Friday, April 26, 2019

Unadulterated faith has the power to achieve anything you want to- Sanskrit story

Courtesy:Sri.KS.Mani

निर्मिश्रा श्रद्धा  अथवा मन्त्रशक्तिः

 

एकदा कोच्चीरज्ये, अधुना ज्ञातस्य केरळ राज्यस्य एकः विभागः, रामवर्मः तंपुरान् नाम राजा आसीत्। मलयाळभाषायां  "तंपुरान्" इति वाक्यस्य अर्थः "राजा" इति भवति। केरळराज्यः निबिडानि विस्तीर्णानि   आरण्यसम्पन्नः इति हेतोः कुत्रापि नागानाम् अभावः आसीत्।  केचित् उरगाः उग्रविषैलाः इति कारणात् वैद्यशास्त्रे विषवैद्यशास्त्राय प्राधान्यम् अलभत। अतः सर्वत्र विषवैद्याः प्रचुर संख्यायां भवन्ति स्म। सर्वेषु विषवैद्येषु

अग्रेसरः नीलकण्ठः नाम विषवैद्यः आसीत् यः कोच्चीराज्यस्य राजधान्यां समीपे वसति स्म नीलकण्ठः

विषवैद्यशास्त्रे अग्रिमः इति हेतोः राजा तस्मै आस्थानवैद्यस्य पदवीं दत्तवान्। नैकट्यरज्येभ्यः अपि विषनिष्कासनाय बहवः जनाः नीलकण्ठस्य समीपे आगच्छन्ति स्म।

नीलकण्ठः आढ्यधनिकः आसीत् इति कारणात् सः मूल्यं विना तस्य सेवनम् कृतवान्। तस्मै बान्धवः वर्तते इति हेतोः सः एकाकिनः एव वसति स्म तस्य बृहते गृहे। तथापि तस्य गृहे, एकः भृत्यः गोपालः नाम बालकः आसीत्। सः वस्त्रक्षालनं, पाचकं, गृहांगणशुद्धीकरणं, गृहतलशुद्धीकरणं, पात्रक्षालनं, पशुपालनम् इत्यादयाः सर्वाणि गृहकार्याणि आत्मार्थतया करोति स्म नीलकण्ठाय यद्यपि सः गृहकार्ये अतिसमर्थः आसीत् पठने सः समग्रं मंदः अभवत्। परन्तु सः आज्ञानुवर्तिः विश्वस्तः सर्वदा सुमुखः आसीत् इति हेतोः नीलकण्ठः गोपालम् अत्यधिकं स्निह्यति स्म।  एकस्मिन् दिने गोपालः नीलकण्ठं काफीं दातुं समये एवं  "हे गोपाला, त्वं मम सेवनम् दशसंवत्सरक्लालं सस्मितं सस्नेहं दोषं विना अकरोत् इति हेतोः अहं त्वयि अतिप्रसन्नः अस्मि। अतः अहम्ं त्वां किञ्चित् विशेषं प्रतिफलं दातुम् इच्छामि। तुभ्यं अधिकतमम् उपयोगकारिणः किञ्चित् वाञ्चा भवेत् तव मनसि  निःसंकोचेन मां वद। तव इच्छा पूरणाय मह्यं संतोषमेव लभते।   प्रत्युत्तरे गोपालः एवम् अवदत्। "हे यजमान,  भवान् जानाति अहम् अज्ञः इति। अहं चिन्तयामि यदा मम मातृपितरौ वार्धक्यं प्रापयिष्यतः तदा अहं निर्बन्धितः भविष्यति मम ग्रामं प्रत्यागन्तुं तयोः सेवनार्थम्। मम ग्रामे धनिकाः नास्ति इति हेतोः  तत्र कोपि भृत्यं नियुज्यति।  तस्मात् भवान् कृपया लघुरीत्यां मह्यं

 विषवैद्यशास्त्रं पाठयति चेत् तद् अस्माकम् उपजिवनाय बृहतः उपकारः भवेत्।  नीलकण्ठः गोपालं पाठयितुं भृशम् इच्छति चेदपि सः जानाति स्म गोपालः पठनविषये मन्दबुद्धिः आसीत् इति। अन्न्यच्च, विषवैद्यशास्त्रस्य पठनम् अशक्यः एव संस्कृतभाषाज्ञानं विना।  अपि संस्कृतपठनं गोपालेन अतीतः इति हेतोः नीलकण्ठः परिहासस्वरे एवम् अवदत् " त्वं विड्डि कूश्माण्डम् एव।"

