Wednesday, August 23, 2017

Kumbha vivaha padhati after attaining maturity for ladies

#कन्याकालव्यतिता(#ऋतुधर्मप्राप्ता)#कन्यायाः #विशेष_कुम्भविवाह_पद्धतिः- 
अष्टवर्षाभवेद्गौरी नववर्षाच रोहिणी| दशवर्षा भवेत्कन्या अत ऊर्ध्वं रजस्वला || ) 
ज्योतिःशास्त्रे ग्रहनक्षत्रादि योगेन समुत्पन्न विषाख्यदोष परिहारार्थं कुम्भविवाहस्य रजोधर्मप्राप्त पूर्वे कन्यादान मुख्य कालः परंतु वर्तमाने भारतीय अनुशासने अष्टादशवर्षादधिका कन्यायाः(स्त्रीयाः) विवाह पूर्वं रजोदर्शनकालीक दुष्टनक्षत्रादि प्रभावेन अनिष्ट फल निवृत्त्यर्थं च गर्भाधान संस्कारस्याधिकारत्व सिद्घये-" प्रथमं भुवनेश्वरी शांतिं विधाय तदनन्तरं आचार्यः वृषली(रजस्वलायाः) विष्णोः प्रति विवाहार्थं वृषली पतित्त्वदोष निवृत्त्यर्थं कुष्मांडमंत्रैराज्येन प्रायश्चितं समाप्य.. ऋतुकालव्यतित संख्यानु सारेण गोदानं वा तन्मूल्योपकल्पितं द्रव्यं वा मनसोद्दिष्ट द्रव्यं आचार्याय दत्वा साङ्गविधानेन कुम्भविवाहं भवति || 

आचम्य | प्राणानायम्य | शिखांबध्वा | सुमुखश्चेत्यादि पठित्वा "एतानि कर्माणि प्रधानदेवताः (सूर्य इन्द्र इन्द्राणी भुवनेश्वरी)-(अग्निवायुसूर्य)-अश्वत्थकुम्भमय महाविष्णुदेवताभ्यो नमः||
संकल्पः- देशकालौ संकीर्त्य 
मम अस्याः(सुतायाः)आद्य रजोदर्शन कालिक ज्ञाताज्ञात अवस्थासु दूर्निर्मित्तसूचित मास तिथि नक्षत्र योग करणादि अवस्थासु सकलारिष्ट निवारणार्थं सर्वविध शांत्यर्थं श्री सूर्य इन्द्र इन्द्राणी भुवनेश्वरी देवता प्रीत्यर्थं क्षेत्र गर्भयोः संस्कारार्थं च गर्भाधान संस्कार अधिकारार्थं नारदोक्ता भुवनेश्वरी शांतिं/ तथा मम अस्याः सुतायाः नक्षत्रादि योगेन ग्रहयोगेन च विषाख्ययोग जनन सूचित वैधव्यारिष्ट पुनर्भूदोष विवाहभंग जन्य दोषादि परिहारार्थं श्री परमेश्वर प्रीत्यर्थं कुम्भविवाहं च तंत्रेण करिष्ये ||
तदङ्गत्वेन गणपतिपूजनं मातृकापूजनं नान्दीश्राद्धं आचार्यादिवरणं च करिष्ये|| 
एतानि कर्माणि क्रमेण समाप्य | दिग्रक्षणादि भूम्यादिगेवतानां पूजनान्तं कृत्वा || संकल्पः- प्रधानसंकल्पाङ्गत्वेन भुवनेश्वरी शांतिं करिष्ये- तदङ्गत्वेन प्राक्पञ्चोपचारैः गणपतिपूजनं पुण्याह वाचनं च करिष्ये |पुण्याह वाचन कर्मांगदेवता" सूर्य इन्द्र इन्द्राणी भुवनेश्वर्यः प्रीयन्तां न मम") |  हस्तमात्रेस्थंडिले पञ्चभूसंस्कार पूर्वकं अग्निं संस्थाप्य | भुवनेश्वरीशांतिविधानेन प्रधान स्थापन पूजनादि सर्वं पूर्णाहुत्यंतं समाप्य | ततः आचार्य आचम्य प्राणानायम्य | संकल्पः- मम यजमानस्य अस्याः वृषलीसुतायाः कुंभविवाहाङ्गत्वेन