पञ्जरम् 20/08/17
%%%%%%%%%%%%%%%%%%%%%%%
सर्वेषु संसारजीवेषु मनुष्यश्चतुरो गुणी।
चातुर्येणानेनैव सर्वाध्यक्षो भवति हि वै।।
परञ्च स्वमनोरंजनाय परान्नपि पीडयत्ययम्।
अनेन सिंहाः शुकाश्चैव पञ्जरबद्धा भवन्ति हि।।
केसरी वनराजो$स्ति स वै आचरति शृगाल इव।
पञ्जरेण भवति भयभीतो निरीह इव वसति हि वै।।
पालकैः प्राप्य संकेताः शुकास्तथैव वदन्ति च।
एवं जीवाश्च सर्वे$पि अनुकुर्वन्ति सर्वदा।।
पञ्जरमस्ति संसारभाण्डमिदं
वयं सिंहाः शुकास्तथा।
पालको$स्ति रचनाकारो हि
यथा निर्दिशति कुर्मो वयम्।।
विधात्रा यद् निश्चितमस्ति तदेव भवति सर्वदा।
अनुकुर्मो वयं सर्वे यथा सिंहाः शुकास्तथा।।
डा गदाधर त्रिपाठी
No comments:
Post a Comment