*॥ वेदपोषकसभापरीक्षा॥*
दक्षिणाम्नाय शृङ्गेरीशारदापीठाधीश्वरैः वेदशास्त्रसंरक्षणबद्धादरैः परमपूजनीयैः *जगद्गुरुश्रीभारतीतीर्थमहास्वामिभिः* परिपोष्यमाणा वेदपोषकसभा प्रतिवत्सरं वेदेषु परीक्षाः प्रचाल्य तासु उत्तीर्णान् विद्यार्थिनः सम्मानयन्ती वर्तते । इयं हि सभा चत्वारिंशद्धायनेभ्यः प्राक् *जगद्रुश्रीमदभिनवविद्यातीर्थमहास्वामिभिः* वेदविद्याभिवृद्धये स्थापिता । सभयानया विकारिसंवत्सरीयवेदपरीक्षाः चैत्रकृष्णप्रथमामारभ्य अमावास्यापर्यन्तं श्रीशृङ्गेरीमठे प्रवर्त्यन्ते । परीक्षासु प्रविविक्षवो विद्यार्थिनः अभ्यर्थनपत्रिकां पूरयित्वा *10-04-2019* तः अवगेव शृङ्गेरी प्रति (रिजिस्टर् पोस्ट् / प्रोफेषनल् कोरियर् द्वारा ) प्रेषयेयुः।
Veda Poshaka Sabha, Dakshinamnaya Sri Sharada Peetham, Sringeri - S77139 Chikkamagalur District, Karnataka Phone: 08265-250123, 250192
*परीक्षाभागः- परीक्षाविवरणम्*
१) *ऋग्वेदः* - प्रथमवर्षे - क्रमान्तम् । द्वितीयवर्षे - घनान्तम् ॥ परीक्षादिनानि - चैत्रकृष्णप्रथमातः पञ्चमीपर्यन्तम् । (20-04-2019 - 24-04-2019)
२) *शुक्लयजुर्वेदः* - प्रथमवर्षे - क्रमान्तम् , बृहदारण्यकोपनिषच्च । द्वितीयवर्षे - घनान्तम् , बृहदारण्यकोपनिषच्च ॥ परीक्षादिनानि - चैत्रकृष्णषष्ठीतः दशमीपर्यन्तम् । (25-04-2019 - 29-04-2019)
३) *कृष्णयजुर्वेदः* - प्रथमवर्षे - ब्राह्मणारण्यकसहितं क्रमान्तम् । द्वितीयवर्षे - घनान्तम् ॥ परीक्षादिनानि -चैत्रकृष्णषष्ठीतः दशमीपर्यन्तम् । (25-04-2019 - 29-04-2019)
४) *सामवेदः* - प्रथमवर्षे - पूर्वभागः (पूर्वार्चिकः, उत्तरार्चिकः, प्रकृतिः, आरण्यकगानम् , मन्त्रब्राह्मणम्)
द्वितीयबर्षे - उत्तरभागः (पूर्वोत्तरार्चिकपदम् , ऊहरहस्यगानम् , छान्दोग्योपनिषद्य) परीक्षादिनानि-चैत्रकृष्णैकादशीतः अमावास्यापर्यन्तम् । (30-04-2019 - 04-05-2019)
५) *अथर्ववेदः* - ये शाखान्तरीयाः अथर्ववेदे परीक्षां दातुमिच्छन्ति तेषां
प्रथमवर्षे - स्वशाखीयमूलम् , द्वितीयवर्षे - अथर्ववेदसंहिता, गोपथब्राह्मणम् परीक्षादिनानि - चैत्रकृष्णप्रथमातः पञ्चमीपर्यन्तम् । (20-04-2019 - 24-04-2019)
६) *षडङ्गपरीक्षा* - क्रमपरीक्षायाम् उत्तीर्णाः षडङ्गपरीक्षां दातुमर्हाः भवन्ति ।
परीक्षादिनानि - चैत्रकृष्णप्रथमातः पञ्चमीपर्यन्तम् । (20-04-2019 - 24-04-2019)
*विशेषसूचना*
1. परीक्षार्थिनः स्वकीयाभ्यर्थनपत्रं 10-4-2019 तः अर्वागेव शृङ्गेरी प्रति प्रेषयेयुः ।
Filled applications are to reach Sringeri by 10-4-2019. A scanned copy of the application has to be sent to info@sringeri.net
2. परीक्षार्थिनः स्वशाखीयपरीक्षादिने प्रातः ८ वादनात् प्रागेव शृङ्गेय श्रीमठे उपस्थिता भवेयुः ।। Applicants have to be in Sringeri by 8 a.m. on the starting day of the exams of their respective Veda Shakhas
3. ये घनपरीक्षां षडङ्गपरीक्षां वा दातुमिच्छन्ति तैः वेदपोषकसभया प्रदत्तायाः प्रमाणपत्रिकायाः प्रतिकृतिः अवश्यं प्रेषणीया।। Applicants for Ghanantam or Shadangam have to enclose a copy of their Kramanta Certificate received from the Veda Poshaka Sabha
4.परीक्षासु उत्तीर्णः छात्रैः वैशाखशुक्लप्रथमातः पञ्चमी यावत् (5-5-2019-9-5-2019) शृङ्गेय वेदपारायणं अवश्यं कर्तव्यम् । वैशाखशुक्लषष्ट्यां (10-5-2019) सायं । योग्यतापत्रवितरणपूर्वकं ते सम्मानयिष्यन्ते। Applicants who successfully pass the exam will have to perform Veda Parayanam at Sringeri from Vaishakha Shukla Prathama (55-2019) to Panchami (9-5-2019). They will be awarded certificates and honoured in the evening on the Shankaracharya Rathotsva day (10-5-2019)
~ *श्रीश्रीजगद्गुरुशङ्कराचार्यमहासंस्थानम्,*
*दक्षिणाम्नायश्रीशारदापीठम्,* *शृङ्गेरी।*
No comments:
Post a Comment