Thursday, January 21, 2016

Sootras of Mimaamsa

Courtesy: Sri.Janakisharan Das

मीमांसा


अथातो धर्मजिज्ञासा / मिमांसा-,./

चोदनालक्षणो ऽर्थो धर्मः / मिमांसा-,./

तस्य निमित्तपरीष्टिः / मिमांसा-,./

सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षम् अनिमित्तं विद्यमानोपलम्भनत्वात् / मिमांसा-,./

औत्पत्तिकस् तु शब्दस्यार्थेन संबन्धस् तस्य ज्ञानम् उपदेशो ऽव्यतिरेकश् चार्थे ऽनुपलब्धे तत्प्रमाणं बादरायणस्यानपेक्षत्वात् / मिमांसा-,./

कर्मैके तत्र दर्शनात् / मिमांसा-,./

अस्थानात् / मिमांसा-,./

करोति शब्दात् / मिमांसा-,./

सत्त्वान्तरे च यौगपद्यात् / मिमांसा-,./

प्रकृति विकृत्योश् च / मिमांसा-,.१० /

वृद्धिश् च कर्तृभूम्नास्य / मिमांसा-,.११ /

समं तु तत्र दर्शनम् / मिमांसा-,.१२ /

सतः परमदर्शनं विषयानागमात् / मिमांसा-,.१३ /

प्रयोगस्य परम् / मिमांसा-,.१४ /

आदित्त्यवद्यौगपद्यम् / मिमांसा-,.१५ /

वर्णान्तरम् अविकारः / मिमांसा-,.१६ /

नादवृद्धिपरा / मिमांसा-,.१७ /

नित्यस् तु स्याद् दर्शनस्य परार्थत्वात् / मिमांसा-,.१८ /

सर्वत्र यौगपद्यात् / मिमांसा-,.१९ /

संख्याभावात् / मिमांसा-,.२० /

अनपेक्षत्वात् / मिमांसा-,.२१ /

प्रख्याभावाच् च योगस्य / मिमांसा-,.२२ /

लिङ्गदर्शनाच् च / मिमांसा-,.२३ /

उत्त्पत्तौ वावचनाः स्युर् अर्थस्यातन्निमित्तत्वात् / मिमांसा-,.२४ /

तद्भूतानां क्रियार्थेन सामाम्नायो ऽर्थस्य तन्निमित्तत्त्वात् / मिमांसा-,.२५ /

लोके सन्नियमात् प्रयोगसन्निकर्षः स्यात् / मिमांसा-,.२६ /

वेदांश् चैके सन्निकर्षं पुरुषाख्याः / मिमांसा-,.२७ /

अनित्यदर्शनाच् च / मिमांसा-,.२८ /

उक्तं तु शब्दपूर्वत्वम् / मिमांसा-,.२९ /

आख्या प्रवचनात् / मिमांसा-,.३० /

परन्तु श्रुतिसामान्यमात्रम् / मिमांसा-,.३१ /

कृते वा विनियोगः स्यात् कर्मणः संबन्धात् / मिमांसा-,.३२ /



आम्नायस्य क्रियार्थत्वाद् आनर्थक्यम् अतदर्थानां तस्माद् अनित्यम् उच्यते / मिमांसा-,./

शास्त्रदृष्टाविरोधाच् च / मिमांसा-,./

तथाफलाभावात् / मिमांसा-,./

अन्यानर्थक्यात् / मिमांसा-,./

अभागिप्रतिषेधाच् च / मिमांसा-,./

अनित्यसंयोगात् / मिमांसा-,./

विधिना त्व् एकवाक्यत्वात् स्तुत्यर्थेन विधीनां स्युः / मिमांसा-,./

तुल्यं च साम्प्रदायिकम् / मिमांसा-,./

आप्ता चानुपपत्तिः प्रयोगे हि विरोधः स्याच् छब्दार्थस् त्व् अप्रयोगभूतस् तस्माद् उपपद्येत / मिमांसा-,./

गुणवादस् तु / मिमांसा-,.१० /

रूपात् प्रायात् / मिमांसा-,.११ /

दूरभूयस्त्वात् / मिमांसा-,.१२ /

अपराधात् कर्तुश् च पुत्रदर्शनम् / मिमांसा-,.१३ /

आकालिकेप्सा / मिमांसा-,.१४ /

विद्याप्रशंसा / मिमांसा-,.१५ /

सर्वत्वम् आधिकारिकम् / मिमांसा-,.१६ /

फलस्य कर्मनिष्पत्तेस् तेषां लोकवत्परिमाणतः फलविशेषः स्यात् / मिमांसा-,.१७ /

अन्त्ययोर् यथोक्तम् / मिमांसा-,.१८ /

विधिर् वा स्याद् अपूर्वत्वाद् वादमात्रम ह्य् अनर्थकम् / मिमांसा-,.१९ /

लोकवद् इति चेत् / मिमांसा-,.२० /

न पूर्वत्वात् / मिमांसा-,.२१ /

उक्तं तु वाक्यशेषत्वम् / मिमांसा-,.२२ /

विधिश् चानर्थकः क्वचित् तस्मात् स्तुतिः प्रतीयेत तत्सामान्याद् इतरेषु तथात्वम् / मिमांसा-,.२३ /

प्रकरणे सम्भवन्नपकर्षो न कल्प्येत विध्यानर्थक्यं हि तं प्रति / मिमांसा-,.२४ /

विधौ च वाक्यभेदः स्यात् / मिमांसा-,.२५ /

हेतुर् वा स्याद् अर्थवत्वोपपत्तिभ्याम् / मिमांसा-,.२६ /

स्थितिस् तु शब्दपूर्वत्वादचोदनाच तस्य / मिमांसा-,.२७ /

व्यर्थे स्तुतिर् अन्याय्येति चेत् / मिमांसा-,.२८ /

अर्थस् तु विधिशेषत्वाद् यथा लोके / मिमांसा-,.२९ /

यदि च हेतुर् अवतिष्ठेत निर्देशात् सामान्याद् इति चेद् अवस्था विधीनां स्यात् / मिमांसा-,.३० /

