स्वच्छताभियानम्
**************
(१)
स्वच्छं जलं पावनभूमिपृष्ठं
पवित्रवायुर्गगनं सुरम्यम्।
प्रभापि दिव्या हितकारकाय
सर्वे मिलित्वा परिपान्तु देशम्।।
(२)
नरेन्द्रमोदी सरलो विवेकी
प्रधानमन्त्री जगति प्रसिद्धः।
स स्वच्छतार्थं खलु भारतस्य
कायेन वाचा प्रकरोति कार्यम्।।
(३)
व्रूते सदा भारतपावनार्थं
प्रशासकान् राज्यगणस्य मुख्यान्।
स्वमन्त्रिणो लोकततिं च नेतृन्
सर्वे मिलित्वा कुरवाम सेवाम्।।
(४)
श्रीगान्धिनः स्वप्नकथेयमासीत्
सदा पवित्रो भवतु स्वदेशः।
लोकाः पवित्रा धरणी पवित्रा
सर्वं पवित्रं परिभातु नित्यम्।।
(५)
महात्मवाक्यं सफलं विधातुं
न के गुरुत्वं ददति स्म देशे।
प्रधानमंत्री परिलोक्य सर्वं
करोति कार्यं बहुमङ्गलाय।।
(व्रजकिशोरः)
No comments:
Post a Comment