Thursday, May 12, 2016

Sri Saraswati Stotrams

Courtesy:http://kalekulvruttant.com/Stotra.html#5

महासरस्वती स्तोत्रे
(1)

या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता
या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना ।
या ब्रह्माच्युत शङ्करप्रभृतिभिर्देवैस्सदा वंदिता
सा मां पातु सरस्वती भगवती निश्शेषजाड्यापहा ॥ 1 ॥

दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिनिभै रक्षमालान्दधाना
हस्तेनैकेन पद्मं सितमपिच शुकं पुस्तकं चापरेण ।
भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानाज़्समाना
सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना ॥ 2 ॥

सुरासुरैस्सेवितपादपङ्कजा करे विराजत्कमनीयपुस्तका ।
विरिञ्चिपत्नी कमलासनस्थिता सरस्वती नृत्यतु वाचि मे सदा ॥ 3 ॥

सरस्वती सरसिजकेसरप्रभा तपस्विनी सितकमलासनप्रिया ।
घनस्तनी कमलविलोललोचना मनस्विनी भवतु वरप्रसादिनी ॥ 4 ॥

सरस्वति नमस्तुभ्यं वरदे कामरूपिणि ।
विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा ॥ 5 ॥

सरस्वति नमस्तुभ्यं सर्वदेवि नमो नमः ।
शान्तरूपे शशिधरे सर्वयोगे नमो नमः ॥ 6 ॥

नित्यानन्दे निराधारे निष्कलायै नमो नमः ।
विद्याधरे विशालाक्षि शुद्धज्ञाने नमो नमः ॥ 7 ॥

शुद्धस्फटिकरूपायै सूक्ष्मरूपे नमो नमः ।
शब्दब्रह्मि चतुर्हस्ते सर्वसिद्ध्यै नमो नमः ॥ 8 ॥

मुक्तालङ्कृत सर्वाङ्ग्यै मूलाधारे नमो नमः ।
मूलमन्त्रस्वरूपायै मूलशक्त्यै नमो नमः ॥ 9 ॥

मनोन्मनि महाभोगे वागीश्वरि नमो नमः ।
वाग्म्यै वरदहस्तायै वरदायै नमो नमः ॥ 10 ॥

वेदायै वेदरूपायै वेदान्तायै नमो नमः ।
गुणदोषविवर्जिन्यै गुणदीप्त्यै नमो नमः ॥ 11 ॥

सर्वज्ञाने सदानन्दे सर्वरूपे नमो नमः ।
सम्पन्नायै कुमार्यै च सर्वज्ञे ते नमो नमः ॥ 12 ॥

योगानार्य उमादेव्यै योगानन्दे नमो नमः ।
दिव्यज्ञान त्रिनेत्रायै दिव्यमूर्त्यै नमो नमः ॥ 13 ॥

अर्धचन्द्रजटाधारि चन्द्रबिम्बे नमो नमः ।
चन्द्रादित्यजटाधारि चन्द्रबिम्बे नमो नमः ॥ 14 ॥

अणुरूपे महारूपे विश्वरूपे नमो नमः ।
अणिमाद्यष्टसिद्धायै आनन्दायै नमो नमः ॥ 15 ॥

ज्ञान विज्ञान रूपायै ज्ञानमूर्ते नमो नमः ।
नानाशास्त्र स्वरूपायै नानारूपे नमो नमः ॥ 16 ॥

पद्मजा पद्मवंशा च पद्मरूपे नमो नमः ।
परमेष्ठ्यै परामूर्त्यै नमस्ते पापनाशिनी ॥ 17 ॥

महादेव्यै महाकाल्यै महालक्ष्म्यै नमो नमः ।
ब्रह्मविष्णुशिवायै च ब्रह्मनार्यै नमो नमः ॥ 18 ॥

कमलाकरपुष्पा च कामरूपे नमो नमः ।
कपालिकर्मदीप्तायै कर्मदायै नमो नमः ॥ 19 ॥

सायं प्रातः पठेन्नित्यं षण्मासात्सिद्धिरुच्यते ।
चोरव्याघ्रभयं नास्ति पठतां शृण्वतामपि ॥ 20 ॥

इत्थं सरस्वती स्तोत्रमगस्त्यमुनि वाचकम् ।
सर्वसिद्धिकरं नॄणां सर्वपापप्रणाशनम् ॥ 21 ॥

