*सतर्कता आवश्यकी*
एकः युवकः तस्य विवाहस्य वर्षद्वयात् परं धनं सम्पादयितुं विदेशं गन्तुं इष्टवान्!
तस्य पितरौ अपि अङ्गीकृतवन्तौ !
तदा सः तस्य गर्भवतीस्त्रीं मातापित्रोः सान्निध्यं त्यक्त्वा विदेशं गतवान्!
सः तत्र विंशतिः वर्षाणि यावत् आसीत्! बहु धनं सः सम्पादितवान्!
बहु धनम् इत्युक्ते सः महान् धनिकः अभवत्!
तदा सः मनसि चिन्तितवान् यत् इदानीं तु मया स्वगृहं गन्तव्यम् इति!
सः एकं पत्रं लिखित्वा गृहं प्रति प्रेषितवान् एवञ्च तदानीम् एव जलयानस्य आरोहणं कृतवान्!
जलयाने अन्यम् एकं यात्रिकं दृष्टवान्! सः खिन्नमनः आसीत्!
सः तं पृष्टवान् भो महोदय! किमर्थं भवान् विषादेन उपविशन् अस्ति? किम् अभवत् इति!
अस्मिन् देशे ज्ञानस्य मूल्यम् एव नास्ति इति सः यात्रिकः उक्तवान्!
तदा सः युवकः चिन्तितवान् अहं तु अस्मिन् देशे एव व्यापारं कृतवान् बहु धनमपि सम्पादितवान्! अतः मया कर्तव्यम् अस्ति यत् अस्य देशस्य मानरक्षणं करणीयम् इति!
युवकः तं पृष्टवान्- भवतः ज्ञानस्य मूल्यं किम्?
मम ज्ञानस्य सूत्राणि सन्ति, एकस्य सूत्रस्य मूल्यं पञ्चशतं स्वर्णमूद्रिकाः इति सः यात्रिकः उक्तवान्!
बहु अधिकं मूल्यं श्रुत्वा सः युवकः मनसि चिन्तितवान् किं करवाणि अधुना! तथापि सः चिन्तितवान् यत् एकम् एव सूत्रं क्रेष्यामि इति!
अस्तु तर्हि, एकमेव सूत्रं मह्यं ददातु इति उक्तवान् युवकः!
किमपि कार्यं करणात् पूर्वं निमेषद्वयं चिन्तनीयम् इति उक्तवान् यात्रिकः!
युवकः तदा लिखितवान् तस्य टिप्पणीपुस्तिकायाम् !
सः तस्मै यात्रिकाय पञ्चशतं स्वर्णमूद्रिकाः अपि दत्तवान्!
इदानीं सः युवकः गृहनगरम् आगतवान्!
सः मनसि चिन्तितवान् यत् कस्मै अपि सूचनां न ददामि, अहं शनैः मम पत्न्याः प्रकोष्ठं गत्वा द्रक्ष्यामि इति!
शनैः प्रकोष्ठं प्रविश्य दृष्टवान् तस्य पत्न्याः सह एकः युवकः सूप्तवान् अस्ति इति!
तद्दृष्ट्वा तस्य महान् कोपः आगतः! झटिति खड्गं गृहीत्वा तां हन्तुम् उद्यतः अभवत्!
पुनः यात्रिकस्य ज्ञानसूत्रं सहसा तस्य मनसि आगतवान्! किमपि करणात् पूर्वं निमेषद्वयं चिन्तनीयम् इति!
तदा एव खड्गेन सह पात्रस्य स्पर्शेण शब्दम् अभवत्!
शब्दं श्रुत्वा सा उत्थितवती !
उत्थाय दृष्टवती तस्याः पति गृहम् आगतवान् इति!
तस्याः पार्श्वे यः सूप्तवान् आसीत् सः तयोः पुत्रः एव आसीत्!
तदा तस्य पत्नी पुत्रं उत्थापितवती , पुत्र उत्तिष्ठ पश्य तव पिता आगतः इति!
सः पुत्रः अपि शीघ्रम् उत्थाय तस्य पितरं नमस्कृतवान् !
तदा सः तस्य पुत्रं आलिङ्गितवान् एवञ्च मनसि चिन्तितवान् अहं तु घोरपापं कर्तुम् उद्यतः अभवम्!
भगवान् एव मां रक्षितवान् इति!
🌹🌷
*-प्रदीपः*
No comments:
Post a Comment