तदर्थशास्त्रात् / मिमांसा-,.३१ /

वाक्यनियमात् / मिमांसा-,.३२ /

बुद्धिशास्त्रात् / मिमांसा-,.३३ /

अविद्यमानवचनात् / मिमांसा-,.३४ /

अचेतने ऽर्थबन्धनात् / मिमांसा-,.३५ /

अर्थविप्रतिषेधात् / मिमांसा-,.३६ /

स्वाध्यायवद्वचनात् / मिमांसा-,.३७ /

अविज्ञेयात् / मिमांसा-,.३८ /

अनित्यसंयोगान् मन्त्रार्थानर्थक्यम् / मिमांसा-,.३९ /

अविशिष्टस् तु वाक्यार्थः / मिमांसा-,.४० /

गुणार्थेन पुनः श्रुतिः / मिमांसा-,.४१ /

परिसंख्या / मिमांसा-,.४२ /

अर्थवादो वा / मिमांसा-,.४३ /

अविरुद्धं परम् / मिमांसा-,.४४ /

संप्रैषे कर्मगर्हानुपालम्भः संस्कारत्त्वात् / मिमांसा-,.४५ /

अभिधाने ऽर्थवादः / मिमांसा-,.४६ /

गुणाद् अप्रतिषेधः स्यात् / मिमांसा-,.४७ /

विद्यावचनम् असंयोगात् / मिमांसा-,.४८ /

सतः परमविज्ञानम् / मिमांसा-,.४९ /

उक्तश् चानित्यसंयोगः / मिमांसा-,.५० /

लिङ्गोपदेशश् च तदर्थवत् / मिमांसा-,.५१ /

ऊहः / मिमांसा-,.५२ /

विधिशब्दाश् च / मिमांसा-,.५३ /



धर्मस्य शब्दमूलत्वाद् अशब्दम् अनपेक्षं स्यात् / मिमांसा-,./

अपि वा कर्तृसामान्यात् प्रमाणम् अनुमानं स्यात् / मिमांसा-,./

विरोधे त्व् अनपेक्ष्यं स्याद् असति ह्य् अनुमानम् / मिमांसा-,./

हेतुदर्शनाच् च / मिमांसा-,./

शिष्टाकोपे ऽविरुद्धम् इति चेत् / मिमांसा-,./

न शास्त्रपरिमाणत्वात् / मिमांसा-,./

अपि वा कारणग्रहणे प्रयुक्तानि प्रतीयेरन् / मिमांसा-,./

तेष्व् अदर्शनाद् विरोधस्य समा विप्रतिपत्तिः स्यात् / मिमांसा-,./

शास्त्रस्था वा तन्निमित्तत्वात् / मिमांसा-,./

चोदितं तु प्रतीयेताविरोधात् प्रमाणेन / मिमांसा-,.१० /

प्रयोगशास्त्रम् इति चेत् / मिमांसा-,.११ /

नासन्नियमात् / मिमांसा-,.१२ /

अवाक्यशेषाच् च / मिमांसा-,.१३ /

सर्वत्र च प्रयोगात् सन्निधानशास्त्राच् च / मिमांसा-,.१४ /

अनुमानव्यवस्थानात् तत्संयुक्तं प्रमाणं स्यात् / मिमांसा-,.१५ /

अपि वा सर्व धर्मः स्यात् तन्न्यायत्वाद् विधानस्य / मिमांसा-,.१६ /

दर्शनाद् विनियोगः स्यात् / मिमांसा-,.१७ /

लिङ्गाभावाच् च नित्यस्य / मिमांसा-,.१८ /

आख्या हि देशसंयोगात् / मिमांसा-,.१९ /

न स्याद् देशान्तरेष्व् इति चेत् / मिमांसा-,.२० /

स्याद्योगाख्या हि माथुरवत् / मिमांसा-,.२१ /

कर्मधर्मो वा प्रवणवत् / मिमांसा-,.२२ /

तुल्यं तु कर्तृधर्मेण / मिमांसा-,.२३ /

प्रयोगोत्पत्यशास्त्रत्वाच् छब्देषु न व्यवस्था स्यात् / मिमांसा-,.२४ /

शब्दे प्रयत्ननिष्पत्तेर् अपराधस्य भागित्वम् / मिमांसा-,.२५ /

अन्यायश् चानेकशब्दत्त्वम् / मिमांसा-,.२६ /

तत्र तत्त्वम् अभियोगविशेषात् स्यात् / मिमांसा-,.२७ /

तदशक्तिश् चानुरूपत्वात् / मिमांसा-,.२८ /

एक देशत्वाच् च विभाक्तिव्यत्यये स्यात् / मिमांसा-,.२९ /

प्रयोगचोदनाभावाद् अर्थैकत्वम् अविभागात् / मिमांसा-,.३० /

अद्रव्यशब्दत्वात् / मिमांसा-,.३१ /

अन्यदर्शनाच् च / मिमांसा-,.३२ /

आकृतिस् तु क्रियार्थत्वात् / मिमांसा-,.३३ /

न क्रिया स्याद् इति चेदर्थान्तरे विधानं न द्रव्यम् इति चेत् / मिमांसा-,.३४ /

तदर्थत्वात् प्रयोगस्याविभागः / मिमांसा-,.३५ /



उक्तं समाम्नायैदम् अर्थ्यं तस्मात् सर्वं तदर्थं स्यात् / मिमांसा-,./

अपि वा नामधेयं स्याद् यदुत्पत्तावपूर्वम् अविधायकत्वात् / मिमांसा-,./

यस्मिन् गुणोपदेशः प्रधानतो ऽभिसम्बन्धः / मिमांसा-,./

तत्प्रख्यञ् चान्यशास्त्रम् / मिमांसा-,./

तद्व्यपदेशं च / मिमांसा-,./

नामधेये गुणश्रुतेः स्याद् विधानम् इति चेत् / मिमांसा-,./

तुल्यत्वात् क्रिययोर् न / मिमांसा-,./

ऐकशब्द्ये परार्थवत् / मिमांसा-,./

तद्गुणास् तु विधायेर् अन्नविभागाद् विधानार्थे न चेद् अन्येन शिष्टाः / मिमांसा-,./

बर्हिराज्ययोर् असंस्कारे शब्दलाभाद् अतच्छब्दः / मिमांसा-,.१० /

प्रोक्षणीष्व् अर्थसंयोगात् / मिमांसा-,.११ /

तथानिर्मन्थ्ये / मिमांसा-,.१२ /

वैश्वदेवे विकल्प इति चेत् / मिमांसा-,.१३ /

न वा प्रकरणात् प्रत्यक्षविधानाच् च न हि प्रकरणं द्रव्यस्य / मिमांसा-,.१४ /

मिथश् चानर्थसम्बन्धः / मिमांसा-,.१५ /

परार्थत्वाद् गुणानाम् / मिमांसा-,.१६ /

पूर्ववन्तो ऽविधानार्थास् तत्सामर्थ्यं समाम्नाये / मिमांसा-,.१७ /

गुणस्य तु विधानार्थे तद्गुणाः प्रयोगे स्युर् अनर्थका न हि तं प्रत्यर्थवत्तास्ति / मिमांसा-,.१८ /

तच्छेषो नोपपद्यते / मिमांसा-,.१९ /

अविभागाद् विधानार्थे स्तुत्यर्थेनोपपद्येरन् / मिमांसा-,.२० /

कारणं स्याद् इति चेत् / मिमांसा-,.२१ /

आनर्थक्याद् अकारणं कर्तुर् हि कारणानि गुणार्थो हि विधीयते / मिमांसा-,.२२ /

तत्सिद्धिः / मिमांसा-,.२३ /

जातिः / मिमांसा-,.२४ /

सारूप्यात् / मिमांसा-,.२५ /

प्रशंसा / मिमांसा-,.२६ /

भूमा / मिमांसा-,.२७ /

लिङ्गसमवायात् / मिमांसा-,.२८ /

सन्दिग्धेषु वाक्यशेषात् / मिमांसा-,.२९ /

अर्थाद् वा कल्पनैकदेशत्वात् / मिमांसा-,.३० /



भावार्थाः कर्मशब्दास् तेभ्यः क्रिया प्रतीयेतैष ह्य् अर्थो विधीयते / मिमांसा-,./

सर्वेषां भावो ऽर्थ इति चेत् / मिमांसा-,./

येषाम् उत्पत्तौ स्वे प्रयोगे रूपोपलब्धिस् तानि नामानि तस्मात् तेभ्यः पराकाङ्क्षा भूतत्वात् स्वे प्रयोगै / मिमांसा-,./