अश्वत्थकुंभमय महाविष्णोः वृषलीपतित्त्वदोष परिहारार्थं कुष्मांड मंत्रैराज्येन प्रायश्चित्तं होष्ये | अरत्नीमात्रे स्थंडिलं  संस्कार्याग्निं च प्रतिष्ठाप्य| ब्रह्मासनादि आद्यभागान्तं तत्र केवलं आज्यस्रुवयोः संस्कारं कुर्यात् | विट्नामाग्निं सम्पूज्य | ॐजद्देवा देव हैडनन्देवासश्चकृेमा व्वयम् | अग्ग्निर्म्मातस्मादेनसो व्विश्वान्न्मुञ्चत्त्व गूँ हसः स्वाहा- इदं अग्नये न मम |१|ॐजदि दिवा यदि नक्तमेना गुं सि चकृेमा व्वयम् | व्वायुर्म्मा तस्मादेनसो व्विश्वान्न्मुञ्चत्त्व गूँ हसः स्वाहा- इदं वायवे न मम | ॐजदि जाग्ग्रद् द्यदि स्वप्नऽएना गुं सि चकृेमा व्वयम् | सूर्ज्जोमा तस्मादेनसो व्विश्वान्न्मुञ्चत्त्व गूँ हसः स्वाहा- इदं सूर्याय न मम || भूरादिनवाऽहुतयो दत्वा स्विष्टकृतं जुहुयात् || किंचित् संस्रावं महाविष्णोः हस्ते दत्वा  संस्रवप्राशनादिकं कुर्यात् | अनेन कुष्मांडमंत्रैः प्रायश्चित्त होमेन अश्वत्थ कुम्भमय महाविष्णोः वृषलीपतित्त्व दोष निवृत्तिरस्तु | तत्सत् श्री परमेश्वरः प्रीयतां न मम ||

यजमान आचम्य | प्राणानायम्य | देशकालौ संकीर्त्य मम अस्याः सुतायाः ऋतुकाल व्यतित संख्याकं रुद्रदैवत्यां  गौर्वा तन्मूल्योपकल्पितं द्रव्यं वा मनसोद्दिष्टं द्रव्यं आचार्याय तुभ्यमहं सम्प्रददे न मम||तेन मम समस्तपितृणां च कुलजानां ब्रह्महादोष निवृत्तिरस्तु| आचार्याय तद्द्रव्यं दत्वा ॐस्वस्ति इति वदेत् | ॐद्यौस्त्वा००|| कर्मांग आचम्य | प्राणानायम्य |ॐगणानांत्वा०| संकल्पः- पूर्वोक्त प्रधानसंकल्पाङ्गतया अस्याः सुतायाः कुम्भविवाहं करिष्ये | तदङ्गत्वेन पञ्चोपचारैः गणपतिपूजनं पुण्याहवाचनं(कर्मांग देवता- स्वर्णमय विष्णु स्वरूपाश्वत्थः प्रीयतां  न मम)|| ततो तंडुलेन रचितेऽष्टदले पूर्णपात्रान्त विधिना   कुंभं निधाय तस्मिन् वरुणं तीर्थान् चावाह्य सम्पूज्य || स्वर्णमयाश्वत्थद्रुम प्रतिमायाःअग्न्युत्तारण प्राणप्रतिष्ठापनं कृत्वा   पूर्णपात्रे संस्थाप्य- अश्वत्थद्रुमप्रतिमायां ॐ इदं विष्णु०|ॐअश्वत्थेवो०| ॐकुंभोवनिष्ठुर्ज्ज०| इत्यक्षतैः स्वर्णमय विष्णु स्वरूपाश्वत्थं   आवाह्य षोडशोपचारैः सम्पूज्य | प्रार्थयेत्- वरुणाङ्गस्वरूपाय जीवनानां समाश्रय | पतिं जीवय सुतायाश्चिर पुत्रसुखं कुरु|| देहि विष्णो वरं देहि सुतां पालय दुखतः|| इति संप्रार्थ्य | अनेन पूजनेन स्वर्णमय विष्णुस्वरूपाश्वत्थः प्रीयतां न मम || 
अद्येत्यादि०००शुभपुण्यतिथौ कुम्भविवाहार्थं स्वर्णमय विष्णुस्वरूपाश्वत्थ वरं  मधुपर्केणार्चयिष्ये... ॐषडर्घ्या भवंत्याचार्य ऋत्विग्वैवाह्यो राजा प्रिय स्नातक इति प्रतिसंवत्सरानर्हयेयुक्ष्यमाणा स्त्वृत्विजः||
