Thursday, January 11, 2018

Visudhha Vedanta saara -Sanskrit

*विशुद्धवेदान्तसारः-३*

    वेदान्तशास्त्रप्रामाण्यमुक्तम्। अथ वेदान्तशास्त्रस्य शरीरमुच्यते।
१. *तत्र च उपदेशप्राधान्येन प्रस्थितत्वात् श्रुत्यपराभिधानाः वेदान्ताः  'आगमप्रस्थानम्' इत्यभिधीयन्ते।*
इदं श्रुतिप्रस्थानम्, उपनिषत्-प्रस्थानम् इत्यपि अभिधीयते।

२. *गीताशास्त्रादयस्तु तदुपबृंहणाय श्रुत्यर्थस्मरणेन विरचितत्वात् 'स्मृतिप्रस्थानम्' ।*
उपबृंहणं विवरणम्।

३. *वेदान्तवाक्यमीमांसया स्मृतियुक्त्युपकरणैः सह तत्वनिर्धारणाय प्रस्थितत्वात् शारीरकं 'न्यायप्रस्थानम्' इत्युच्यते।*

     शारीरकं ब्रह्मसूत्राणि।

*तदेवं श्रुतयो वेदान्तशास्त्रम्। शास्त्रार्थत्वात् गीताशास्त्रमपि वेदान्तशास्त्रम्। वेदान्तार्थ-निर्णायकत्वात् शारीरकं वेदान्तमीमांसाशास्त्रम्।*

उपनिषदः मुख्यार्थेन वेदान्तत्वम्। गीतादीनां तदर्थस्यैव प्रतिपादकत्वात् वेदान्तत्वम्।।

[अथ अनुबन्धचतुष्टयम् । ]

No comments:

Post a Comment