येषां तूत्पत्ताव् अर्थे स्वे प्रयोगो न विद्यते तान्य् आख्यातानि तस्मात् तेभ्यः प्रतीयेताश्रितत्वात् प्रयोगस्य / मिमांसा-,./

चोदना पुनर् आरम्भः / मिमांसा-,./

तानि द्वैधं गुणप्रधानभूतानि / मिमांसा-,./

यैर् द्रव्यं न चिकीर्ष्यते तानि प्रधानभूतानि द्रव्यस्य गुणभूतत्वात् / मिमांसा-,./

यैस् तु द्रव्यं चिकीर्ष्यते गुणस् तत्र प्रतीयेत तस्य द्रव्यप्रधानत्वात् / मिमांसा-,./

धर्ममात्रे तु कर्म स्याद् अनिर्वृत्तेः प्रयाजवत् / मिमांसा-,./

तुल्यश्रुतित्वाद् वेतरैः सधर्मः स्यात् / मिमांसा-,.१० /

द्रव्योपदेश इति चेत् / मिमांसा-,.११ /

न तदर्थत्वाल् लोकवत् तस्य च शेषभूतत्वात् / मिमांसा-,.१२ /

स्तुतशस्त्रयोस् तु संस्कारो याज्यावद् देवताभिधानत्वात् / मिमांसा-,.१३ /

अर्थेन त्व् अपकृष्येत देवतानाम् अचोदनार्थस्य गुणभूतत्वात् / मिमांसा-,.१४ /

वशावद् वा गुणार्थं स्यात् / मिमांसा-,.१५ /

न श्रुतिसमवायित्वात् / मिमांसा-,.१६ /

व्यपदेशभेदाच् च / मिमांसा-,.१७ /

गुणश् चानर्थकः स्यात् / मिमांसा-,.१८ /

तथा याज्यापुरोरुचोः / मिमांसा-,.१९ /

वशायाम् अर्थसमवायात् / मिमांसा-,.२० /

यच् चेति वार्थवत्त्वात् स्यात् / मिमांसा-,.२१ /

न त्वाम्नातेषु / मिमांसा-,.२२ /

दृश्यते / मिमांसा-,.२३ /

अपि वा श्रुतिसंयोगात् प्रकरणे स्तौतिशंसती क्रियोत्पात्तिं विदध्याताम् / मिमांसा-,.२४ /

शब्दपृथक्त्वाच् च / मिमांसा-,.२५ /

अनर्थकं च तद्वचनम् / मिमांसा-,.२६ /

अन्यश् चार्थः प्रतीयते / मिमांसा-,.२७ /

अभिधानं च कर्मवत् / मिमांसा-,.२८ /

फलनिर्वृत्तिश् च / मिमांसा-,.२९ /

विधिमन्त्रयोर् ऐकार्थ्यम् ऐकशब्द्यात् / मिमांसा-,.३० /

अपि वा प्रयोगसामर्थ्यान् मन्त्रो ऽभिधानवाची स्यात् / मिमांसा-,.३१ /

तच्चोदकेषु मन्त्राख्या / मिमांसा-,.३२ /

शेषे ब्राह्मणशब्दः / मिमांसा-,.३३ /

अनाम्नातेष्व् अमन्त्रत्वमाम्नातेषु हि विभागः / मिमांसा-,.३४ /

तेषाम् ऋग्यत्रार्थवशेन पादव्यवस्था / मिमांसा-,.३५ /

गीतिषु स माख्या / मिमांसा-,.३६ /

शेषे यजुः शब्दाः / मिमांसा-,.३७ /

निगदो वा चतुर्थं स्याद् धर्मविशेषात् / मिमांसा-,.३८ /

व्यपदेशाच् च / मिमांसा-,.३९ /

यजूंषि वा तद्रूपत्वात् / मिमांसा-,.४० /

वचनाद् धर्मविशेषः / मिमांसा-,.४१ /

अर्थाच् च / मिमांसा-,.४२ /

गुणार्थो व्यपदेशः / मिमांसा-,.४३ /

सर्वेषाम् इति चेत् / मिमांसा-,.४४ /

, ऋग्व्यपदेशात् / मिमांसा-,.४५ /

अर्थैकत्वाद् एकं वाक्यं साकाङ्क्षं चेद् विभागे स्यात् / मिमांसा-,.४६ /

समेषु वाक्यभेदः स्यात् / मिमांसा-,.४७ /

अनुषङ्गो वाक्यसमाप्तिः सर्वेषु तुल्ययोगित्वात् / मिमांसा-,.४८ /

व्यवायान् नानुषज्येत / मिमांसा-,.४९ /



शब्दान्तरे कर्मभेदः कृतानुबन्धत्वात् / मिमांसा-,./

एकस्यैवं पुनः श्रुतिर् अविशेषाद् अनर्थकं हि स्यात् / मिमांसा-,./

प्रकरणं तु पौर्णमास्यां रूपावचनात् / मिमांसा-,./

विशेषदर्शनाच् च सर्वेषां समेषु ह्य् अप्रवृत्तिः स्यात् / मिमांसा-,./

गुणस् तु श्रुतिसंयोगात् / मिमांसा-,./

चोदना वा गुणानां युगपच्छास्त्राच् चोदिते हि तदर्थत्वात् तस्यतस्योपदिश्येत / मिमांसा-,./

व्यपदेशश् च तद्वत् / मिमांसा-,./

लिङ्गदर्शनाच् च / मिमांसा-,./

पौर्णमासीवद् उपांशुयाजः स्यात् / मिमांसा-,./

चोदना वाप्रकृतत्वात् / मिमांसा-,.१० /

गुणोपबन्धात् / मिमांसा-,.११ /

प्राये वचनाच् च / मिमांसा-,.१२ /

आघाराग्निहोत्रम् अरूपत्वात् / मिमांसा-,.१३ /

संज्ञोपबन्धात् / मिमांसा-,.१४ /

अप्रकृतत्वाच् च / मिमांसा-,.१५ /

चोदना वा शब्दार्थस्य प्रयोगभूतत्वात् तत्सन्निधेर् गुणार्थेन पुनः श्रुतिः / मिमांसा-,.१६ /

द्रव्यसंयोगाच् चोदना पशुसोमयोः प्रकरणे ह्य् अनर्थको द्रव्यसंयोगो न हि तस्य गुणार्थेन / मिमांसा-,.१७ /

अचोदकाश् च संस्काराः / मिमांसा-,.१८ /

तद्भेदात् कर्मणो ऽभ्यासो द्रव्यपृथक्त्वाद् अनर्थकं हि स्याद् भेदो द्रव्यगुणीभावात् / मिमांसा-,.१९ /

