CBSE, NCERT इत्यनयोः षष्ठकक्ष्यातः द्वादशकक्ष्यां यावत् संस्कृतपाठ्यपुस्तकानाम् अनुशिक्षणम् (टुटोरियल्स्) नामकाः पाठाः सं. सं. प्रतिष्ठानेन जालपुटे आरोपिताः सन्ति। ते पाठाः छात्राणां कृते, शिक्षकाणां कृते, अभिभावकानां कृते च अत्यन्तम् उपयोगिनः सन्ति। बहुषः कस्याः अपि अन्यस्याः भाषायाः पाठ्यपुस्तकानाम् एतादृशम् अनुशिक्षणं नैव निर्मितम्। वीडियोचित्राणि सहितं निर्माय स्थापितानि सन्ति। अतः भवता एतद् अवश्यमेव द्रष्टव्यम्। तद् अत्र द्रष्टुं शक्यते - https://www.samskrittutorial.in/
एवं दूरभाषा Apps https://play.google.com/store/search?q=samskrit%20tutorial
(संस्कृत-अनुशिक्षणम्) Play Store इत्यतः download कुर्वन्तु तथा च भवतां ये छात्राः सन्ति तान् अपि अनुशिक्षणम् इत्यस्य दर्शनाय प्रेरयन्तु तद् तेषां भाषाज्ञानवर्धनाय, पाठयोजनालेखनकौशलवर्धनाय च महते लाभाय भवेत्। केवलं सूचनादानमात्रं न पर्याप्तम्। कक्ष्यायां तद् प्रदर्श्य तदाधारिताः अभ्यासाः अपि कारणीयाः, तदा एव छात्राः तद्विषये गंभीराः भवेयुः।
No comments:
Post a Comment