Tuesday, August 6, 2019

Bhaja Govinda-Sanskrit essay

*स्वर्वाणीप्रकाशः* (वाट्साप् गणः)
🔱गुरुवासरः आषाढशुक्लदशमी (11-07-19)🕉
✍प्रस्तावविषयः-- मोहमुद्गरः (भज-गोविन्द-स्तोत्रम्)⚜

यावद्वित्तोपार्जनसक्तः तावन्निजपरिवारोरक्तः ।
पश्चाज्जीवति जर्जरदेहे वार्तां कोऽपि न पृच्छति गेहे ॥ 
   --मोहमुद्गरः

    मोहमुद्गरे श्लोकोऽयं सततमनुस्मरणीयः। दारापतिपुत्रनिलयादिषु सदाऽनुरक्तः मनुष्यः। अतः हे मानव! अनुरक्तिं त्यज। यावत्कालं त्वं निजपरिवाराय लाभकरो भवति तावत्कालमेव ते तुभ्यं प्रेमां ददति। वार्धक्ये निष्क्रिये समये यः कोऽपि त्वां कुशलमपि न पृच्छति। अतः कर्तव्यपालनसमयेऽपि सर्वदा भगवन्तं गोविन्दं भज। इति भगवद्पादाः उद्बोधितवन्तः।

    मुद्गरो नाम लोहगदेति। मोहे पतितमनुष्याणां कृते इदं स्तोत्रं शस्त्रसमानमेव।" मोहमुद्गरः" इति समुचितमिति चिन्तयामि। उपनिषत्सारं सर्वमपि अस्मिन् संस्थाप्य पामरजनानामपि अवबोधनाय बोधितवन्तः जगद्गुरवः।

भजगोविन्दं भजगोविन्दं गोविन्दं भज मूढमते।
सम्प्राप्ते सन्निहिते काले नहि नहि रक्षति डुकृञ् करणे।।
  --मोहमुद्गरः

अन्तकाले च मामेव स्मरन् मुक्त्वा कलेबरम्।
यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ॥ 
  --भगवद्गीता

   वार्धक्येऽपि "डुकृञ्करण" इत्यादीनां व्याकरणसूत्राणां अध्ययनेन किमुतप्रयोजनमिति भगवच्चिन्तनया एव जीवः मुक्तो भवतिति गीतासारं अकथयन् आचार्याः।

सत्सङ्गत्वे निस्स्ङ्गत्वं निस्सङ्गत्वे निर्मोहत्वम् ।
निर्मोहत्वे निश्चलतत्त्वं निश्चलतत्त्वे जीवन्मुक्तिः ॥ 
  --मोहमुद्गरः

साङ्गत्यप्रभावात् भगवद्भक्तिं ज्ञानं च प्राप्नुमः। संसारे वैराग्यमपि सिद्ध्यते। अयं विषयः नारदवृत्तान्ताद् ज्ञायते। बहु सरलतया अस्मिन् श्लोके भगवद्पादाः बोधितवन्तः।

भगवद्गीता किञ्चिदधीता गङ्गाजललवकणिकापीता ।
सकृदपि येन मुरारिसमर्चा क्रियते तस्य यमेन न चर्चा ॥ 

  अस्मिन् श्लोके मनुष्यस्य कर्तव्यं उपदिशन्ति। नित्यं गीतापठनं, गंगास्मरणेन सह उदकपानम्, विष्णोरर्चनञ्च कर्तव्यमिति तस्मात् जीवः मुक्तिमधिगच्छतिति उद्बोधितवन्तः।

"गीताध्ययनशीलस्य प्राणायामपरस्य च।
नैव सन्ति हि पापानि पूर्वजन्मकृतानि च।।"इति गीताफलश्रुतिः।

तव जलममलं येन निपीतं,
परमपदं खलु तेन गृहीतम् ।
मातर्गङ्गे त्वयि यो भक्तः 
किल तं द्रष्टुं न यमः शक्तः ॥ इति गंगावैशिष्ट्यम्।

अहं दूरदस्ते पदांभोजयुग्म
प्रणामेच्छयागत्य सेवां करोमि ।
सकृत्सेवया नित्यसेवाफलं त्वं
प्रयच्छ पयच्छ प्रभो वेङ्कटेश ॥इति श्रीवेङ्कटेशस्तोत्रम्।

   प्रभातवेलायां श्रीमत्या M.S.सुब्बुलक्ष्म्या गीतमिदं स्तोत्रं श्रोष्यामश्चेत् आदिवसान्तमपि मनः सन्तुष्टिमवाप्नोति।
   --बाला...🙏🌷✍️

  

No comments:

Post a Comment