आसनोपविष्टवरं  प्रार्थयेत्- साधु भवानास्तामर्चयिष्यामो भवन्तम्| दाता- अहं अर्चयिष्यामि| पंचविंशतिकुशात्मकं विष्टरं गृहित्वा- ॐविष्टरो विष्टरो विष्टरः प्रतिगृह्यताम्|
विष्टरं स्थापनोपरि उदगाग्रं स्थापयेत् - ॐवर्ष्मोस्मि समानानामुद्यतामिव सूर्य्यः|इमन्तमभितिष्ठामि यो मा कश्चाभिदासति|| तत्रोपरि वरोपवेशनं भावयित्वा|
दाताः- पाद्यपात्रं गृहित्वा ॐपादार्थं उदकं पादार्थं उदकं पादार्थं उदकं प्रतिगृह्यताम्|| 
महाविष्णोः द्दक्षिणं प्रथमं पश्चात् वामं पादं प्रक्षालयेत्  |  ॐविराजो दोहोसि विराजो दोहमशीय मयि पाद्यायै विराजो दोहः|| 
दाताः- (द्वितीयः)विष्टरो गृहित्वा ॐ विष्टरो विष्टरो विष्टरः प्रतिगृह्यताम्| 
द्वितीय विष्टरं स्थापनादधो उदगाग्रं निधाय- ॐवर्ष्मोस्मि समानानामुद्यतामिव सूर्य्यः| इमन्तमभितिष्ठामि यो मा कश्चाभिदासति||भगवन्तं तत्रासने पादौ करोति इति ध्यायन् ||
दाता- गंधपुष्पाक्षतैर्युतं अर्घ्यपात्रं गृहित्वा " अर्घो अर्घो अर्घः प्रतिगृह्यताम्||
शिरसाभिवंदनं कृत्वा विष्णोः समिपे स्थापयित्वा- ॐ आपस्थ युष्माभिः सर्वान् कामानवाप्नवानि|| अर्घ्यदानवत् प्राग्वा उदग्वासिंचेत् ॐसमुद्रं वः प्रहिणोमि स्वां योनिमभि गच्छत| अरिष्टाऽस्माकं वीरा मा परा सेचिमत्पयः||
दाता- आचमनीयपात्रं गृहित्वा " आचमनीयं उदकं/आचमनीयं उदकं/आचमनीयं उदकं प्रतिगृह्यताम्|
 ॐआमागन्यशसास गूं सृेज वरेचसा|तं मा कुरु प्रियं प्रजानामधिपतिं पशूनामरिष्टिं तनूनाम्|| इति अश्वत्थाय आचमनं मंत्रेण दत्वा || तूष्णींद्विवारम्|| 
दाता- काँस्यपात्रे विषममात्रया दधिमधुघृतम् एकीकृत्य तदुपरि द्वितीयं पात्रमधोमुखं निधाय||कांस्यपात्रेण संपुटं गृहित्वा ॐमधुपर्को मधुपर्को मधुपर्कः प्रतिगृह्यताम्|| कांस्यपात्रमुद्घाट्य 
विष्णोः मधुपर्कं प्रतीक्षते " ॐमित्रस्य त्वा चक्षुखा प्रतिक्षे||इति निरिक्ष्य|| ॐदेवस्यत्त्वा सवितुः प्प्रसवेश्विनोर्ब्बाहुभ्यां पूष्णो हस्ताभ्याम्|प्रतिगृह्णामग्ग्नेेष्ट्वास्येन प्राश्नामि|| प्रतिगृह्णामिति दक्षिणेन प्रगृह्य वामेकृत्वा  अनामिकया मधुपर्कं त्रिः प्रदक्षिणमालोडयति ॐ नमः श्यावाश्यायान्नशने यत्तऽआविद्धं तत्ते निष्कृन्तामि| अनामिकाअंगुष्ठेनच त्रिर्निरुक्षयति||विष्णुस्वरूपाश्वत्थाय  प्राशनार्थं स्थापनोपरि  स्थापयेत् - ॐमधुव्वाता(१)इति प्रथमवारं/ ॐमधुनक्त०(२)इति द्वितीयवारं/ ॐमधुमान्नो०(३)इति तृतीयवारम् देवं प्राश्नीवन्तं विभाव्य | दाता-आचमनीय जलं दद्यात्- अङ्गन्यासार्थं एकस्मिन्पात्रे जलं दद्यात् कुशेन न्यसेत्  ||