"कूश्माण्डम्" एकं शाकम् भवति यद् शाकेषु बृहत्तमः भवति। "विड्डि" इति वाक्यस्य अर्थः मलयाळभाषायां "मूर्खः" इति। तस्मात् नीलकण्ठः एतयोः वाक्ययोः प्रयोगेन उद्दिष्टार्थः  "हे मूर्खेषु अग्रिमः,  त्वया कथं विषवैद्यशात्रं पठितुम् शक्नोषि इति। परन्तु सरळः गोपालः " विड्डि कूश्माण्डम्"  इति वाक्यौ एव श्रुतः। वाक्ययोः अर्थः सः जानाति इति हेतोः  सः अचिन्तयत्  लघुरीत्या गुरुः एतं विषनिस्कासनमन्त्रम् उपादिशत् तम् इति।  तस्मात् सः परेद्युः प्रातःकाले चतुर्वादने नद्यां स्नात्वा दृढविश्वासेन अष्टोत्तर सहस्रवारं "विड्डिकूश्माण्डं"  "विड्डिकूश्माण्डं" "विड्डिकूश्माण्डं"  इति मन्त्रोच्चारणम् अकरोत्।  प्रतिदिनं सः अविरतं इदं  कर्मं करोति स्म  द्वयसंवत्सरपश्चात्  गोपालः ग्रामं प्रत्यागन्तुं निर्बन्धितः अभवत्।  नीलकण्ठः गोपालं सम्यक् धनम् अपि दत्तवान्।  ग्रामं गत्वा गोपालः पितरं  श्रद्धया शुश्रूषित्वा उचित चिकित्साम् अपि दत्वा पितुः अस्वास्थ्यं दूरीकृतः।

नीलकण्ठस्य गृहे वर्तित कार्याणि तोलयति चेत्  ग्रामे कर्मपरिमाणं न्यूनं भवति इति हेतोः गोपालम् स्वतन्त्र समयं अत्यधिकम् मिलति स्म। गोपालः एतं स्वतन्त्रसमयं वृथा  न व्ययति स्म परन्तु ईदृश स्वतन्त्र समयम् मन्त्रोच्चारणाय उप्युज्यति स्म। एकस्मिन् दिने गोपालः ज्ञातः सः लक्षवारं नामं जपीकृतः। तस्मिन् एव समये सः अन्वभवत् मन्त्रस्य चैतन्यम् तस्मिन् आगतः इति। तस्मिन् एव समये सः अश्रुणोत् ग्रामे  एकः विषैलसर्पः एकं व्यक्तिं दंशितः इति। तुरन्तं स्नात्वा गोपालः धावन् व्यक्तेः गृहम् गत्वा सः पञ्चनिमिषे विषनिस्कासनं करोति इति प्राख्यापयत्।  सर्वे जानन्ति गोपालः द्वादशसंवत्सरकालम् प्रबल विषवैद्यस्य  नीलकण्ठस्य गृहे वर्तते स्म।  ग्रामजनाः गोपालं अनुमति अददात् विषनिस्कासनाय।  निमीलितनयनयोः गोपालः अष्टोत्तरशत वारं मनसि मन्त्रं जपीकृत्वा जपीकृत भस्मं व्यक्तेः शरीरे प्रोक्षाळनम् अकरोत्।  तस्मिन् क्षणे एव व्यक्तिः जजगार निद्रात् इव।  र्वे जनाः गोपलं प्रशंसित्वा अभिनन्दनम् अकरोत्  अतः परम् निकटेषु ग्रामेष्वपि जनाः  विषनिस्कासनाय गोपालस्य गृहम् आगन्तुम् आरभन् विपुलसंख्यायाम्।  

