वाचम्मे देहि वाग्देवि वीणापाणे सुरेश्वरि ।
वाग्मी सन् दीपको वात्स्य: स्तुतिन्तव विधास्यते ।।
विद्याम्मे देहि हे विद्ये विद्याप्रदे सरस्वति ।
विद्यावान् दीपको वात्स्य: स्तुतिन्तव विधास्यते ।।
पद्मासनस्थवाग्देवीं वीणापाणीं सरस्वतीम् ।
विद्याप्रदायिनीं नौमि नित्यशो हितकाङ्क्षया ।।
वाग्देवीं भारतीं विद्यां श्वेताम्बरां सरस्वतीम् ।
शुभ्रवर्णां महामायाम् आश्रयेSभीष्टसिद्धये ।।
"वात्स्यकोश:"
#स्वच्छभाषाभियानम्
#सुरभारतीसमुपासका:
#दीपकवात्स्य:
No comments:
Post a Comment