यस्य यत् नास्ति स: तत् वृणोति
अध्यापक:- यदि भगवान् स्वयं साक्षादागत्य वरं वृणीष्व इति वदॆत् तर्हि भवान् किं वृणुयात् ?
एक: विद्यार्थी:- सवर्ण दूरदर्शनं वरत्वॆन वरिष्यामि.
अन्य:विद्यार्थी:- अहं शीतकं वरिष्यामि
अपर: विद्यार्थी:- अहं संगणक यन्त्रं वरिष्यामि
अध्यापक:- रे मूर्खा: ! तथा न कर्तव्यम् | भगवान् साक्षाद्भूय वरं वृणीष्व इति मां कथयति चॆत् अहं तु विद्या वरिष्यामि |
विद्यार्थी :- तत्र किम् आश्चर्यम् ? यस्य यन्नास्ति स: तदेव कामयते
No comments:
Post a Comment