(2)
शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्व्यापिनीम् |
वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम् ||
हस्ते स्फ़टिकमालिका विदधतीं पद्मासने संस्थिताम् |
वन्दे तां परमेश्वरीं भगवतीं बुध्दिप्रदां शारदाम् ||
आगच्छ वरदे देवी त्र्यक्षरे ब्रह्मवादिनि |
गायत्री छन्दसां मातर्ब्रह्मयोनि नमोSस्तुते ||
जप मंत्र
ॐ अस्य श्री दशश्लोकी महासरस्वतीस्तवराजस्य बृहस्पतिऋषिः अनुष्टुप् छन्दः |
श्री महासरस्वती प्रीत्यर्थं जपे विनियोगः |
मन्त्र: " ॐ ऐम् ह्रीं क्लिं मम चतुर्दश विद्यासिद्ध्यर्थे श्रीमहासरस्वतीप्रीत्यर्थे च जपे विनियोगः |
ॐ पद्मासने शब्दरूपे ऐम् ह्रीं क्लिं वदवद वाग्वादिनी स्वाहा |
ॐ ऐम् ह्रीं क्लिं वद वद वाग्वादिनी मम जिव्हाग्रे सरस्वती स्वाहा | "
बृहस्पतिः उवाच
सरस्वतीं नमस्यामि चेतनां हृदिसंस्थितां ।
कण्ठस्थां पद्मयोनेस्तु ऐम् ह्रींकार सुरप्रियाम् ॥
मतिदा वरदां चैव सर्वकामफ़लप्रदां ।
केशवस्य प्रियां देवीं वीणाहस्तां वरप्रदां ॥
ॐ ऐम् ह्रीं मन्त्रं प्रियां हृद्यां कुमतिध्वंसकारिणीं ।
स्वप्रकाशां निरालम्बामज्ञानतिमिरापहाम् ॥
मोक्षदां च शुभां नित्यां शुभगां शोभनप्रियां ।
पद्मोपविष्टा कुण्डलिनीं शुक्लवस्त्रां मनोहराम् ॥
आदित्यमंडले लीनां प्रणमामि जनप्रियां ।
ज्ञानाकारां परातीतां भक्त जाड्य विनाशिनीम् ॥
इति सत्यस्तुता देवी वागीशेन महात्मना ॥
आत्मानं दर्शयामास शरदिन्दुसमप्रभाम् ॥
॥ इति श्रीसरस्वती स्तवराज स्तोत्रं संपूर्णम् ॥

अशा प्रकारे बृहस्पतीनी त्या सरस्वतीची स्तुती केल्यावर शरदचंद्रा प्रमाणे शोभणारी ती सरस्वती दर्शन देऊन म्हणाली की,
"जो या स्तोत्राचे तिन्ही काळी नियमाने पठण करील त्याच्या कंठामध्ये सदा सर्वदा मी वास करीन."

(3)
श्रीशङ्करविरचित शारदा प्रार्थना .....
नमस्ते शारदे देवि काश्मीरपुरवासिनि ।
त्वामहं प्रार्थये नित्यं विद्यादानं च देहि मे ॥ १ ॥

या श्रद्धा धारणा मेधा वग्देवी विधिवल्लभा ।
भक्तजिह्वाग्रसदना शमादिगुणदायिनी ॥ २ ॥

नमामि यामिनीं नाथलेखालङ्कृतकुन्तलाम् ॥
भवानीं भवसन्तापनिर्वापणसुधानदीम् ॥ ३ ॥

भद्रकाल्यै नमो नित्यं सरस्वत्यै नमो नमः ।
वेदवेदाङ्गवेदान्तविद्यास्थानेभ्य एव च ॥ ४ ॥

ब्रह्मस्वरूपा परमा ज्योतिरूपा सनातनी ।
सर्वविद्याधिदेवी या तस्यै वाण्यै नमो नमः ॥ ५ ॥

यया विना जगत्सर्वं शश्वज्जीवन्मृतं भवेत् ।
ज्ञानाधिदेवी या तस्यै सरस्वत्यै नमो नमः ॥ ६ ॥

यया विना जगत्सर्वं मूकमुन्मत्तवत्सदा ।
या देवी वागधिष्ठात्री तस्यै वाण्यै नमो नमः ॥ ७ ॥
इति श्रीशङ्करविरचित शारदा स्तोत्रम्‍ संपूर्णम्‍ ॥

(4)
श्री शारदा भुजङ्गप्रयात स्तवनम् ..
दक्षिणाम्नाय श्रिङ्गेरी श्रीशारदापीठाधिपति
शङ्कराचार्य जगद्गुरुवर्यो श्री सच्चिदानन्द शिवाभिनव
नृसिंहभारती महास्वामिभिः विरचितम् ...