संस्कारस् तु न भिद्येत परार्थत्वाद् द्रव्यस्य गुणभूतत्वात् / मिमांसा-,.२० /

पृथक्त्त्वनिवेशात् संख्यया कर्मभेदः स्यात् / मिमांसा-,.२१ /

संज्ञा चोत्पत्तिसंयोगात् / मिमांसा-,.२२ /

गुणाश् चापूर्वसंयोगे वाक्योः समत्त्वात् / मिमांसा-,.२३ /

अगुणे तु कर्मशब्दे गुणस् तत्र प्रतीयेत / मिमांसा-,.२४ /

फलश्रुतेस् तु कर्म स्यात् फलस्य कर्मयोगित्वात् / मिमांसा-,.२५ /

अतुल्यत्वात् तु वाक्ययोर् गुणे तस्य प्रतीयेत / मिमांसा-,.२६ /

समेषु कर्मयुक्तं स्यात् / मिमांसा-,.२७ /

सौभरे पुरुषश्रुतेर् निधनं कामसंयोगः / मिमांसा-,.२८ /

सर्वस्य वोक्तकामत्वात् तस्मिन् कामश्रुतिः स्यान् निधनार्था पुनः श्रुतिः / मिमांसा-,.२९ /



गुणस् तु क्रतुसंयोगात् कर्मान्तरं प्रयोजयेत् संयोगस्याशेषभूत्वात् / मिमांसा-,./

एकस्य तु लिङ्गभेदात् प्रयोजनार्थम् उच्येतैकत्वं गुणवाक्यत्वात् / मिमांसा-,./

अवेष्टौ यज्ञसंयोगात्क्रतुप्रधानमुच्यते / मिमांसा-,./

आधाने सर्वशेषत्वात् / मिमांसा-,./

अयनेषु चोदनान्तरं संज्ञोपबन्धात् / मिमांसा-,./

अगुणाच् च कर्मचोदना / मिमांसा-,./

समाप्तं च फले वाक्यम् / मिमांसा-,./

विकारो वा प्रकरणात् / मिमांसा-,./

लिङ्गदर्शनाच् च / मिमांसा-,./

गुणात् संज्ञोपबन्धः / मिमांसा-,.१० /

समाप्तिर् अविशिष्टा / मिमांसा-,.११ /

संस्कारश् चाप्रकरणे ऽकर्मशब्दत्वात् / मिमांसा-,.१२ /

यावद् उक्तं वा कर्मणः श्रुतिमूलत्वात् / मिमांसा-,.१३ /

यजतिस् तु द्रव्यफलभोक्तृसंयोगाद् एतेषां कर्मसम्बन्धात् / मिमांसा-,.१४ /

लिङ्गदर्शनाच् च / मिमांसा-,.१५ /

विषये प्रायदर्शनात् / मिमांसा-,.१६ /

अर्थवादोपपत्तेश् च / मिमांसा-,.१७ /

संयुक्तस् त्व् अर्थशब्देन तदर्थः श्रुतिसंयोगात् / मिमांसा-,.१८ /

पात्नीवते तु पूर्वत्वाद् अवच्छेदः / मिमांसा-,.१९ /

अद्रव्यत्वात् कवेले कर्मशेषः स्यात् / मिमांसा-,.२० /

अग्निस् तु लिङ्गदर्शनात् क्रतुशब्दः प्रतीयेत / मिमांसा-,.२१ /

द्रव्यं वा स्याच् चोदनायास् तदर्थत्वात् / मिमांसा-,.२२ /

तत्संयोगात् क्रतुस् तदाख्यः स्यात् तेन धर्मविधानानि / मिमांसा-,.२३ /

प्रकरणान्तरे प्रयोजनान्यत्वम् / मिमांसा-,.२४ /

फलं चाकर्मसंनिधौ / मिमांसा-,.२५ /

संनिधौ त्व् अविभागात् फलार्थेन पुनः श्रुतिः / मिमांसा-,.२६ /

आग्नेयसूक्तहेतुत्वाद् अभ्यासेन प्रतीयेत / मिमांसा-,.२७ /

अविभागात् तु कर्मणां द्विरुक्तेर् न विधीयते / मिमांसा-,.२८ /

अन्यार्था वा पुनः श्रुतिः / मिमांसा-,.२९ /



यावज्जीविको ऽभ्यासः कर्मधर्मः प्रकरणात् / मिमांसा-,./

कर्तुर् वा श्रुतिसंयोगात् / मिमांसा-,./

लिङ्गदर्शनाच् च कर्मधर्मे हि प्रक्रमेण नियम्येत तत्रानर्थकम् अन्यत् स्यात् / मिमांसा-,./

व्यपवर्गं च दर्शयति कालश् चेत् कर्मभेदः स्यात् / मिमांसा-,./

अनित्यत्वात् तु नैवं स्यात् / मिमांसा-,./

विरोधश् चापि पूर्ववत् / मिमांसा-,./

कर्तुस् तु धर्मनियमात् कालशास्त्रं निमित्तं स्यात् / मिमांसा-,./

नामरूपधर्मविशेषपुनरुक्तिनिन्दाशाक्तिसमाप्तिवचनप्रायश्चित्तान्यार्थदर्शनाच् छाखान्तरेषु कर्मभेदः स्यात् / मिमांसा-,./

एकं वा संयोगरूपचोदनाख्याविशेषात् / मिमांसा-,./

न नाम्ना स्याद् अचोदनाभिधानत्वात् / मिमांसा-,.१० /

सर्वेषां चैककर्म्यं स्यात् / मिमांसा-,.११ /

कृतकं चाभिधानम् / मिमांसा-,.१२ /

एकत्वे ऽपि परम् / मिमांसा-,.१३ /

विद्यायां धर्मशास्त्रम् / मिमांसा-,.१४ /

अग्नेयवत्पुनर्वचनम् / मिमांसा-,.१५ /

अद्विर्वचनं वा श्रुतिसंयोगाविशेषात् / मिमांसा-,.१६ /

अर्थासन्निधेश् च / मिमांसा-,.१७ /

न चैकं प्रतिशिष्यते / मिमांसा-,.१८ /

समाप्तिवच् च संप्रेक्षा / मिमांसा-,.१९ /

एकत्वे ऽपि पराणि निन्दाशक्तिसमाप्तिवचनानि / मिमांसा-,.२० /

प्रायश्चित्तं निमित्तेन / मिमांसा-,.२१ /

प्रक्रमाद् वा नियोगेन / मिमांसा-,.२२ /

समाप्तिः पूर्ववत्त्वाद्यथाज्ञाते प्रतीयेत / मिमांसा-,.२३ /

लिङ्गमविशिष्टं सर्वशेषत्वान् न हि तत्र कर्मचोदना तस्मात् द्वादशाहस्याहारव्यपदेशः स्यात् / मिमांसा-,.२४ /

द्रव्ये चाचोदितत्वाद् विधीनाम् अव्यवस्था स्यान् निर्देशाद् व्यतिष्ठेत तस्मान् नित्यानुवादः स्यात् / मिमांसा-,.२५ /

विहितप्रतिषेधात् पक्षे ऽतिरेकः स्यात् / मिमांसा-,.२६ /

सारस्वते विप्रतिषेधाद्यदेति स्यात् / मिमांसा-,.२७ /

उपहव्ये ऽप्रतिप्रसवः / मिमांसा-,.२८ /

गुणार्था वा पुनः श्रुतिः / मिमांसा-,.२९ /

प्रत्ययं चापि दर्शयति / मिमांसा-,.३० /

अपि वा क्रमसंयोगाद् विधिपृथक्त्वम् एकस्यां व्यवतिष्ठेत / मिमांसा-,.३१ /

विरोधिना त्व् असंयोगाद् ऐककर्म्ये तत्संयोगाद् विधीनां सर्वकर्मप्रत्ययः स्यात् / मिमांसा-,.३२ /



