Thursday, August 1, 2019

Yato yata: samIhase - yajur veda mantra meaning

यतो यतः समीहसे ततो न अभयं कुरु।
शन्नः कुरु प्रजाभ्योऽभयं नः पशुभ्यः।।
यजु० अ०/३६/मं२२

भाष्यम् - हे परमेश्वर! यतो यतो देशात्त्वं समीहसे जगद्रचनपालनार्थं चेष्टां करोषि, ततस्ततो देशान्नोऽस्मानभयं कुरु, यतः सर्वथा सर्वेभ्यो देवेभ्यो भयरहिता भवत्कृपया वयं भवेम। तथा तत्रस्थाभ्यः प्रजाभ्यः पशुभ्यश्च नोऽस्मानभयं कुरु, एवं सर्वेभ्यो देशेभ्यस्तत्रस्थाभ्यः प्रजाभ्यः पशुभ्यश्च नोऽस्मान् शंकुरु, धर्मार्थ- काममोक्षादिसुखयुक्तान् स्वानुग्रहेण सद्यः सम्पादय!!

No comments:

Post a Comment