ॐ स्मितोद्धूतराका निशानायकायै कपोलप्रभानिर्जितादर्शकायै ।
स्वनेत्रावधूताङ्गजातध्वजायै सरोजोत्थ सत्यै नमः शारदायै ॥
भवाम्बोधिपारं न यन्त्यै स्वभक्तान् विनाऽयासलेशं कृपानौकयैव ।
भवाम्भोजनेत्रादि सम्सेवितायै अजस्रं हि कुर्मो नमः शारदायै ॥
सुधाकुम्भमुद्राविराजत्करायै व्यथाशून्यचित्तैः सदा सेवितायै ।
क्रुधाकामलोभादिनिर्वापणायै विधातृप्रियायै नमः शारदायै ॥
नतेष्टप्रदानाय भूमिं गतायै गतेनाच्छबर्हाभिमानं हरंत्यै ।
स्मितेनेन्दु दर्पं च तोषां व्रजन्त्यै सुतेनेव नम्रैर्नमः शारदायै ॥
नतालीयदारिद्र्यदुःखापहन्त्र्यै तथाभीतिभूतादिबाधाहरायै ।
फणीन्द्राभवेण्यै गिरीन्द्रस्तनायै विधातृप्रियायै नमः शारदायै ॥
सुधाकुम्भमुद्राक्षमालाविराजत् करायै कराम्भोजसम्मर्दितायै ।
सुराणां वराणां सदा मानिनीनां मुदा सर्वदायै नमः शारदायै ॥
समस्तैश्च वेदैः सदागीतकीर्त्यै निराशान्तरङ्गाम्बुजात स्थितायै ।
पुराराति पद्माक्ष पद्मोद्भवाद्यैर्मुदा पूजितायै नमः शारदायै ॥
अविद्यापदुद्धार बद्धादरायै तथा बुद्धि सम्पत्प्रदानोत्सुकायै ।
नतेभ्यः कदाचित्स्वपादाम्बुजाते विधेः पुण्यतत्यै नमः शारदायै ॥
पदाम्भोजनम्रान् कृतेभीतभीतान् द्रुतं मृत्युभीतेर्विमुक्तान् विधातुम् ।
सुधाकुम्भमुद्राक्षमाला करायै द्रुतं पाययित्वा यथा तृप्ति वाणी ॥
महान्तो हि मह्यं हृदम्भोरुहाणि प्रमोदात्समर्प्यासते सौख्यभाजः ।
इति ख्यापनायानतानां कृपाब्धे सरोजान्यसंख्यानि धत्से किमम्ब ॥
शरच्चन्द्रनीकाशवस्त्रेणवीता कनद्भर्मयष्टेरहङ्कार भेत्री ।
किरीटं सताटङ्कमत्यन्तरम्यं वहन्ति हृदब्जे स्फुरत्वं सुमूर्तिः ॥
निगृह्याक्षवर्गं तपोवाणि कर्तुं न शक्नोमि यस्यादवश्याक्षवर्गः ।
ततो मय्यनाथे दया पारशून्या विधेया विधातृप्रिये शारदाम्ब ॥
विलोक्यापि लोको न तृप्तिं प्रयाति प्रसन्नं मुखेन्दुं कलङ्कादिशून्यम् ।
यदीयं ध्रुवं प्रत्यहं तां कृपाब्धिं भजे शारदाम्बामजस्रम्मदम्बाम् ॥
पुरा चन्द्रचूडो धृताचार्यरूपो गिरौ शृङ्गपूर्वे प्रतिष्ठाप्य चक्रे ।
समाराध्य मोदं ययौ यामपारं भजे शारदाम्बामजस्रम्मदम्बाम् ॥
भवाम्बोधिपारं नयन्तीं स्वभक्तान् भवाम्भोजनेत्राजसम्पूज्यमानाम् ।
भवद्भव्यभूताघ विध्वंसदक्षां भजे शारदाम्बामजस्रम्मदम्बाम् ॥
वराक त्वरा का तवेष्टप्रदाने कथं पुण्यहीनाय तुभ्यं ददानि ।
इति त्वं गिरां देवि मा ब्रूहि यस्मादघारण्यदावानलेति प्रसिद्धा ॥ ॐ ॥

