Thursday, May 2, 2019

Amarakosha-Sanskrit essay

*स्वर्वाणीप्रकाशः* (वाट्साप् गणः)
✒बुधवासरः चैत्रशुक्लपञ्चमी (10-04-19)📙
✍प्रस्तावविषयः-- अमरकोषः📚

राज्ञः विक्रमादित्यस्य सदसि  प्रसिद्धेषु नवपण्डितेषु अन्यतमः श्री अमरसिंह एव अमरकोषस्य रचयिता इत्येव विश्वासः तथापि अमरकोषस्य रचनाकालघट्टस्य स्पष्टता नास्ति इत्यपि चरित्रकारा अभिप्रयन्ति।  नामलिङ्गानुशासनं त्रिकाण्डम् इत्यादीनि अपरनामानि। भाषाज्ञानार्थं पदसम्पत्तिः नितराम् अनिवार्या वर्तते संस्कृतभाषाभ्यासे पदानां लिङग-पर्यायपदानां ज्ञानार्थं प्राचीनकालात् अध्येतार अमरकोषम् आश्रयन्ति स्म। पद्यरूपेणरचितेऽस्मिन् ग्रन्थे प्रायः दशसहस्रपदानि सन्ति। 
अमरकोषे काण्डत्रयं विद्यते। 

प्रथमकाण्डम्/स्वर्गादिकाण्डम्
द्वितीयकाण्डम्/भूवर्गादिकाण्डम्
तृतीयकाण्डम्/सामान्यादिकाण्डम्

स्वर्गादिकाण्डे एकादश वर्गाः सन्ति। 

१ स्वर्गवर्गः २ व्योमवर्गः ३ दिग्वर्गः४ कालवर्गः ५ धीवर्गः ६ वाग्वर्गः७ शब्दादिवर्गः ८ नाट्यवर्गः ९ पातालभोगिवर्गः१० नरकवर्गः ११ वारिवर्गः


द्वितीयकाण्डम्/भूवर्गादिकाण्डम्

द्वितीयकाण्डे दशवर्गाः सन्ति। 

१ भूमिवर्गः २ पुरवर्गः ३ शैलवर्गः४ वनौषधिवर्गः ५ सिंहादिवर्गः ६ मनुष्यवर्गः७ ब्रह्मवर्गः ८ क्षत्रियवर्गः ९ वैश्यवर्गः१० शूद्रवर्गः

तृतीयकाण्डम्/सामान्यादिकाण्डम्

१ विशेष्यनिघ्नवर्गः २ सङ्कीर्णवर्गः ३ नानार्थवर्गः४ नानार्थाव्ययवर्गः ५ अव्ययवर्गः ६ लिङ्गादिसङ्ग्रहवर्गः

भाषाज्ञानम् इच्छन्तः जनाः पुरातनकाले सम्पूर्णतया अमरकोषस्य कण्ठस्थीकरणं कुर्वन्ति स्म। अद्यापि  साम्प्रदायिकरीत्या संस्कृतपठने अमरकोषपठनम् अनिवार्यम् अस्ति। तस्मिन् समये उपलभ्यमानानां निघण्टुग्रन्थाः अन्ये च पुस्तकानि परिशील्य 
विषयानुगुणं शब्दाः अस्मिन् ग्रन्थे वर्गीकृताः। पठनसौकर्यं मनसि निधाय अमरसिंहः समीचीनरीत्या ग्रन्थोऽयं रचितवान् इत्येव वदन्ति पण्डिताः। अद्यापि संस्कृतासक्ताः whatsapp YouTube इत्यादिषु माध्यमेषु नविनपाठनपद्धतिम् आश्रित्य अमरकोषस्य पाठनं क्रियते इति प्रमोदकरः विषयः।। 

तादृशोऽयं गणः।। 

Follow this link to join my WhatsApp group: https://chat.whatsapp.com/IcSsT7xjck0496TqXiuP3R


~ सुनीश् नम्बूतिरि 

जालपुटम् - https://suravaniblog.wordpress.com

No comments:

Post a Comment