जनगणमनाधिनायक जय हे भारतभाग्यविधातः
पञ्चापसिन्धुगुर्जरमहाराष्ट्रा द्राविडोत्कलवङ्गाः
विन्ध्यहिमाचलयमुनागङ्गा उच्चलजलधितरङ्गाः
तवशुभनामप्रबोधाः तवशुभाशिःकाङ्क्षाः
गायन्ति ते जयगाथाः
जनगणमङ्गलदायक जय हे भारतभाग्यविधातः
जय हे जय हे जय हे जय जय जय जय हे
अहरहस्तवाह्वाने प्रचालिते
संश्रुत्य तवोदारवाणीं
हिन्दुबौद्धसिखजैनपारसिकाः
मुसलमानख्रिस्त्यान्यः
पूर्वापरमायान्ति तवसिंहासनपार्श्वे
प्रेमहारं ग्रथ्नन्ति
जनगणैक्यविधायक जय हे भारतभाग्यविधातः
जय हे जय हे जय हे जय जय जय जय हे
पतनाभ्युदयबन्धुरः पन्था युगयुगधावितयात्री
हे चिरसारथि तवरथचक्रमुखरितपथदिनरात्रः
दारुणविप्लवमध्ये तवशङ्खध्वनिघोषः
सङ्कटदुःखत्राता
जनगणपथपरिचायक जय हे भारतभायविधातः
जय हे जय हे जय हे जय जय जय जय हे
घोरतिमिरघननिबिडनिशीथे पीडिते मूर्च्छिते देशे
जाग्रति किल तवाविचलमङ्गलनतनयनेऽनिमेषे
दुःस्वपने चातङ्के रक्षाऽकार्षीरङ्गे
स्नेहमयी त्वं मातः
जनगणदुःखत्रायक जय हे भारतभाग्यविधातः
जय हे जय हे जय हे जय जय जय जय हे
रात्रिः प्रभाता उदितरवेश्च्छविः पूर्वोदयगिरिभाले
गीतं विहङ्गमैः पुण्यसमीरो नु नवजीवनरसधारा
तवकरुणारुणरागे निद्रितजागृतभारतः
तवचरणेनतममस्तः
जय जय जय हे जय राजेश्वर भारतभाग्यविधातः
जय हे जय हे जय हे जय जय जय जय हे
No comments:
Post a Comment