Tuesday, August 6, 2019

Sanskrit joke

विद्यालये अध्यापकः छात्रान् पाठयति!
कर्ता कः, कर्म किम्, क्रिया का इति पाठयति!

कृष्णफलके वाक्यं लिखित्वा छात्रेभ्यः दर्शयति!

अनिलः लड्डुकं खादितुं न इच्छति!

अध्यापकः- रमेश! त्वं वद , अस्मिन् वाक्ये अनिलः कः?

रमेशः- अनिलः मूर्खः!

अध्यापकः- कथम्?

रमेशः- सः लड्डुकं खादितुं न इच्छति, अतः मूर्खः!

रमेशस्य उत्तरं श्रुत्वा अध्यापकः मूर्च्छितः अभवत्!

😄
-प्रदीपनाथः

No comments:

Post a Comment