गुशब्दस्त्वन्ध्कारः स्यात् रुशब्दस्तन्निवारकः -- there is not any प्रमाणम् is assigning such a meaning in such a way .
गॄ शब्दे - क्र्यादिः - ' कॄग्रोरुश्च ' उणादिः 1-24 उः -- गुरुः ।
In all genders it is गुरु only --
गुरू गीर्पतिपित्राद्यौ ( अमर्ः - 3कां नानार्थवर्गः 162 )
गुरुस्त्रिलिङ्ग्यां महति दुर्जरालघुनोरपि ।
पुमान्निषेकादिकरे पित्रादौ सुरमन्त्रिणि ॥ मेदिनी
स राज्यं गुरुणा दत्तं प्रतिपद्याधिकं बभौ ।
दिनान्ते निहितं तेजः सवित्रेव हुताशनः ॥ रघुवंशः , 4-1
गुरुः = पिता
शुश्रूषस्व गुरून् कुरु प्रियसखीवृत्तिं सपत्नीजने -- अभिज्ञानशाकुन्तलम् , अङ्कः 4
गुरून् = ladies and gents , who are enumerated in कूर्मपुराणम् --
उपाध्यायः पिता ज्येष्ठो भ्राता चैव महीपतिः ।
मातुलश्श्वशुरः त्राता मातामहपितामहौ ॥
वर्णज्येष्ठः पितृव्यश्च पुमांसो गुरवः स्मृताः ।
माता मातामही गुर्वी पितुर्मातुश्च सोदराः ॥
श्वश्रूः पितामही ज्येष्ठा भगिनी गुरवः स्त्रियः ।
शङ्खस्मृतिः ( 3-1,2) --
स गुरुर्यः क्रियां कृत्वा वेदमस्मै प्रयच्छति ।
उपनीय गुरुः शिष्यं शिक्षयेत् शौचमादितः ॥
आचारमग्निकार्यं च सन्ध्योपासनमेव च ।
भृतकाध्यापको यस्तु उपाध्यायस्स उच्यते ॥
क्रियाम् = उपनयनसंस्कारम् ; भृतकाध्यापकः - the one who teaches for livelihood is called उपाध्याय ( उपेत्य अधीयते अस्मात् --
घञ् -- ' इङश्च ' पा सू ।
तन्त्रे --
गुरुरुपयः -- शिवसूत्रम् , 2-6
गृणाति उपदिशति तात्त्विकमर्थम् इति गुरुः -- शिवसूत्रविमर्शिनी ।
गुरवो बहवः सन्ति शिष्यवित्तापहारिणः ।
दुर्लभो'यं गुरुर्देवि शिष्यचित्तापहारकः ॥ कुलार्णवः , प्रबोधचन्द्रोदयम् , परशुरामकल्पसूत्रम्
धन्यो'स्मि
Dr.Korada Subrahmanyam
Professor of Sanskrit, CALTS,
University of Hyderabad,
Ph:09866110741(M),91-40-23010741(R),040-23133660(O)
Professor of Sanskrit, CALTS,
University of Hyderabad,
Ph:09866110741(M),91-40-23010741(R),040-23133660(O)
Skype Id: Subrahmanyam Korada
Blog: Koradeeyam.blogspot.in
No comments:
Post a Comment