अथातः शेषलक्षणम् / मिमांसा-,./

शेषः परार्थत्वात् / मिमांसा-,./

द्रव्यगुणसंस्कारेषु बादरिः / मिमांसा-,./

कर्माण्यपि जैमिनिः फलार्थत्वात् / मिमांसा-,./

फलं च पुरुषार्थत्वात् / मिमांसा-,./

पुरुषश् च कर्मार्थत्वात् / मिमांसा-,./

तेषाम् अर्थेन सबन्धः / मिमांसा-,./

विहितस् तु सर्वधर्मः स्यात् संयोगतो ऽविशेषात् प्रकरणाविशेषाच् च / मिमांसा-,./

अर्थलोपाद् अकर्मे स्यात् / मिमांसा-,./

फलं तु सह चेष्टया शब्दार्थो ऽभावाद् विप्रयोगे स्यात् / मिमांसा-,.१० /

द्रव्यं चोत्पत्तिसंयोगात् तद् अर्थम् एव चोद्येत / मिमांसा-,.११ /

अर्थैकत्वे द्रव्यगुणयोर् ऐककर्म्यान् नियमः स्यात् / मिमांसा-,.१२ /

एकत्वयुक्तम् एकस्य श्रुतिसंयोगात् / मिमांसा-,.१३ /

सर्वेषां वा लक्षणत्वाद् अविशिष्टं हि लक्षणम् / मिमांसा-,.१४ /

चोदितेतुपरार्थत्वाद् यथाश्रुति प्रतीयेता / मिमांसा-,.१५ /

संस्काराद् वागुणानाम् अव्यवस्था स्यात् / मिमांसा-,.१६ /

व्यवस्थावार्थस्य श्रुतिसंयोगात् तस्य शब्द प्रमाणत्वात् / मिमांसा-,.१७ /

आनर्थक्यात्तदङ्गेषु / मिमांसा-,.१८ /

कर्तृगुणे तु कर्मासमवायाद् वाक्यभेदः स्यात् / मिमांसा-,.१९ /

साकाङ्क्षं त्व् एकवाक्यं स्याद् असमाप्तं हि पूर्वेण / मिमांसा-,.२० /

सन्दिग्धे तुब्यवायाद् वाक्यभेदः स्यात् / मिमांसा-,.२१ /

गुणानां च परार्थत्त्वाद् असम्बन्धः समत्वात् स्यात् / मिमांसा-,.२२ /

मिथश् चानर्थसम्वन्धात् / मिमांसा-,.२३ /

आनन्तर्यम् अचोदना / मिमांसा-,.२४ /

बाक्यानां च समाप्तत्वात् / मिमांसा-,.२५ /

शेषस् तु गुणसंयुक्तः साधारणः प्रतीयेत मिथस् तेषाम् असम्बन्धात् / मिमांसा-,.२६ /

व्यवस्था वार्थसंयोगाल् लिङ्गस्यार्थेन सम्बन्धाल्लक्षणार्था गुणश्रुतिः / मिमांसा-,.२७ /



अर्थाभिधानसामर्थ्यान् मन्त्रेषु शेषभावः स्यात् तस्माद् उत्पत्तिसम्बन्धो ऽर्थेन नित्यसंयोगात् / मिमांसा-,./

