Courtesy: Sri. Ramesh shukla
।।श्रीमते रामानुजाय नमः।।
वाल्मीकिरामायणे विभीषणशरणागति:
-------------------------------------------------
सकृदेव प्रपन्नाय तवास्मीति च याचते।
अभयं सर्वभूतेभ्यो ददाम्येतद्व्रतं मम॥
–अध्यात्मरामायण , 6/18/33
अत्र शरणागतं विभीषणं प्रति स्वस्वभावं प्रकटयन् रामभद्रः प्राह यत् प्रपन्नाय जनाय तवास्मीति याचमानायाहं सर्वप्राणिभ्योऽभयं ददामि। आत्मनेपदीयः याच् धातुः (टुयाचृँ याञ्चायाम् धा॰पा॰863)।तस्मात् याचतेइति हि प्रयोगः।अस्माच्छानचि चतुर्थ्यैकवचने
याचमानाय इति हि पाणिनीयम्।
किन्तु याचत इति याचः।याच इवाऽचरतीति याचति।याचतीति याचन्। तस्मै याचते इत्याचारक्विबन्ताच्छतृप्रत्यये याचते। याचकवदाचरणकारिणेऽप्यभयं ददामि तदा याचमानाय किं दद्यामिति स्वकारुण्यात्स्वयं ध्वनयितुं स्वयं निखिलनिगमार्णवो राघवो याचते इति प्रायुङ्क्त। अथवोभयपदी धातुरयम्। तथा च भगवान्पाणिनिः टुयाचृँ याच्ञायाम् (धा॰पा॰ 863)। स्वरितेदयम्। एष कर्त्रभिप्राये क्रियाफल आत्मनेपदी।अन्याभिप्राये क्रियाफले परस्मैपदी।भगवतोऽभिप्रायो यत् – यः स्वार्थं त्यक्त्वा प्रेमभक्तये मां प्रपन्नः तवास्मि इति वदन् मामभयं ब्रह्मैव याचति तस्मा अहं सर्वभूतेभ्योऽभयं ददामि। अतोऽत्र परस्मैपदं ततः शतृप्रत्ययः। तस्य चतुर्थ्येकवचनरूपं याचते। याचतीति याचन् तस्मै याचते।
–जय श्रीमन्नारायण।
No comments:
Post a Comment