मुखे ॐवाङ्मऽआस्येस्तु|| नासिकयोः ॐनर्सो मे प्राणोस्तु||नेत्रयोः ॐअक्ष्णोर्मे चक्षुरस्तु||कर्णयोः ॐकर्णयोर्मे श्रोतमस्तु||बाह्वोः ॐबाह्वोर्मे बलमस्तु||उर्वोः ॐउर्वोर्मे ओजोस्तु||सर्वांगेषु ॐअरिष्टानिमेङ्गानि तनूस्तन्वामे सह सन्तु||दाता- गोर्मूल्यं वा तन्निष्क्रयी मनसोद्दिष्ट द्रव्यं गृहित्वा"गोर्मूल्यं वा तन्निष्क्रयी मनोद्दिष्टं द्रव्यं गंधपुष्पाद्यर्चितं रुद्रदैवतं वराय तुभ्यमहं सम्प्रददे न मम||तद् द्रव्यं वराय दत्वा ॐस्वस्ति||इति ब्रुयात्|| मम च अमुष्य च पाप्मानं हनोमि|| अथ यद्युसिसृक्षेन्मम ____यजमानस्य उभयोः पाप्माहतः|| 
ॐपरिधास्यै०इति वस्त्रं,ॐयज्ञोपवीतं परमं० इति उपवीतं,ॐसुचक्षा अह० इति गंधं,ॐअनाधृेष्टा० इति अक्षतान्, ॐओषधीः प्रति० इति पुष्पमालां, ॐवसोः पवित्रमसि शत० इति सुगंधितैलं वराय समर्प्य| 
हस्ते जलमादाय अनेन मधुपर्कार्चनेन परमेश्वरः प्रीयतां न मम||
----------------------------------------कन्याकाल व्यतित होनेपर लड़की स्त्रीमें परिणीत हो जाती हैं उसका दूसरा जन्म मनिषीयोंने कहा हैं| इसलिये कहीं भी विवाहमें संकल्पादिमें भी "कन्या के स्थानपर सुता" शब्दका प्रयोग करैं- व्याकरण वेदोंका मुख हैं प्रयोग और परिस्थितिके अनुसार पद्धतिके वाक्योंका सुधारना आचार्य का स्वधर्म हैं| 
--------------------------------------------------------------
शेष विधानम्-*****  " ततः सुता कुम्भयोरन्तरे अन्तःपटं धृत्वा दैवज्ञां मंगलपद्यानि पठेयुः| सुता प्रत्यङ्गमुखीं उपवेश्य | ॐमनोजुति० ॐप्रतिष्ठ | इति पठित्वा अन्तःपटं उत्तरे निस्सार्य | स्वर्णमय विष्णुरूपाश्वत्थाय ॐओषधीः०इत्यनेन  वरणमालां आरोप्य | सुता स्वयं पूजासमये विष्णवे आरोपित वरणमालां स्वस्य कंठे धारयित्वा | ॐश्रीश्चते० इति मंत्रेण सुतापादप्रक्षालनम् | ॐजरांगच्छ परिधत्स्व०  ॐ याऽअकृतं० आभ्यां मंत्राभ्यां सुतायै वस्त्रोपवस्त्रे दत्वा | समंजंतु इति भार्गव ऋषिः अनुष्टुप् छंदः सूर्य्यो देवता मैत्री करणे विनियोगः | सुता स्वर्णमय विष्णुरूपाश्वत्थं निरीक्षयेत् - परस्परं समंजयति इति भावयेत् - ॐसमंजंतु विश्वेदेवाः समापो हृदयानि नौ | सम्मातरिश्वा संधाता समुदेष्ट्रीदधातु नौ ||  ततो आचार्य  मंगलतंतुं विष्णवे समर्प्य सुता स्वयं नित्वा स्वकंठे बध्नीयात् - मांगल्य तंतुनानेन भर्तृजीवन हेतवे | कंठे बध्नामि हे विष्णो सौभाग्यं मम वर्धय || दशवारमधस्तादुपरि च कुम्भं कन्यां च सूत्रेण वेष्टयेत् अन्ते ऐशान्यां(सुता दक्षिण स्कन्धोपरि)  ऐकीकृत्य ग्रन्थीं दद्यात् | तस्य  