संस्कारकत्वाद् अचोदितेन स्यात् / मिमांसा-,./

वचनात् त्व् अयथार्थम् ऐन्द्री स्यात् / मिमांसा-,./

गुणाद् वाप्य् अभिधानं स्यात् सम्बन्धस्याशास्त्रहेतुत्वात् / मिमांसा-,./

तथाहवानम् अपीति चेत् / मिमांसा-,./

नकालविधिश् चोदितत्वात् / मिमांसा-,./

गुणाभावात् / मिमांसा-,./

लिङ्गाच् च / मिमांसा-,./

विधिकोपश् चोपदेशे स्यात् / मिमांसा-,./

तथोत्थानविसर्जने / मिमांसा-,.१० /

सूक्तवाके च कालविधिः परार्थत्वात् / मिमांसा-,.११ /

उपदेशो वा याज्याशब्दो हि नाकस्मात् / मिमांसा-,.१२ /

सदेवतार्थस् तत्संयोगात् / मिमांसा-,.१३ /

प्रतिपत्तिर् इति चेत् स्विष्टकृद्वदुभयसंस्कारः स्यात् / मिमांसा-,.१४ /

कृत्स्नोपदेशाद् उभयत्र सर्ववचनम् / मिमांसा-,.१५ /

यथार्थं वा शेषभूतसंस्कारात् / मिमांसा-,.१६ /

वचनाद् इति चेत् / मिमांसा-,.१७ /

प्रकरणाविभागाद् उभे प्रति कृत्स्नशब्दः / मिमांसा-,.१८ /

लिङ्गक्रमसमाख्यानात् काम्ययुक्तं समामनानम् / मिमांसा-,.१९ /

अधिकारे च मन्त्रविधिर् अतदाख्येषु शिष्टत्वात् / मिमांसा-,.२० /

तदाख्यो वा प्रकरणोपपत्तिभ्याम् / मिमांसा-,.२१ /

अनर्थकश् चोपदेशः स्याद् असम्बन्धात् फलवता न ह्य् उपस्थानं फलवत् / मिमांसा-,.२२ /

सर्वेषां चोपदिष्टत्वात् / मिमांसा-,.२३ /

लिङ्गसमाख्यानाभ्यां भक्षार्थतानुवाकस्य / मिमांसा-,.२४ /

तस्य रूपोपदेशाभ्याम् अपकर्षो ऽर्थस्य चोदितत्वात् / मिमांसा-,.२५ /

गुणाभिधानान् मन्द्रादिर् एकमन्त्रः स्यात् तयोर् एकार्थसंयोगात् / मिमांसा-,.२६ /

लिङ्गविशेषनिर्देशात् समानविधानेष्व् अनैन्द्राणाम् अमन्त्रत्वम् / मिमांसा-,.२७ /

यथादेवतं वा तत्प्रकृतित्वं हि दर्शयति / मिमांसा-,.२८ /

पुनरभ्युन्नीतेषु सर्वेषाम् उपलक्षणं द्विशेषत्वात् / मिमांसा-,.२९ /

अनयाद् वा पूर्वस्यानुपलक्षणम् / मिमांसा-,.३० /

ग्रहणाद् वापनयः स्यात् / मिमांसा-,.३१ /

पात्नीवते तु पूर्ववत् / मिमांसा-,.३२ /

ग्रहणाद् वापनीतं स्यात् / मिमांसा-,.३३ /

त्वष्टारं तूपलक्षयेत् पानात् / मिमांसा-,.३४ /

अतुल्यत्वात् तु नैवं स्यात् / मिमांसा-,.३५ /

त्रिंशच् च परार्थत्वात् / मिमांसा-,.३६ /

वषट्कारश् च कर्तृवत् / मिमांसा-,.३७ /

छन्दः प्रतिषेधस् तु सर्वगामित्वात् / मिमांसा-,.३८ /

ऐन्द्राग्ने तु लिङ्गभाबात् स्यात् / मिमांसा-,.३९ /

एकस्मिन् वा देवतान्तराद् विभागवत् / मिमांसा-,.४० /

छन्दश् च देवतावत् / मिमांसा-,.४१ /

सर्वेषु वाभावाद् एकच्छन्दसः / मिमांसा-,.४२ /

सर्वेषां वैकमन्त्र्यम् ऐतिशायनस्य भक्तिपानत्वात् सवनाधिकारो हि / मिमांसा-,.४३ /



श्रुतेर् जाताधिकारः स्यात् / मिमांसा-,./

वेदो वा प्रायदर्शनात् / मिमांसा-,./

लिङ्गाच् च / मिमांसा-,./

धर्मोपदेशाच् च न हि द्रव्येण सम्बन्धः / मिमांसा-,./

त्रयीविद्याख्या च तद्विद् धि / मिमांसा-,./

व्यक्तिक्रमे यथाश्रुतीति चेत् / मिमांसा-,./

न सर्वस्मिन् निवेशात् / मिमांसा-,./

वेदसंयोगान् न प्रकरणेन बाध्यते / मिमांसा-,./

गुणमुख्यव्यतिक्रमे तदर्थत्वान् मुख्येन वेदसंयोगः / मिमांसा-,./

भूयस्त्वेनोभयश्रुति / मिमांसा-,.१० /

असंयुक्तं प्रकरणाद् इति कर्तव्यतार्थित्वात् / मिमांसा-,.११ /

क्रमश् च देशसामान्यात् / मिमांसा-,.१२ /

आख्या चैवम तदर्थत्वात् / मिमांसा-,.१३ /

श्रुति-लिङ्ग-वाक्य-प्रकरण-स्थान-समाख्यानां समवाये पारदौर्बल्यम् अर्थविप्रकर्षात् / मिमांसा-,.१४ /

अहीनो वा प्रकरणाद् गौणः / मिमांसा-,.१५ /

असंयोगात् तु मुख्यस्य तस्माद् अपकृष्येत / मिमांसा-,.१६ /

द्वित्वबहुत्वयुक्तं वा चोदनात् तस्य / मिमांसा-,.१७ /

पक्षेणार्थकृतस्येति चेत् / मिमांसा-,.१८ /

नकृतेर् एकसंयोगात् / मिमांसा-,.१९ /

जाघनी चैकदेशत्वात् / मिमांसा-,.२० /

चोदना वापूर्वत्वात् / मिमांसा-,.२१ /

एकदेश इति चेत् / मिमांसा-,.२२ /

न प्रकृतेर् अशास्त्रनिष्पत्तेः / मिमांसा-,.२३ /

सन्तर्दनं प्रकृतौ क्रयणवदनर्थलोपात् स्यात् / मिमांसा-,.२४ /

उत्कर्षो वा ग्रहणाद् विशेषस्य / मिमांसा-,.२५ /

कर्तृतो वा विशेषस्य तन्निमित्तत्वात् / मिमांसा-,.२६ /

क्रतुतो वार्थवादान् उपपत्तेः स्यात् / मिमांसा-,.२७ /

संस्थाश् च कर्तृवद् धारणार्थाविशेषात् / मिमांसा-,.२८ /

उक्थ्यादिषु वार्थस्य विद्यमानत्वात् / मिमांसा-,.२९ /

अविशेषात् स्तुतिर् व्यर्थेति चेत् / मिमांसा-,.३० /

स्याद् अनित्यत्वात् / मिमांसा-,.३१ /

सङ्ख्यायुक्तं क्रतोः प्रकरणात् स्यात् / मिमांसा-,.३२ /

नैमित्तिकं वा कर्तृसंयोगाल् लिङ्गस्य तन्निमित्तत्वात् / मिमांसा-,.३३ /

पौष्णं पैषणं विकृतौ प्रतीयेताचोदनात् प्रकृतौ / मिमांसा-,.३४ /

तत्सर्वार्थम् अविशेषात् / मिमांसा-,.३५ /

चरौवार्थोक्तं पुरोडाशे ऽर्थविप्रतिषेधात् पशौ न स्यात् / मिमांसा-,.३६ /

चराव् अपीति चेत् / मिमांसा-,.३७ /

न पक्तिनामत्वात् / मिमांसा-,.३८ /

एकस्मिन्न् एकसंयोगात् / मिमांसा-,.३९ /

धर्माविप्रतिषेधाच् च / मिमांसा-,.४० /

अपि वा सद्वितीये स्याद् देवतानिमित्तत्वात / मिमांसा-,.४१ /

लिङ्गदर्शनाच् च / मिमांसा-,.४२ /

वचनात् सर्वपेषणं तं प्रति शास्त्रवत्वाद् अर्थाभावाद् विचराव् अपेषणं भवति / मिमांसा-,.४३ /

एकस्मिन् वार्थधर्मत्वाद् ऐन्द्राग्नव् अदुभयोर् न स्याद् अचोदितत्वात् / मिमांसा-,.४४ /

हेतुमात्रम् अदन्तत्वम् / मिमांसा-,.४५ /

वचनं परम् / मिमांसा-,.४६ /



निवीताम् इति मनुष्यधर्मः शब्दस्य तत्प्रधानत्वात् / मिमांसा-,./

अपदेशो वार्थस्य विद्यमानतत्त्वात् / मिमांसा-,./

विधिस्तवर्पूर्वत्वात् स्यात् / मिमांसा-,./

स प्रायात् कर्मधर्मः स्यात् / मिमांसा-,./

वाक्यशेषत्वात् / मिमांसा-,./

तत्प्रकरणे यत् तत् संयुक्तम् अविप्रतिषेधात् / मिमांसा-,./

तत्प्रधाने वा तुल्यवत् प्रसंख्यानाद् इतरस्य तदर्थत्वात् / मिमांसा-,./

अर्थवादो वा प्रकरणात् / मिमांसा-,./

विधिना चैकवाक्यत्वात् / मिमांसा-,./

दिग्विभागश् च तद्वत् सम्बन्धस्यार्थहेतुत्वात् / मिमांसा-,.१० /

परुषि दितपूर्णघृतविदग्धं च तद्वत् / मिमांसा-,.११ /

अकर्म क्रतुसंयुक्तं संयोगान् नित्यानुवादः स्यात् / मिमांसा-,.१२ /

विधिर् वा संयोगान्तरात् / मिमांसा-,.१३ /

अहीनवत् पुरुषस् तदर्थत्वात् / मिमांसा-,.१४ /

प्रकरणविशेषाद् वा तद्युक्तस्य संस्कारो द्रव्यवत् / मिमांसा-,.१५ /

व्यपदेशाद् अपकृष्येत / मिमांसा-,.१६ /

शंयौ च सर्वपरिदानात् / मिमांसा-,.१७ /

प्रागपरोधान् मलवद् वाससः / मिमांसा-,.१८ /

अन्नप्रतिषेधाच् च / मिमांसा-,.१९ /

अप्रकरणे तु तद्वर्मस् ततो विशेषात् / मिमांसा-,.२० /

अद्रव्यत्वात् तु शेषः स्यात् / मिमांसा-,.२१ /

वेदसंयोगात् / मिमांसा-,.२२ /

द्रव्यसंयोगाच् च / मिमांसा-,.२३ /

स्याद् वास्य संयोगवत् फलेन सम्बन्धस् तस्मात् कर्मैतिशायनः / मिमांसा-,.२४ /

शेषाः प्रकरणे ऽविशेषात् सर्वकर्मणाम् / मिमांसा-,.२५ /

होमास् तु व्यवतिष्ठेर् अन्नाहवनीयसंयोगात् / मिमांसा-,.२६ /

शेषश् च समाख्यानात् / मिमांसा-,.२७ /

दोषात् त्व् इष्टिर् लौकिके स्याच् छास्त्राद् धि वैदिक न दोषः स्यात् / मिमांसा-,.२८ /

