💐💐💐💐💐💐💐
।। रोदिति किल भारती ।।
💐💐💐💐💐💐💐
देशस्य या सुवक्त्री वै नेत्री च सुषमा शुभा ।
गता विमुच्य राष्ट्रं या रोदिति किल भारती ।।१।।
विपक्षिणः पक्षिणचैव सर्वेऽपि मलिना मुखाः ।
देवभाषाप्रिया या सा रोदिति किल भारती ।।२।।
मातृत्वं दृश्यते यस्यां स्नेहमूर्तिश्च सर्वदा ।
या देशद्रोहिणां चण्डी रोदिति किल भारती ।।३।।
अखण्डभारतं द्रष्टुं या नित्यमभिलाषिणी ।
पुरतः सर्वमद्यैव रोदिति किल भारती ।।४।।
या प्राणान् हृदये धृत्वा प्रतीक्षते स्म मातरम् ।
अङ्के निधाय या माता रोदिति किल भारती ।।५।।
या च राष्ट्रपुरस्कारैः देशेऽस्मिन्वै सभाजिता ।
तेजो यस्यां मुखे नित्यं रोदिति किल भारती ।।६।।
धन्यास्ते पितरस्सन्ति धन्यास्ते गुरवस्सदा ।
धन्ये कन्ये च हे देवि ! रोदिति किल भारती ।।७।।
धर्मप्रिया स्वराजेति नारीणां मार्गदर्शिका ।
श्रद्धासुमनपद्यैश्च भावाञ्जलिः समर्प्यते ।।८।।
यावन्नाम च ते लोके स्थास्यति चैव सर्वदा ।
यावदस्यां धरायां च स्थास्यतश्चन्द्रभास्करौ ।।९।।
शुभ्रचरित्रयुक्ता या गङ्गेव शोभते सदा ।
शिवान्या लिखिताश्श्लोकाः भावाञ्जलिः समर्प्यते ।। १०।।
डा. शिवानी शर्मा, कुरुक्षेत्रम् ।
💐💐💐💐💐💐💐💐
No comments:
Post a Comment