*स्वर्वाणीप्रकाशः* (वाट्साप् गणः)
😱मङ्गलवासरः फाल्गुनकृष्णषष्ठी (26-03-19)🤩
✍प्रस्तावविषयः-- स्वप्नशास्त्रम्😴
स्वप्नाः सफलाः भवन्तु इति प्रायः सर्वे वदन्ति किन्तु सर्वे स्वप्नाः अस्माकम् अनुकूलाः न भवन्ति ननु। भीतिजनकाः स्वप्ना अपि यदाकदापि निद्रासमये आगच्छन्ति तेषां प्रभावेभ्य: निद्राभग्नं प्राप्य कदाचित् विषण्णाः भवन्ति जनाः। दुस्स्वप्नानां पुनः स्मरणम् अपि कोऽपि न इच्छति। स्वप्ननां विषये प्राचीनकालादेव मानवानां जिज्ञासा वर्तते।।
सूर्योदयात् पूर्वं रात्रेः अन्तिमयामे यदि स्वप्नं पश्यामः तर्हि शीघ्रमेव तस्य फलसिद्धिर्भवतीति विश्वासः।।
स्वप्नाः सप्तविधाः
❶ दृष्टम् ~ यदि जाग्रदवस्थायां यत् दृष्टं तस्यैव वस्तुनः वा घटनायाः च यदि स्वप्नेऽपि दर्शनं भवति तर्हि दृष्टम् इत्युच्यते।।
❷ श्रुतम् - अस्माभिः यत् श्रुतं तस्य स्वप्नदर्शनम्।।
❸ अनुभवः - यत् पूर्वं भक्षितम् अथवा अनुभूतं तादृशानां वस्तूनां स्वप्ने दर्शनम्।।
❹ प्रार्थितम् - यत् वयं प्रार्थनां कृतवन्तः तस्यैव दर्शनम्।।
❺ कल्पितम् - जाग्रद् अवस्थायां अस्माकं मनसि यत् कल्पितं निरूपितं तस्य स्वप्नदर्शनम्।।
❻ भावितम् - भाविकाले प्राप्येते -इत्येवं रीत्या स्वप्ने दर्शनं जायते तादृशः स्वप्नः।।
❼ भाविजम् - शरीरस्य त्रिदोषानुगुणं भवति।।
भारतीयाः स्वप्नशास्त्रानुगुणं स्वप्नफलमपि कथ्यते। तादृशाः सन्दर्भाः पुराणेष्वपि निरूपिताः। ज्योतिषशास्त्रेऽपि अस्य निरूपणं वर्तते। वराहमिहिरस्य कृतिषु रामायणे पुराणेषु च स्वप्नानां फलविषये परिहारविषये च निरूपिताः। तादृशानि कानिचन स्वप्नफलानि निरूपयामः।।
❁ शुद्धजलपूरितकूपस्य दर्शनम् - धनलाभः।
❁ मन्दिराणां दर्शनम् - तीर्थाटनभाग्यम्।
❁ स्वगृहे मलिनजलदर्शनम् - दुरितानि, रोगाः।
❁ गुहायाम् एकान्तवासः - अपमाननं धननष्टं कारागृहवासयोगः।
❁ कृषिभूमौ फलादीनां दर्शनम् - भक्ष्यलाभः।
❁ अतीवोन्नतस्थानाद् आत्मनः पतनम् - जीवनेऽपि पतनम्।
❁ पर्वतारोहणं पर्वतानाम् उपरि स्थितिः - विजयप्राप्तिः विघ्नानां निवारणम्।
❁ अग्नेः दर्शनम् - अग्निबाधा इतरेषाम् उपद्रवः।
❁स्वप्ने यदि स्वीयं स्नानं पश्यति चेत् - गृहे बान्धवानां मरणम्।
❁ वर्धमानं पर्वतं पश्यति चेत् मरणफलम्।
❁ गृहनिर्माणं - नूतन-गृहस्य निर्माणसौभाग्यम्।
❁ गजस्य दर्शनेन वाहनलाभः।
❁ सर्पाणां दर्शनेन विषबाधायाः सूचना। परिहारार्थं शिवस्य भजनं कार्यम्।
❁ सूर्यचन्द्रयोः दर्शनम् - प्रणयसाफल्यम्।
❁ स्वयम् अन्नदानस्य दर्शनात् सन्तानप्राप्तिः।
❁ धान्यदाहनेन स्वप्नेन दारिद्र्यम्।
❁ आमलकस्य स्वयं खादनं - धनलाभः ऐश्वरम्।
❁ गरुडस्य दर्शनेन शत्रुनाशः।
❁ मीनान् पश्यामः तर्हि धनलाभः।
❁ सरटदर्शनात् शत्रुपीडावर्धनम्।
❁ जालसहितम् ऊर्णनाभस्य दर्शनेन- वञ्चिताः भवितुम् अर्हति।
❁ वम्भसस्यानां वर्धनं पश्यामः तर्हि उद्योगे अभिवृद्धिः।
❁ केशानां दर्शनम् - स्मरणशक्तेः समस्या।
❁ तुलसीपत्रस्य दर्शनेन कार्यसिद्धिः सन्तानप्राप्तिश्च।
❁ नारिकेलफलदर्शनम् - शत्रुपीडा।
❁ शर्करायाः दर्शनेन कुटुम्बे सन्तोषः।
❁ विकसितं पुष्पम् - मनःप्रसादः आनन्दः
एवं प्रकारेण स्वप्नफलानि अनेकानि प्रोक्तानि। एतेषां फलानां वस्तुस्थितिः शास्तीयन्यायीकरणञ्च वक्तुं न शक्नुमः तथापि बुद्धिम् उपयुज्य जीवने किञ्चित् श्रद्धया व्यवहारं कर्तुं प्रयत्नं कर्तुं सर्वे शक्नुवन्ति।।
- सुनीशः
No comments:
Post a Comment