अर्थवादो वानुपपातत् तस्माद् यज्ञे प्रतीयेत / मिमांसा-,.२९ /

अचोदित च कर्मभेदात् / मिमांसा-,.३० /

लिङ्गाद् आर्त्विजे स्यात् / मिमांसा-,.३१ /

पानव्यापच् च तद्वत् / मिमांसा-,.३२ /

दोषात् तु वैदिके स्याद् अर्थाद् धि लौकिके न दोषः स्यात् / मिमांसा-,.३३ /

तत्सर्वत्राविशेषात् / मिमांसा-,.३४ /

स्वामिनो वा तदर्थत्वात् / मिमांसा-,.३५ /

लिङ्गदर्शनाच् च / मिमांसा-,.३६ /

सर्वप्रदानं हविषस् तदर्थत्वात् / मिमांसा-,.३७ /

निरवदानात् तु शेषः स्यात् / मिमांसा-,.३८ /

उपायो वा तदर्थत्वात् / मिमांसा-,.३९ /

कृतत्वात् तु कर्मणः सकृत् स्याद् द्रव्यस्य गुणभूतत्वात् / मिमांसा-,.४० /

शेषदर्शनाच् च / मिमांसा-,.४१ /

अप्रयोजकत्वाद् एकस्मात् क्रियेरञ् छेषस्य गुणभूतत्वात् / मिमांसा-,.४२ /

संस्कृतत्वाच् च / मिमांसा-,.४३ /

सर्वेभ्यो वा कारणाविशेषात् संस्कारस्य तदर्थत्वात् / मिमांसा-,.४४ /

लिङ्गदर्शनाच् च / मिमांसा-,.४५ /

एकस्माच् चेद् यथाकाम्यम् अविशेषात् / मिमांसा-,.४६ /

मुख्याद् वा पूर्वकालत्वात् / मिमांसा-,.४७ /

भक्षाश्रवणाद् दानशब्दः परिक्रये / मिमांसा-,.४८ /

तत्संस्तवाच् च / मिमांसा-,.४९ /

भक्षार्थो वा द्रव्ये समत्वात् / मिमांसा-,.५० /

व्यादेशाद् दानसंस्तुतिः / मिमांसा-,.५१ /



आज्याच् च सर्वसंयोगात् / मिमांसा-,./

कारणाच् च / मिमांसा-,./

एकस्मिन्त् समवत्तशब्दात् / मिमांसा-,./

आज्ये च दर्शनात्स्विष्टकृदर्थवदस्य / मिमांसा-,./

अशेषत्वात् तु नैवं स्यात् सर्वादानाद् अशेषता / मिमांसा-,./

साधारण्यान् न ध्रुवायां स्यात् / मिमांसा-,./

अवत्तत्वाच् च जुह्वां तस्य च होमसंयोगात् / मिमांसा-,./

चमसवद् इति चेत् / मिमांसा-,./

न चोदनाविरोधाद् धविः प्रकल्पनात्वाच् च / मिमांसा-,./

उत्पन्नाधिकारात् सति सर्ववचनम् / मिमांसा-,.१० /

जातिविशेषात् परम् / मिमांसा-,.११ /

अन्त्यम् अरेकार्थे / मिमांसा-,.१२ /

साकम्प्रस्थाय्ये स्विष्टकृद् इडं च तद्वत् / मिमांसा-,.१३ /

सौत्रामण्यां च ग्रहेषु / मिमांसा-,.१४ /

तद्वच् च शेषवचनम् / मिमांसा-,.१५ /

द्रव्यैकत्वे कर्मभेदात् प्रतिकर्म क्रियेरन् / मिमांसा-,.१६ /

अविभागाच् च शेषस्य सर्वान् प्रत्यविशिष्ठत्वात् / मिमांसा-,.१७ /

ऐन्द्रवायवे तु वचनात् प्रतिकर्म भक्षः स्यात् / मिमांसा-,.१८ /

सोमे ऽवचनाद् भक्षो न विद्यते / मिमांसा-,.१९ /

स्याद् वान्यार्थदर्शनात् / मिमांसा-,.२० /

वचनानि त्व् अपूर्वत्वात् तस्माद् यथोपदेशं स्युः / मिमांसा-,.२१ /

चमसेषु समाख्यानात् संयोगस्य तन्निमित्तत्त्वात् / मिमांसा-,.२२ /

उद्गातृचमसमेकः श्रुतिसंयोगात् / मिमांसा-,.२३ /

सर्वे वा सर्वसंयोगात् / मिमांसा-,.२४ /

स्तोत्रकारिणां वा तत्संयोगाद् बहुश्रुतेः / मिमांसा-,.२५ /

सर्वे तु वेदसंयोगात् कारणाद् एकदेशे स्यात् / मिमांसा-,.२६ /

ग्रावस्तुतो भक्षो न विद्यते ऽनाम्नानात् / मिमांसा-,.२७ /

हारियोजने वा सर्वसंयोगात् / मिमांसा-,.२८ /

चमसिनां वा सन्निधानात् / मिमांसा-,.२९ /

सर्वेषां तु विधित्वात् तदर्था चमसिश्रुतिः / मिमांसा-,.३० /

वषट्काराच् च भक्षयेत् / मिमांसा-,.३१ /

होमाभिषबाभ्यां च / मिमांसा-,.३२ /

प्रत्यक्षोपदेशाच् चमसानाम् अव्यक्तः शेषे / मिमांसा-,.३३ /

स्याद् वा कारणभावाद् अनिर्देशश् चमसानां कर्तुस् तद्वचनत्वात् / मिमांसा-,.३४ /

चमसे चान्यदर्शनात् / मिमांसा-,.३५ /

एकपात्रे क्रमाद् अध्वर्युः पूर्वो भक्षयेत् / मिमांसा-,.३६ /

होता वा मन्त्रवर्णात् / मिमांसा-,.३७ /

वचनाच् च / मिमांसा-,.३८ /

कारणानुपूर्व्याच् च / मिमांसा-,.३९ /

वचनाद् अनुज्ञातभक्षणम् / मिमांसा-,.४० /

तदुपहूत उपह्वयस्वेत्य् अनेनानुज्ञापयेलिङ्गात् / मिमांसा-,.४१ /

तत्रार्थात् प्रतिवचनम् / मिमांसा-,.४२ /

तदेकत्राणां समवायात् / मिमांसा-,.४३ /

याज्यापनयेनापनीतो भक्षः प्रवरवत् / मिमांसा-,.४४ /

यष्टुर् वा कारणागमात् / मिमांसा-,.४५ /

प्रवृत्तत्वात् प्रवरस्यानपायः / मिमांसा-,.४६ /

फलचमसो नैमित्तिको भक्षविकारः श्रुतिसंयोगात् / मिमांसा-,.४७ /

इज्याबिकारो वा संस्कारस्य तदर्थत्वात् / मिमांसा-,.४८ /

होमात् / मिमांसा-,.४९ /

चमसैश् च तुल्यकालत्वात् / मिमांसा-,.५० /

लिङ्गदर्शनाच् च / मिमांसा-,.५१ /

अनुप्रसर्पिषु सामान्यात् / मिमांसा-,.५२ /

