Tuesday, February 26, 2019

On spoken sanskrit - An article

Courtesy:Sri.SKT Prasad

वयं भारतीयाः अस्माकं अज्ञानकारणेन  अमूल्यां दिव्यां भव्यां सम्भाषणसंस्कृतम्  इत्याख्यां नाम्नीं  सम्पदं विस्मृत्य पाश्चात्यानां विदेशीभाषाव्यामोहे पतित्वा विविधेभ्यः  प्रलोभेभ्यः वशीभूताः भूत्वा 

केवलभौतिजीवनसुखाय एव जीवन्तः सम्भाषणसंस्कृतम् अपठन्तः अपाठयन्तः संस्कृतभाषा सरस्वतीं निर्दयेन वयं मानवाः मारयन्तः स्मः  ।

सम्भाषणसंस्कृतस्य मारकाः के इति प्रश्ने कृते सति सहस्राधिकसंशयाः मस्तिष्के उत्पद्यन्ते।

सम्भाषणसंस्कृतस्य मारकाः  वैदेशिकाः वा  भारतीयाः प्रजाः वा  राजकीयनायकाः वा अथवा संस्कृतभाषा पाठ्यप्रणालिका वा उत संस्कृतभाषाम् आधारीकृत्य जीवन्तः पण्डिताः पुरोहिताः वा ।

एतेषां सर्वेषां समाधानानाम् उत्तरम् अन्विष्य समाधानानि प्राप्य सम्भाषणसंस्कृतम् विश्वव्याप्तं कर्तुं  यतिष्यामहे ।

नित्यं निरन्तरं अनुक्षणं जनाः सम्भाषणसंस्कृतं श्रुणुयुः ।

तथा वयं प्रचार प्रसार माध्यमानां माध्यमेन  अन्यैः साधनैः सम्भाषणसंस्कृतस्य विकासं कर्तुं  प्रयत्नं करिष्यामः।

पूर्वं वैमाणिकक्षेत्रे सम्भाषणसंस्कृतम् आसीत् ।

प्रचार प्रसार क्षेत्रे सम्भाषणसंस्कृतम् आसीत् ।

शास्त्राणां चर्चानां सन्दर्भे सम्भाषणसंस्कृतमासीत् 

पाठशालायां विविधानां शास्त्राणां बोधनमाध्यमरूपेण सम्भाषणसंस्कृतमासीत् ।

विवाहक्षेत्रे सम्भाषणसंस्कृतमासीत् ।  

एवं चतुष्षष्टिकलासु बोधनसन्दर्भेषु सम्भाषणसंस्कृतमासीत् ।

षोडशसंस्काराणाम् आचरणसन्दर्भेषु सम्भाषणसंस्कृतम्  आसीत् ।

नित्यव्यावहारिकभाषारूपेण सम्भाषणसंस्कृतम् भवति स्म । 

तं कालं पुनः आनयेम सम्भाषणसंस्कृत विश्वस्यनिर्माणाय मिलित्वा कार्याचरणं रचयेम।

रागद्वेषादिकं त्यक्त्वा परस्परं प्रेरयन्तः सम्भाषणसंस्कृतस्य वर्धनाय प्रयत्नं कुर्याम।

अस्माकं सर्वान् अपि भावान् सर्वत्र संस्कृतेन प्रकाशयितुं यतिष्यामहे।

सम्भाषणसंस्कृतसरस्वतीम् आधुनिकबालतरुणप्रौढजनेभ्यः पाठयेम श्रावयेम अस्माकं जन्म पावनं पुण्यास्पदं कुर्याम।

No comments:

Post a Comment