Friday, February 22, 2019

Stotra of cows from Agni purana - Sanskrit

"गवामङ्गेषु तिष्ठन्ति भुवनानि चतुर्दश ।
दन्तेषु मरुतो देवा जिह्वायां तु सरस्वती ॥
खुरमध्येषु गन्धर्वा: खुराग्रेषु च पन्नगा: ॥
सर्वसन्धिषु साध्या चन्द्रादित्यौ तु लोचने ।
ककुदि सर्वनक्षत्रं लाङूले धर्म आश्रित: ॥
अपाने सर्वतीर्थानि प्रस्रावे जावीनदी ।
नानाद्वीपसमाकीर्णा चत्वार: सागरास्तथा ॥
ऋषयो रोमकूपेषु गोमये पद्मधारिणी ।
सन्ति रोमसु विद्या श्रृङ्गयोरयनद्वयम् ॥
धैर्यं धृति क्षान्ति पुष्टिर्वृद्धिस्तथैव च ।
स्मृतिर्मेधा तथा लज्जा वपु: कीर्तिस्तथैव च ॥
विद्या शान्तिर्मतिवा सन्तति: परमा तथा ।
गच्छन्तीमनुगच्छन्ति एता गां वै न संशय: ॥
यत्र गावो जगत्तत्र देवदेवीपुरोगमा: ।
यत्र गावस्तत्र लक्ष्मी: सांख्यधर्मा शाश्वत: ॥
गाव: पवित्रा माङ्गल्या देवानामपि देवता: ।
यस्ता: शुश्रूषते भक्त्या स पापेभ्य: प्रमुच्यते ॥"

No comments:

Post a Comment