मंत्राः- ॐपरित्वागिर्व्वणो  गिरऽइमा भवन्तु विश्श्वतः|वृेद्धायु मनुवृेद्धयो जुष्टा भवन्तु जुष्ट्टयः||१|| इन्द्रस्य स्यूरसीन्द्रस्य ध्रुवोसि | ऐन्द्रमसि व्वैश्श्वदेवमसि||२|| व्विभूरसि प्रवाहणो व्वह्निरसि हव्व्यवाहनः| श्वात्त्रोसि प्रचेतास्तुथोसि व्विश्ववेदाः||३||उशीगसि कविरङ्घारिरसि बम्भारिरवस्यूरसि दुवस्वाञ्छुन्ध्यूरसि मार्ज्जाली यः सम्म्राडसि कृेशानुः परिखद् द्योसि पवमानोनभोसि प्प्रतक्वामृेष्टोसि हव्व्यसूदनऽऋेतधामासि स्वर्ज्ज्योतिः||४||समुद्द्रोसि व्विश्श्वव्व्यचाऽअज्जोस्येकपादहिरसि बुध्न्योव्वागस्यैन्द्रमसि सदोस्यृेतेस्यदद्वारौ मा मासंताप्तमद्ध्वनामद्ध्वपते प्प्रमातिरस्वस्ति मेस्म्मिन्पथि देवयाने भूयात् ||५|| मित्त्रस्य मा चक्षुखे क्षद्ध्वमग्ग्नयः सगराः सगरास्त्थ सगरेण नाम्न्ना रौद्रेणानीकेन पातमाग्ग्नयः पिपृेतमाग्ग्नयोगो पायतमा नमो वोस्तु मा माहि गूँ सिष्ट्ट||६|| ज्योतिरसि व्विश्श्वरूपं व्विश्श्वेखान्देवाना गुं समित् | त्व गूँ सोम तनू कृेद्भ्योद् द्वेखोब्भ्योन्यकृेतेब्भ्यऽउरु जन्तासि व्वरुथ गुं स्वाहा जुखाणोऽ अप्प्तु राज्ज्यस्य व्वेतु स्वाहा || इति संवेष्ट्य || कुम्भरूप विष्णवे सुतादानं कुर्यात् | सुतादान संकल्पः- विष्णुर्विष्णुर्विष्णुः इत्यादि देशकालौ संकीर्त्य अस्याः सुतायाः विषाख्य योग जनन वैधव्यारिष्ट पुनर्भूत्त्व विवाहभंगादि दोषापनुत्तये श्री विष्णु स्वरूपिणे अश्वत्थ कुम्भाय श्री रूपिणीमिमां सुतां भार्यात्वेन तुभ्यमहं सम्प्रददे|| इति पठित्वा सुताया दक्षिण हस्ते जलं दत्वा तद्धस्तं विष्णुस्वरूपायाश्वत्थ कुम्भाय समर्प्य मन्त्रं पठेत् | सुतां लक्षण सम्पन्नां यथाशक्ति विभूषिताम् | ददामि विष्णवे तुभ्यं सौभाग्यं देहि सर्वदा || विष्णुरूपिणे कुम्भायेमां सुतां भार्यात्वेन संप्रददे || इति समर्पयेत् | कायेन वाचा मनसैन्द्रियैर्वा० यस्य स्मृत्या च नामोक्त्या०| अनन्तरं वस्त्रग्रन्थिकादिकं विमुच्य कुम्भं गृहित्वा जले निक्षिपेत् || ततः आचार्यः शुद्धोदकेन "ऐन्द्रवारुणपावमानीय मंत्रैः" सुतां पल्लवेनाभिषिच्य शुद्ध वाससी परिधापयेत् | ततः सुता शुद्धोदकेन स्नात्वा स्वयं धारितानि नूतनानि वस्त्राणि सालङ्करणानि आचार्याय दत्वा आचार्यादिब्राह्मणेभ्यः दक्षिणां दद्यात् | ततः आचार्यादिनां समीपे उपविश्य "भो ब्राह्मणाः- अहम् अनेन कुम्भविवाह कर्मणा अनधाऽस्मि? इति त्रिवारं पृच्छेत् || ब्राह्मणाः - अभयं दद्यात् " त्वं अनधाऽसि(३)" इति त्रिवारं ब्रूयुः || कर्मेश्वरार्पणम् || 

ॐस्वस्ति| पु ह शास्त्री उमरेठ|

No comments:

Post a Comment