Friday, March 29, 2019

Broom - Sanskrit essay

स्वर्वाणीप्रकाशः (वाट्साप् गणः)
👍बुधवासरः माघामावास्या (06-03-19)🍂
✍प्रस्तावविषयः-- सम्मार्जनी 🧹 
""""""""""""""""""""""""""""

सम्मार्जनी धूल्यादि-अवकरपदार्थानां निवारणार्थम् उपयुज्यते। 
शोधनी    ऊहनी  समूहनी   बहुकरी वर्द्धनी  
इत्यादीनि सम्मार्जन्याः पर्यायपदानि। 
 प्रादेशिकभेदानुसारं विविधानां वस्तूनाम् उपयोगेन एतासां निर्माणं भवन्ति। क्रमुकनारिकेलवृक्षाणां बाहुल्यं दृश्यमानेषु केरलादि दक्षिणभारतराज्येषु जना एतेषां पर्णानि उपयुज्य मार्ज्जन्याः निर्माणं कुर्वन्ति। नारिकेलपर्णानां मध्यभागस्थिताः कृशयष्टीः संगृह्य उत्तमां सम्मार्जनीं निर्मातुं शक्नुमः अनेन न तु केवलं धूलीमार्ज्जनम् अपितु जलसेचनं कृत्वा गृहभूमिकायाः प्रक्षालनमपि सुकरं भवति।। 
 
 इदानीन्तने प्लास्टिक् सम्मार्जन्यः ई-सम्मार्जनी- यन्त्राणि अपि प्रचारे सन्ति। यद्यपि सर्वेषां गृहे स्वच्छतार्थं सम्मार्जन्यः अत्यावश्यकाः तथापि सर्वे प्रयोगान्तरं गृहान्तर्भागे वा पृथक् वा ताः रक्षयन्ति अर्थात् सर्वदा दृष्टिपथे न स्थापयन्ति। कारणं तत्र एतदेव स्यात् ताभिः अलक्ष्म्याः आह्वानं भवतीति विश्वासः।। 
 
प्रायः भारते गृहेषु दीपज्वालात् प्राक् मार्ज्जनं क्रियते। सम्मार्जन्याः प्रयोगानन्तरं शास्त्रानुसारं भूमौ जलप्रोक्षणं सर्वैः क्रियते। अस्माकं  प्रदेशेषु केचन गोमयजलेनापि शुद्धतां कुर्वन्ति। एवं शुद्धतां मनसि निधाय केचन गृहेषु तथैव मन्दिरेषु पूजाप्रकोष्ठस्य पाकशालायाः अद्वारमार्गाणाम् एवञ्च विविधानां प्रकोष्ठानां शुचीकरणार्थं भिन्नाः सम्मार्जन्यः रक्षिताः दृश्यन्ते ।। 


~ सुनीशः

No comments:

Post a Comment