संस्कृतदिवसानुचिन्तनम्
********************
(१)
नीलशैलालयालीला-लोलुपः सुकलेवरः।
जलजाक्षो जयं रातु तेन जयतु संस्कृतम्।
(२)
संस्कृते निगमाः सन्ति धर्मशास्त्राणि संस्कृतिः।
पुराणानि च शास्त्राणि काव्यानि ज्ञानदानि च।।
(३)
देवतत्त्वं मोक्षतत्त्वं विज्ञानं शिष्टतागुणः।
राजनीतिर्विभात्यत्र समाजोन्नतिरेव हि।।
(४)
संस्कृतं संस्कृतं नित्यं शान्तिवृद्धिसुखप्रदम्।
त्रिभाषासूत्रमध्ये तत् स्थापयन्तु बुधा मुदा।।
(५)
संस्कृतं क्षीयते देशे कृष्णपक्षे शशी यथा।
विदेशे वर्द्धते तत्तु शुक्लपक्षे शशी यथा।।
(६)
क्षीयते संस्कृतं यस्माद् वैदेशिकी विवर्द्धते।
स्वीकुर्वन्त्यपि तां लोका नूनं देशविडम्बना।।
(७)
विहाय संस्कृतं देशे नोन्नत्तिः संस्कृतेः कदा।
नापि प्रान्तीयभाषाणां समृद्धिर्भविता ध्रुवम्।।
(८)
कियदंशेपि देशस्य संस्कृतं नैव दृश्यते।
तत्र तत्र स्थले भातु तस्य सुसंस्कृतिर्गुणः।।
(९)
संस्कृतसंस्कृतिप्राणं भारतं विश्वशिक्षकम्।
तद्विना भाति नैतस्य प्राचीनज्ञानगौरवम्।।
(१०)
संस्कृतस्य सुछात्रा ये गुरवस्तत्प्रिया जनाः।
संस्थाः संगठका नित्यं तद्वृद्धै स्युश्च तत्पराः।।
(११)
शिव ज्ञानमय! ज्ञानं भाषे! भाषां प्रयच्छ नः।
विघ्नेश! हर विघ्नानि संस्कृतं राजतां पुनः।।
(व्रजकिशोरत्रिपाठी)

No comments:
Post a Comment