Thursday, August 13, 2020

poison - sanskrit subhashitam

नमस्ते


🌻🌹शुभोदय🙏सुभाषितम् 🌹🌻

वृश्चिकस्य विषं पुच्छं मक्षिकस्य विषं शिरः।
तक्षकस्य विषं दंष्ट्रा सर्वाङ्गं दुर्जने विषम्॥

वृश्चिकस्य विषं पुच्छं
मक्षिकस्य विषं शिरः।
तक्षकस्य विषं दंष्ट्रा
सर्वाङ्गं दुर्जने विषम्॥

⚡⚡⚡⚡⚡⚡⚡⚡⚡⚡⚡⚡

वृश्चिके विषं तस्य पुच्छे भवति मक्षिके विषं तस्य शिरसि भवति
सर्पे विषं तस्य दंष्ट्रे भवति
किंतु दर्जने विषं तु तस्य सर्वेषु अङ्गेषु भवति

⚡⚡⚡⚡⚡⚡⚡⚡⚡⚡⚡⚡

दुर्जनः मनसि अन्यत् चिन्तयति बहिः अन्यत् प्रकाशयति वदति एवञ्च कर्म अपि अन्यत् करोति आचरति,

अतः तादृशः लक्षणसमन्वितः दुर्जनः विश्वासपात्रः कदापि भवितुं नार्हति

⚡⚡⚡⚡⚡⚡⚡⚡⚡⚡⚡⚡

यतः सः तस्य स्वार्थगुणेन स्वस्य विकासम् एव चिन्तयति न तु सर्वेषां

⚡⚡⚡⚡⚡⚡⚡⚡⚡⚡⚡⚡

यः स्वयं म्रियमानः अन्येषां विकासार्थं प्रयतते सः मानवेषु महात्मा (महान् मानवः)

यः स्वस्य विकासम् इच्छन् अन्येषां विकासार्थं प्रयतते सः मानवेषु सामान्यः मानवः

यः स्वकीयमेव विकासम् इच्छन् अन्येषामपि नाशनम् इच्छति सः मानवेषु अधमः मानवः

यः स्वयं नश्यन् अन्येषां नाशनं इच्छति सः मानवेषु अधमाधममानवः

⚡⚡⚡⚡⚡⚡⚡⚡⚡⚡⚡⚡

अतः मित्राणि वयं स्वयं कष्टाणि अनुभवन्तः अन्येभ्यः फलं न वाञ्छन्तः

पञ्चभूतानाम् इव इतरेषां उपकारं कृत्वा महात्मनः भवितुमेव यतामहे

तेन एव अस्माकं जीवनं पावनं पुण्यास्पदं च भवति इति सर्वदा हृदये चिन्तयामः

संभाषणसंस्कृतम् (मासपत्रिका)

अखंड संस्कृतभारतम् (जातीयदलं)

⚡⚡⚡⚡⚡⚡⚡⚡⚡⚡⚡⚡

"तेलुनकु कॊंडियंदु, कंदिरीगकु तलयंदुनु, पामुनकु कोरयंदु, दुर्जनुडिकि निलुवॆल्लनू विषमुंडुनु."

🌷🌻🌹🌸 शुभमस्तु 🌸🌹🌻🌷

1 comment:

  1. सुभाषितमिदं मया प्रेषितम्
    अहं संस्कृतसुधासिन्धुरिति मुखपुस्तक प्रधानपालकः अस्मि
    यथा मया टङ्कितं तथौव तं सुभाषितं स्वीकृतवन् भवान्
    मध्ये संस्कृतभावार्थं योजितवान्

    अन्ते तेलुगु भावं यथा तेलुगुलिप्यां दत्तवान् भवान् तां तेलुगुलिपिं संस्कृते दत्वा मद्दृष्टिगोचरे अपतत्

    एवं कर्तुं अपराधः खलु महोदय .. दोषः ननु..?

    ReplyDelete