(5)
शारदाभुजंगप्रयाताष्टकम् ..
सुवक्षोजकुम्भां सुधापूर्णकुंभां
प्रसादावलम्बां प्रपुण्यावलम्बाम् |
सदास्येन्दुबिम्बां सदानोष्ठबिम्बां
भजे शारदाम्बामजस्रं मदम्बाम् || १||
कटाक्षे दयार्द्रो करे ज्ञानमुद्रां
कलाभिर्विनिद्रां कलापैः सुभद्राम् |
पुरस्त्रीं विनिद्रां पुरस्तुङ्गभद्रां
भजे शारदाम्बामजस्रं मदम्बाम् || २||
ललामाङ्कफालां लसद्गानलोलां
स्वभक्तैकपालां यशःश्रीकपोलाम् |
करे त्वक्षमालां कनत्प्रत्नलोलां
भजे शारदाम्बामजस्रं मदम्बाम् || ३||
सुसीमन्तवेणीं दृशा निर्जितैणीं
रमत्कीरवाणीं नमद्वज्रपाणीम् |
सुधामन्थरास्यां मुदा चिन्त्यवेणीं
भजे शारदाम्बामजस्रं मदम्बाम् || ४||
सुशान्तां सुदेहां दृगन्ते कचान्तां
लसत्सल्लताङ्गीमनन्तामचिन्त्याम् |
स्मरेत्तापसैः सङ्गपूर्वस्थितां तां
भजे शारदाम्बामजस्रं मदम्बाम् || ५||
कुरङ्गे तुरंगे मृगेन्द्रे खगेन्द्रे
मराले मदेभे महोक्षेऽधिरूढाम् |
महत्यां नवम्यां सदा सामरूपां
भजे शारदाम्बामजस्रं मदम्बाम् || ६||
ज्वलत्कान्तिवह्निं जगन्मोहनाङ्गीं
भजे मानसाम्भोजसुभ्रान्तभृङ्गीम् |
निजस्तोत्रसंगीतनृत्यप्रभाङ्गीम्
भजे शारदाम्बामजस्रं मदम्बाम् || ७||
भवाम्भोजनेत्राजसंपूज्यमानां
लसन्मन्दहासप्रभावक्त्रचिह्नाम् |
चलच्चञ्चलाचारूताटङ्ककर्णो
भजे शारदाम्बामजस्रं मदम्बाम् || ८||
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
शारदाभुजंगप्रयाताष्टक संपूर्णम् ||

(6)
श्री सरस्वत्यष्टोत्तर शतनाम स्तोत्रम् ..
सरस्वती महाभद्रा महामाया वरप्रदा ।
श्रीप्रदा पद्मनिलया पद्माक्षी पद्मवक्त्रगा ॥ १ ॥
शिवानुजा पुस्तकधृत् ज्ञानमुद्रा रमा परा ।
कामरूपा महाविद्या महापातकनाशिनी ॥ २ ॥
महाश्रया मालिनी च महाभोगा महाभुजा ।
महाभागा महोत्साहा दिव्याङ्गा सुरवंदिता ॥ ३ ॥
महाकाली महापाशा महाकारा महाङ्कुशा ।
सीता च विमला विश्वा विद्युन्माला च वैष्णवी ॥ ४ ॥
चंद्रिका चंद्रवदना चंद्रलेखाविभूषिता ।
सावित्री सुरसा देवी दिव्यालंकारभूषिता ॥ ५ ॥
वाग्देवी वसुधा तीव्रा महाभद्रा महाबला ।
भोगदा भारती भामा गोविंदा गोमती शिवा ॥ ६ ॥
जटिला विंध्यवासा च विंध्याचलविराजिता ।
चंडिका वैष्णवी ब्राह्मी ब्रह्मज्ञानैकसाधना ॥ ७ ॥
सौदामिनी सुधामूर्तिस्सुभद्रा सुरपूजिता ।
सुवासिनी सुनासा च विनिद्रा पद्मलोचना ॥ ८ ॥
विद्यारूपा विशालाक्षी ब्रह्मजाया महाफला ।
त्रयीमूर्ती त्रिकालज्ञा त्रिगुणा शास्त्ररूपिणी ॥ ९ ॥
शुंभासुरप्रमथिनी शुभदा च सर्वात्मिका ।
रक्तबीजनिहंत्री च चामुण्डा चांबिका तथा ॥ १० ॥
मुण्डकाय प्रहरणा धूम्रलोचनमर्दना ।
सर्वदेवस्तुता सौम्या सुरासुरनमस्कृता ॥ ११ ॥
कालरात्री कलाधारा रूप सौभाग्यदायिनी ।
वाग्देवी च वरारोहा वाराही वारिजासना ॥ १२ ॥
चित्रांबरा चित्रगंधा चित्रमाल्यविभूषिता ।
कांता कामप्रदा वंद्या विद्याधरा सूपूजिता ॥ १३ ॥
श्वेतासना नीलभुजा चतुर्वर्गफलप्रदा ॥
चतुराननसाम्राज्या रक्तमध्या निरंजना ॥ १४ ॥
हंसासना नीलजङ्घा ब्रह्मविष्णुशिवात्मिका ॥
एवं सरस्वती देव्या नाम्नामष्टोत्तरशतम् ॥ १५ ॥
इति श्री सरस्वत्यष्टोत्तरशतनामस्तोत्रम् सम्पूर्णम् ॥

