Thursday, October 5, 2017

I do saranagati to Google - Sanskrit

Courtesy:Sri,GSS.Murthy

गूगलं शरणं व्रज| 

कुत्र किं क्रीयते वस्तु कुत्र विक्रीयते च तत् ।
किं मूल्यं च भवेन्मित्रं" "गूगलं शरणं व्रज" ॥ १ ॥

अस्वस्थमद्यमेऽपत्यं को गदः किं च भेषजम् ।
कुत्रास्ति वैद्यो मे ब्रूहि" "गूगलं शरणं व्रज" ॥ २॥

भोजनाय क्व गच्छाम किं खाद्यं तत्र लभ्यते ।
किं मूल्यं च कियद्दूरं" "गूगलं शरणं व्रज" ॥ ३ ॥

चलचित्रालयं कुत्र तत्र किं चित्रदर्शनम् ।
तत्र दर्शनवेला का" "गूगलं शरणं व्रज" ॥ ४ ॥

कुत्रास्म्यहमिदानीं भोः कियद्दूरं हि मद्गृहम् ।
वर्त्मना केन गच्छामि" "गूगलं शरणं व्रज" ॥ ५ ॥

विश्रान्त्यै कुत्र गच्छाम तत्रासीदाम वा कथम् ।
तत्र पश्याम किं मित्रं" "गूगलं शरणं व्रज" ॥ ६ ॥

कोऽर्थः पदस्य तत् वाक्ये कथं सम्यक् प्रयुज्यते। 
समानार्थपदं किं स्यात्" "गूगलं शरणं व्रज" ॥ ७ ॥

चित्राणि द्रष्टुमिच्छामि श्रोतुमिच्छामि गायनम् ।
इच्छामि पठितुं ग्रन्थं" "गूगलं शरणं व्रज" ॥ ८ ॥

शालायां सहपाठी मे कुत्राद्येति कुतूहलम् ।
देशकालततायामं "गूगलं शरणं व्रज" ॥ ९ ॥

चेतुमिच्छसि किं पत्नीं पतिं जामातरं स्नुषाम् ।
नवोद्योगं तदा सद्यः "गूगलं शरणं व्रज" ॥ १० ॥

विमानरेलयानानां गमनागमनेषु किम्।
विलम्बं सूच्यते मित्रं" "गूगलं शरणं व्रज" ॥ ११ ॥

कुत्र वर्षति पर्जन्यः कुत्र शैत्यं कियन्मितम् ।
कुत्र सूर्यप्रखरता "गूगलं शरणं व्रज" ॥ १२ ॥

नगरे मम का वार्ता मद्देशे वा महीतले ।
क्रीडासु जनसौख्ये च "गूगलं शरणं व्रज" ॥ १३ ॥

तत्त्वार्थशास्त्रविज्ञानगणिताध्ययने स्पृहा।
सर्वज्ञानमहाद्वारं गूगलं शरणं व्रज ॥ १४ ॥

आत्मानन्दं मनःशान्तिं तृप्तिं वाञ्छसि वा यदि ।
गूगलं संपरित्यज्य श्रीहरिं शरणं व्रज ॥ १५ ॥

No comments:

Post a Comment