Courtesy:Sri.Narad Upadhyaya, Assam
-- वचनसुधा--
कश्चन सुभाषित-श्लोकः अस्ति, तद्यथा--
न कश्चिदपि जानाति
किं कस्य श्वो भविष्यति।
अतः श्वः करणीयानि
कुर्याद् अद्यैव बुद्धिमान्।।
सरलार्थः -- श्वः दिवसे कस्य किं भविष्यति इति कोsपि न जानाति। अतः बुद्धिमान् जनः अग्रिमे दिवसे करणीयानि कार्याणि अद्यैव कुर्यात् , इत्यर्थः।
व्याख्या-- जीवनयात्रार्थं सर्वैः अपि मानवैः किमपि कार्यं तु अवश्यमेव करणीयमेव भवेत्। समयः गतिशीलः। विगतः क्षणः पुनः कदापि न प्राप्यते। केवलं कार्यस्य करणेन एव कार्यफलस्य सिद्धिः लभ्यते। तत्कार्यानुगुणं शुभाशुभं फलं भवति। सत्कार्यं कुर्वन्तः जनाः असाध्यमपि साधयितुं सक्षमाः अभवन् भवन्ति च लोके इति इतिहासादिपठनेन ज्ञायते। अस्माभिः अपि सर्वदा उत्साहेन सत्कार्यं करणीयं चेत् अग्रिमेषु समयेषु सत्फलसिद्धिः अवश्यं प्राप्यते, नात्र सन्देहः कोsपि।अलसः भूत्वा वृथा तिष्ठतः जनस्य जीवने काचित् प्रगतिः अभवत् इति वार्ता कुत्रापि न श्रूयते । येन जीवने धैर्येण कष्टं सोढ्वा च साधना कृता तस्य एव सर्वदिशि विकासः दृश्यते। जगति सर्वेषां स्वस्वदायित्यम् अस्ति। तत्तत् दायित्वं सर्वैः अपि सम्यक्प्रकारेण निष्ठया च निरुह्यते तर्हि जगति कापि समस्या न अवशिष्यते, सर्वत्र केवलं शान्तिः, सम्प्रीतिः प्रगतिः च समागच्छेयुः। यथा, कृषकाः सम्यक् कृषिकार्यं कुर्युः , शिक्षकाः विद्यालये छात्रेभ्यः समाजे च सामान्यजनेभ्यः सम्यक् शिक्षानीत्यादिकं बोधयेयुः, वैद्याः रोगिणः सम्यक् पश्येयुः, राजनेतारः निरपेक्षदृष्ट्या सम्यक् च राजकार्यं चालयेयुः प्रजाहितार्थम्, इत्यादिषु स्वस्वकार्येषु निरालस्याः सन्तः सोत्साहं च सर्वे अपि संलग्नाः भवेयुः चेत् लोके सर्वत्र विकासमयः परिवेशः अचिरेण समागच्छेत्। अत एव अद्य करणीयं कार्यम् अद्यैव समापनीयम्, दीर्घसूत्रता न शोभनीया। श्वः कस्य किं भवेत् इति तु भगवान् एव जानाति, नान्यः। अतः सर्वैः अपि स्वकार्यविषये जागरूकैः भवितव्यं चेत् अस्मत्समाजः सुप्रतिष्ठितः भवेत्, राष्ट्रस्य च प्रगतिः स्यात्। शम्।
-- नारदः
____________________________________________
मनः एव सुख-दुःखयोः कारणम्--
कश्चित् कविः अवदत्-
आशा नाम मनुष्याणाम्
काचिदाश्चर्यशृङ्खला।
यया बद्धा प्रधावन्ति
मुक्तास्तिष्ठन्ति पङ्गुवत्।।
मनसि उद्भूता आशा इतिकारणतः सामान्याः मनुष्याः सर्वदा अतृप्ताः सन्तः इतस्ततः धावमानाः दरीदृश्यन्ते परम्परया प्रपञ्चे। परन्तु ये तत्वज्ञानिनः ते तु विषयेषु संतृप्ताः सन्तः पङ्गुवत् स्वस्थाने एव सुखेन तिष्ठन्ति।
निरन्तरं परिवर्तनशीले अस्मिन् लोके अस्माकं व्यवहारपरम्परायाः मूलम् अस्मदीयं मनः एव। मनः एव मनुष्याणां समस्तपुरुषार्थसाधनम् वर्तते।
आधुनिकजीवनं सर्वेषां कृते अतीव सङ्घर्षमयं जातमस्ति। समाजे सर्वत्र व्यभिचारः, भ्रष्टाचारः, मानवमूल्यानां ह्रासः इत्यादयः विजृम्भमाणाः दृश्यन्ते। जातिः, भाषा, धर्मः, वर्णः, सम्प्रदायः, प्रान्तः इत्यादीन् आधारीकृत्य जनसमाजे अन्तःकलहः, सम्बन्धविच्छेदः, समरसतायाः ह्रासः इत्यादयः प्रवर्तमानाः सन्ति। एतस्मात् कारणात् सर्वेषां अन्तस्तले महती मानसिकी अशान्तिः उत्पद्यमाना अस्ति। किमपि निमित्तीकृत्य गृहपरिवारे पतिपत्न्योः कलहः, बन्धूनाम् उत्कर्षणम् अवलोक्य असहिष्णुता, नाना इलेक्ट्रनिक्साधनेषु, प्रासाद-कारयानादिषु, विविधभोग्यवस्तुषु च महामोहः, न्यायान्यायम् अविचार्य अधिकाधिकं ततोsप्यधिकं धनम् अर्जनीयम् इति धनात्याशा, योग्यतायाः अभावेsपि अधिकारेषु , सम्मानपुरस्कारेषु, उन्नतस्तरेषु च अत्यासक्तिः इत्यादयः सम्प्रति अस्मासु नितरां प्रवर्धमानाः दृश्यन्ते। एतदर्थं वयं विश्रान्तिमपि अविगणय्य सर्वदिशि धावमानाः स्मः मृगमरिचिकायमानाः सन्तः।
एतत् सर्वं अस्माकं मनसः निग्रणस्य अभावात् जातं फलं वर्तते। मानवीयं मनः वशीकरणीयं चेत् अस्माभिः संस्कृतशास्त्रस्य पुनरुद्धरणं तपश्चरणं तत्वान्वेषणम् इत्यादिकं धरातले पुनःप्रवर्तनीयमिति, शम्।
-- नारदः।
_________________________
No comments:
Post a Comment