(7)
श्रीसरस्वती स्तुति..
या कुन्देन्दु- तुषारहार- धवला या शुभ्र- वस्त्रावृता
या वीणावरदण्डमन्डितकरा या श्वेतपद्मासना |
या ब्रह्माच्युत- शंकर- प्रभृतिभिर्देवैः सदा पूजिता
सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा || १||

दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिमयीमक्षमालां दधाना
हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण |
भासा कुन्देन्दु- शंखस्फटिकमणिनिभा भासमानाऽसमाना
सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना || २||

आशासु राशी भवदंगवल्लि
भासैव दासीकृत- दुग्धसिन्धुम् |
मन्दस्मितैर्निन्दित- शारदेन्दुं
वन्देऽरविन्दासन- सुन्दरि त्वाम् || ३||

शारदा शारदाम्बोजवदना वदनाम्बुजे |
सर्वदा सर्वदास्माकं सन्निधिं सन्निधिं क्रियात् || ४||

सरस्वतीं च तां नौमि वागधिष्ठातृ- देवताम् |
देवत्वं प्रतिपद्यन्ते यदनुग्रहतो जनाः || ५||

पातु नो निकषग्रावा मतिहेम्नः सरस्वती |
प्राज्ञेतरपरिच्छेदं वचसैव करोति या || ६||

शुद्धां ब्रह्मविचारसारपरमा- माद्यां जगद्व्यापिनीं
वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम् |
हस्ते स्पाटिकमालिकां विदधतीं पद्मासने संस्थितां
वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम् || ७||

वीणाधरे विपुलमंगलदानशीले
भक्तार्तिनाशिनि विरिंचिहरीशवन्द्ये |
कीर्तिप्रदेऽखिलमनोरथदे महार्हे
विद्याप्रदायिनि सरस्वति नौमि नित्यम् || ८||

श्वेताब्जपूर्ण- विमलासन- संस्थिते हे
श्वेताम्बरावृतमनोहरमंजुगात्रे |
उद्यन्मनोज्ञ- सितपंकजमंजुलास्ये
विद्याप्रदायिनि सरस्वति नौमि नित्यम् || ९||

मातस्त्वदीय- पदपंकज- भक्तियुक्ता
ये त्वां भजन्ति निखिलानपरान्विहाय |
ते निर्जरत्वमिह यान्ति कलेवरेण
भूवह्नि- वायु- गगनाम्बु- विनिर्मितेन || १०||

मोहान्धकार- भरिते हृदये मदीये
मातः सदैव कुरु वासमुदारभावे |
स्वीयाखिलावयव- निर्मलसुप्रभाभिः
शीघ्रं विनाशय मनोगतमन्धकारम् || ११||

ब्रह्मा जगत् सृजति पालयतीन्दिरेशः
शम्भुर्विनाशयति देवि तव प्रभावैः |
न स्यात्कृपा यदि तव प्रकटप्रभावे
न स्युः कथंचिदपि ते निजकार्यदक्षाः || १२||

लक्ष्मिर्मेधा धरा पुष्टिर्गौरी तृष्टिः प्रभा धृतिः |
एताभिः पाहि तनुभिरष्टभिर्मां सरस्वती || १३||

सरसवत्यै नमो नित्यं भद्रकाल्यै नमो नमः
वेद- वेदान्त- वेदांग- विद्यास्थानेभ्य एव च || १४||

सरस्वति महाभागे विद्ये कमललोचने |
विद्यारूपे विशालाक्षि विद्यां देहि नमोस्तु ते || १५||

यदक्षर- पदभ्रष्टं मात्राहीनं च यद्भवेत् |
तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि || १६||

|| इति श्रीसरस्वती स्तोत्रं संपूर्णं||

No comments:

Post a Comment