायन्ते? 

गजः तदा प्रत्यवदत् भोः पृष्ठतः गुडुम् आगच्छति। 
सः अत्यन्तं क्रूरः। सः अस्मान् हनिष्यति। अतः वयं धावामः। 

गजस्य मुखात् वचनमिदं श्रुत्वा सिंहः सत्यं स्यात् इति मत्वा सोऽपि धावनम् आरब्धवान्। 

तदानीमेव अन्तः सिंहः तम् अवदत् भोः! भवान् किमर्थं धावति? भवान् तु वनस्य राजा अस्ति। वयं सिंहाः सर्वानपि पशून् हन्तुं शक्नुमः। 

कः सः गुडुम् आदौ जानातु भवान्। इति। 

तदा सः सिंहः अन्यस्य सिंहस्य वचनं श्रुत्वा आम्! सत्यम्! कः सः गुडुम् इति ज्ञातव्यम् अस्ति इति विचिन्त्य गजम् अपृच्छत् भोः! कः सः गुडुम् इति मां दर्शयतु! अहं तं हनिष्यामि इति। 

गजः तदा उक्तवान् अहं न जानामि भोः! मां तु शृगालः अवदत्। 

तदा शृगालं सः सिंहः अपृच्छत्। शृगालः तदा उक्तवान् अहं न जानामि भोः। मां तु शशकः अवदत्। 

तदा सिंहः शशकम् अपृच्छत्। शशकः तदा अकथयत् महाशय! अहं तडागस्य समीपे यदा क्रीडन् आसं तदा तत्र तडागस्य जले गुडुम् इति कृत्वा महान् शब्दः अभवत्। 
तं शब्दं श्रुत्वा अहं भीतः सन् ततः पलायितवान्।

शशकस्य वचनं श्रुत्वा सिंहः अवदत्- एवं चेत् तत्र किम् अस्ति इति अहं द्रष्टुम् इच्छामि। तत् स्थानं दर्शय माम्। इति। 

तदा ते सर्वे अपि तत् स्थानं गत्वा वास्तविकं सत्यं किम् इति ज्ञातवन्तः। 
*-प्रदीपः!*

No comments:

Post a Comment