अत्रान्तरे कोच्चीराज्ये एकस्मिन् दिने एकः अत्युग्रविषैलः कृष्णसर्पः राजानं अदंशत्। प्रबल आस्थानविषवैद्येन नीलकण्ठेन अपि पराजयाभवत् विषनिस्कासन श्रमे अनेकाः विषवैद्याः अपि विफलाभवन् तेषां परिश्रमे। प्रजाः राज्ञबान्धवाः मृतशरीरम् श्मशानभूमिं नेतुम् आरभत। तस्मिन् समये राज्ञः आत्ममित्रः केशवः एवम् अवदत्।  अहम् चिन्तयामि गोपालवैद्यमपि परीक्षणम् करणीयम् इति। सर्वे केशवस्य मतेन अनुयुज्य त्वरितम् एकम् शकटवावाहनम् संघटिवा गोपालवैद्यम् आनयन् राजधानीं प्रति।  गोपालः शीघ्रम् स्नात्वा जपीकृत भस्मम् राजानं शरीरोपरि प्रोक्षणमकरोत्। क्षणान्तरे राजा जजगार निद्रात् इव।  राज्ञः पुनर्जीवनम् सर्वे जनान्  आनन्दप्रवाहे निमग्नाभवन्।  राजा अपि उदतिष्ठत् गोपालम् अभिनन्दनं कृत्वा सहस्रसुवर्णनाणयानि वस्त्रनाळिकेरफलानि तांबूलसहितम् गोपालम् अददात्। अत्रान्तरे नीलकण्ठः अश्रुणोत् गोपलवैद्येन राजा पुनःजीविता भवेत् इति। इदम् वृतम् तस्मै अतिसन्तोषम् अददात् । नवतिवयस्कः चेदपि नीलकण्ठः उत्सुकाभवत् गोपालवैद्यः थं राज्ञशरीरात् विषं निष्कासितः। तदा सः राजधानीं प्रति अचलत् गोपालम् मेलितुम्। यदा नीलकण्ठः राजधानीं प्राविशत् तदा गोपालः राजधान्यां बहिः आगच्छति स्म।  नीलकण्ठं दृष्ट्वा गोपालः अतिसंतोषेण धावन् नीलकण्ठं समीपे प्राप्नोत्। साष्टाञ्ग नमस्कारम् अर्पित्वा  "हे गुरुनाथा, गुरुदक्षिणां प्रति एतम् सर्वम् स्वीकरोतु" इति। वार्धक्यात् नीलकण्ठस्य दृष्टिस्पष्टता न्यूनः अभवत् इति  हेतोः गोपालम् न परिच्छिन्नम् अकरोत्। अतः सः गोपालम् अवलोक्य "हे नरोत्तम, भवान् कः इति अहं न जानामि तथैव भवतः अधुनाकृत व्यवहारस्य अर्थम् अपि न जानामि। कृपया विशदीकरोतु इति। प्रत्युत्तरे गोपालः एवम् अवदत्। "हे यजमान्,  अहं तव पुराण भृत्यः गोपालः एव।  भवतः अहं मन्त्रदीक्षा प्राप्नुवन् भवतः शिक्षा अनुग्रहेण च अहं सफलतया विषवैद्यम् करोमि"गोपालं श्रुत्वा नीलकण्ठः झटिति सर्वम् अन्वस्मरोत्।  परन्तु सः गोपालं कदापि न पाठयितः इत्यपि अन्वस्मरोत्। ततः सः गोपालम् एवम् अवदत् हे गोपाल अहम् अधुना सर्वम् अनुस्मरामि। परन्तु अहं किं मन्त्रः त्वां उपादिशत् इति न अनुस्मरामि। गोपालः नीलकण्ठस्य् निकषा गत्वा तस्य कर्णे मन्दस्वरे विड्ढि कूश्माण्डम् इति प्राबोधयत्।  गोपालस्य् उत्तरं श्रुत्वा नीलकण्ठः हसितुम् इच्छेत् अपि सः गोपालस्य् श्रद्धा विश्वासं च भञ्गम् कर्तु न ऐच्छितः। विपर्यये सः गोपालस्य पुरोगमनेव ऐच्छत्। गोपालः एतयोः वाक्ययोः अर्थं जानाति चेत् सः न कदापि ततःपरम् चिकित्सा कर्तुं

शक्तः भवेत्  इति विचिन्त्य सः गोपालं एवम् अवदत्। "हे गोपाल,  एतानि पारितोषिकानि अहं स्वीकृत्य् त्वां प्रतिददामि। त्वम् एतानि स्वगृहं नयसि चेत् अहम् अति सन्तुष्टः भवामि। अन्न्यच्च् एषः मन्त्रः सर्वेषे मन्त्रेषु उत्तम इति हेतोः तुभ्यं विहाय अहम् एतं मन्त्रं न कोपि शिष्यान् उपदेशम् अकरोत्। परन्तु कोपि एतं मन्त्रं अन्यम् उपदेशम् करोति चेत् तस्मै एषः मन्त्रः निष्फलः  भवेत्। उदाहरणाय अहं तुभ्यम् एतं मन्त्रम् उपदिष्ट कारणात् अहं राज्ञः शरीरात् विषं निषासयितुम् अशक्तः अभवम्। अतः त्वया एषः मन्त्रः अन्यं न कदापि उप्देशं करणीयम्।  त्वम् वाग्दानं कुरु।  तव वाग्दानमेव अहम् इच्छामि मम् दक्षिणां प्रति। गोपाल युगपत् प्रतिज्ञा अकरोत्। अनन्तरं गोपालः तस्य ग्रामं गत्वा सुखेन अवसत्।

 

 

 

 

 

 

 

 

 

No comments:

Post a Comment