Friday, November 22, 2019

Panca yagnas

Courtesy: Dr.Korada Subramanyam

पञ्च वा एते महायज्ञाः सतति प्रतायन्ते सतति सन्तिष्ठन्ते देवयज्ञः पितृयज्ञो भूतयज्ञो मनुष्ययज्ञो ब्रह्मयज्ञ इति 

यदग्नौ जुहोत्यपि समिधं तद्देवयज्ञः सन्तिष्ठते 

यत्पितृभ्यः स्वधाकरोत्यप्यपः तत्पितृयज्ञः सन्तिष्ठते

यद्भूतेभ्यो बलिग्ं हरति तद्भूतयज्ञः सन्तिष्ठते 

यद्ब्राह्मणेभ्यो'न्नं ददाति तन्मनुष्ययज्ञः सन्तिष्ठते

यत्स्वाध्यायमधीयीतैकामप्यृचं यजुस्साम वा तद्ब्रह्मयज्ञः सन्तिष्ठते ...

                                              ---- तैत्तिरीयारण्यकम् , 2-14 (स्वाध्यायब्राह्मणम् इति प्रसिद्धम्)

The above five are called पञ्चमहायज्ञाः -- देवयज्ञः , पितृयज्ञः , भूतयज्ञः , मनुष्ययज्ञः , ब्रह्मयज्ञः and Panini and Patanjali say the wife of a person who performs these five is fit to be called पत्नी --

 ' पत्युर्नो यज्ञसंयोगे ' पा 4-1-33 . 

दम्पत्योः सहाधिकारात् - षष्ठमीमांसा । No separate कर्म for ladies .

महाभाष्यम् --

सर्वेण गृहस्थेन पञ्च महायज्ञाः निर्वर्त्याः ।

No comments:

Post a Comment