Friday, February 22, 2019

National "Seminar on Depiction of Women in Sanskrit Literature and its relevance in contemporary Society"

National "Seminar on Depiction of Women in Sanskrit Literature and its relevance in contemporary Society"

राष्ट्रियसंस्कृतसंस्थानम्

(मानितविश्वविद्यालयः)

वेदव्यासपरिसरः, बलाहरम्, जि. काँगडा, हिमाचलप्रदेशः,प.सं.-177108

साहित्यविभागः महिलाध्ययनकेन्द्रं  चेत्यनयोः संयुक्ततत्त्वावधानेन

द्विदिवसीया राष्ट्रियसङ्गोष्ठी

2075 तमे संवत्सरे फाल्गुन-शुक्ल-द्वितीया-तृतीययोः

(08-09, मार्च, 2019)

"संस्कृतसाहित्ये नारीचित्रणं समकालिकसमाजे तत्प्रासङ्गिकता च"

(Depiction of Women in Sanskrit Literature and its relevance in contemporary Society)



मान्याः

 वैदिकसंस्कृतसाहित्ये लोपामुद्रा-अपाला-घोषा-शाश्वती-विश्ववारा-मुद्गलानी-रुशमा-काशकृत्स्ना-विश्पला-सरस्वती-सर्पराज्ञी-सूर्या-अदिति-दाक्षायणी-आत्रेयीप्रभृतीनां, लौकिकसंस्कृतसाहित्ये सीता-अहल्या-कुन्ती-द्रौपदी-सावित्री- लक्ष्मीबाई-इन्दिरा-प्रभृतीनां नारीणां चित्रणं दृश्यते । संस्कृतकवीनां दृष्टौ नारी वैदुष्यस्य अधिष्ठात्रीरूपेण,  समाजस्य जननीरूपेण, परिवारस्य निर्मात्रीरूपेण, राष्ट्रस्य रक्षिकारूपेण च वर्णिता । संस्कृतसाहित्ये क्वचिन्नारी मानवं पातुं राष्ट्रं च रक्षितुं युद्धभूमौ शस्त्रं धारयन्ती वर्णिता, क्वचिच्च राक्षसप्रवृत्तीः दमितुं आतङ्कवादं नाशयितुं च प्रचण्डोग्ररूपं बिभ्रती कीर्तिता । एवं संस्कृतसाहित्ये विभिन्नावस्थास्वरूपैः चित्रिता नारी समकालिकसमाजे कथं प्रासङ्गिकतामर्हतीति विदुषां शोधार्थिनाञ्च विचारान् पुरस्कर्तुं राष्ट्रियसंस्कृतसंस्थानस्य हिमाचलप्रदेशस्य बलाहरस्थे वेदव्यासपरिसरे साहित्यविभागः तथा महिलाध्ययनकेन्द्रम् इत्यनयोः संयुक्ततत्त्वावधानेन "संस्कृतसाहित्ये नारीचित्रणं समकालिकसमाजे तत्प्रासङ्गिकता च" इति शीर्षकमधिकृत्य द्विदिवसीया राष्ट्रियसङ्गोष्ठी 08-09, March, 2019 दिनाङ्कयोः  समायोजयिष्यते । संगोष्ठ्यामस्याम् अधोनिर्दिष्टान् बिन्दून् अवलम्ब्य शोधपत्रप्रस्तुतये भवदामन्त्रणं चिकीर्षामः ।
संस्कृतसाहित्ये चित्रिताः -


Ø  नारीणां मातृ-पत्नी-पुत्री-भगिन्यादिसामाजिकसम्बन्धनिर्वाहः

Ø  नारीणां त्याग-सत्य-शील-दान-दम-धैर्य-परोपकार-सेवा-विनयार्जवौदार्यादिगुणाः

Ø  नारीणां मन्त्रद्रष्टृत्वम्

Ø  नारीणां वैदुष्यम्

Ø  नारीणां युद्धकौशलम्

Ø  नारीणां आचार्यत्वम्

Ø  नारीणां काव्यसर्जनम्

Ø  नारीणां कलानैपुण्यम्

Ø  नारीणां समाजसेवा

Ø  नारीणाम् अर्थोपार्जनम्

Ø  नारीणां धर्माचरणम्

Ø  नारीणां शौर्यम्

Ø  नारीणां शासननैपुण्यम्

Ø  नारीणां वाणिज्यादिव्यापारनैपुण्यम्

Ø  नारीणां स्वातन्त्र्यम्


प्रतिभागितायै इच्छुका आचार्याः शोधच्छात्राश्च शोधपत्रसारं संस्कृत/हिन्दी/English भाषया MS Word file मध्ये Arial Unicode MS / Times New Roman इति font द्वारा टङ्कयित्वा sahityavedavyasa@gmail.com इत्यत्र 20.02.2019 दिनाङ्कात्पूर्वम् अवश्यं प्रेषयेयुः ।  प्रतिभागिभ्यः स्वीकृतिसूचना email द्वारा 22.02.2019 दिनाङ्कात्पूर्वम् प्रदास्यते । प्रतिभागिभिः सम्मेलनस्थले पूर्णपत्रस्य मृदुप्रतिकृत्या सह मुद्रितपत्रमवश्यं समर्पणीयम् । बाह्यप्रतिभागिनां कृते भोजनावासव्यवस्थाकल्पने वयं गौरवमनुभविष्यामः,  किञ्च गमनागमनव्ययस्तैः स्वयमेव वोढव्यः ।

No comments:

Post a Comment