ब्रह्मणा वा तुल्यशब्दत्वात् / मिमांसा-,.५३ /



तत् सर्वार्थम् अप्रकरणात् / मिमांसा-,./

प्रकृतौ वाद्विरुक्तत्वात् / मिमांसा-,./

तद्वर्जं तु वचनप्राप्ते / मिमांसा-,./

दर्शनाद् इति चेत् / मिमांसा-,./

न चोदनैकार्थ्यात् / मिमांसा-,./

उत्पत्तिर् इति चेत् / मिमांसा-,./

न तुल्यत्वात् / मिमांसा-,./

चोदनार्थकार्त्स्न्यात् तु मुख्यविप्रतिषेधात् प्रकृत्यर्थः / मिमांसा-,./

प्रकरणविशेषात् तु विकृतौ विरोधि स्यात् / मिमांसा-,./

नैमित्तिकं तु प्रकृतौ तद्विकारः संयोगविशेषात् / मिमांसा-,.१० /

इष्टयर्थमग्न्याधेयं प्रकरणात् / मिमांसा-,.११ /

न वा तासां तदर्थत्वात् / मिमांसा-,.१२ /

लिङ्गदर्शनाच् च / मिमांसा-,.१३ /

तत्प्रकृत्यर्थं यथान्ये ऽनारभ्यवादाः / मिमांसा-,.१४ /

सर्वार्थ वाग्न्यधानस्य स्वकालत्वात् / मिमांसा-,.१५ /

तासाम् अग्निः प्रकृतितः प्रयाजवत् स्यात् / मिमांसा-,.१६ /

न वा तासां तदर्थत्वात् / मिमांसा-,.१७ /

तुल्यः सर्वेषां पशुविधिः प्रकरणाविशेषात् / मिमांसा-,.१८ /

स्थानाच् च पूर्वस्य / मिमांसा-,.१९ /

श्वस् त्व् एकेषां तत्र प्राक्श्रुतिर् गुणार्था / मिमांसा-,.२० /

तेनोत्कृष्टस्य कालविधिर् इति चेत् / मिमांसा-,.२१ /

नैकदेशत्वात् / मिमांसा-,.२२ /

अर्थेनेति चेत् / मिमांसा-,.२३ /

न श्रुतिविप्रतिषेधात् / मिमांसा-,.२४ /

स्थानात् तु पूर्वस्य संस्कारस्य तदर्थत्वात् / मिमांसा-,.२५ /

लिङ्गदर्शनाच् च / मिमांसा-,.२६ /

अचोदना गुणार्थेन / मिमांसा-,.२७ /

दोहयोः कालभेदाद् असंयुक्तं शृतं स्यात् / मिमांसा-,.२८ /

प्रकरणविभागाद् वा तत्संयुक्तस्य कालशास्त्रम् / मिमांसा-,.२९ /

तद्वत् सवनान्तरे ग्रहाम्नानम् / मिमांसा-,.३० /

रशना च लिङ्गदर्शनात् / मिमांसा-,.३१ /

आराच् छिष्टम् असंयुक्तम् इतरैः सन्निधानात् / मिमांसा-,.३२ /

संयुक्तं वा तदर्थत्वाच् छेषस्य तन्निमित्तत्वात् / मिमांसा-,.३३ /

निर्देशाद् व्यवतिष्ठेत / मिमांसा-,.३४ /

अग्न्यङ्गम् अप्रकरणे तद्वत् / मिमांसा-,.३५ /

नैमित्तिकम् अतुल्यत्वाद् असमानविथानां स्यात् / मिमांसा-,.३६ /

प्रतिनिधिश् च मिमांसा-,.३७ /

तद्वत्प्रयोजनैकत्वात् / मिमांसा-,.३८ /

अशास्त्रलक्षणत्वाच्च / मिमांसा-,.३९ /

नियमार्था गुणश्रुतिः / मिमांसा-,.४० /

संस्थास् तु समानविधानाः प्रकरणाविशेषात् / मिमांसा-,.४१ /

व्यपदेशश् च तुल्यवत् / मिमांसा-,.४२ /

विकासस् तु कामसंयोगे नित्यस्य समत्वात् / मिमांसा-,.४३ /

अपि वा द्विरुक्तत्वात् प्रकृतेर् भविष्यन्तीति / मिमांसा-,.४४ /

बचनात् तु समुच्चयः / मिमांसा-,.४५ /

प्रतिषेधाच् च पूर्वलिङ्गनाम् / मिमांसा-,.४६ /

गुणविशेषाद् एकस्य व्यपदेशः / मिमांसा-,.४७ /



प्रकरणविशेषाद् असंयुक्तं प्रधानस्य / मिमांसा-,./

सर्वेषां वा शेषत्वस्यातत्प्रयुक्तत्वात् / मिमांसा-,./

आरादपीति चेत् / मिमांसा-,./

न तद्वाक्यं हि तदर्थत्वात् / मिमांसा-,./

लिङ्गदर्शनाच् च / मिमांसा-,./

फलसंयोगात् तु स्वामियुक्तं प्रधानस्य / मिमांसा-,./

चिकीर्षयो च संयोगात् / मिमांसा-,./

तथाभिधानेन / मिमांसा-,./

तद्युक्ते तु फलश्रुतिस् तस्मात् सर्वचिकीर्षा स्यात् / मिमांसा-,./

गुणाभिधानात् सर्वार्थम् अभिधानम् / मिमांसा-,.१० /

दीक्षादक्षिणं तु वचनात् प्रधानस्य / मिमांसा-,.११ /

निवृत्तिदर्शनाच्च / मिमांसा-,.१२ /

तथा यूपस्य वेदि / मिमांसा-,.१३ /

देशमात्रं वा शिष्टेनैकवाक्यत्वात् / मिमांसा-,.१४ /

सामधेनीस् तद् अन्वाहुर् इति हविर् द्धानयोर् वचनात् सामधेनीनाम् / मिमांसा-,.१५ /

देशमात्रं वा प्रत्यक्षं ह्य् अर्थकर्म सोमस्य / मिमांसा-,.२६ /

समाख्यानं च तद्वत् / मिमांसा-,.१७ /

शास्त्रफलं प्रयोक्तरि तल्लक्षणत्वात् तस्मात् स्वयं प्रयोगे स्यात् / मिमांसा-,.१८ /

उत्सर्गे तु प्रधानत्वाच् छेषकारी प्रधानस्य तस्माद् अन्यः स्वयं वा स्यात् / मिमांसा-,.१९ /

अन्यो वा स्यात् परिक्रयाम्नानाद् विप्रतिषेधात् प्रत्यग् आत्मनि / मिमांसा-,.२० /

तत्रार्थात् कर्तृपरिमाणं स्याद् अनियमो ऽविशेषात् / मिमांसा-,.२१ /

अपि वा श्रुति भेदात् प्रतिनामधेयं स्युः / मिमांसा-,.१२ /

एकस्य कर्मभेदाद् इति चेत् / मिमांसा-,.१३ /

नोत्पत्तौ हि / मिमांसा-,.१४ /

चमसाध्वर्यवश् च तैर् व्यपदेशात् / मिमांसा-,.१५ /

उत्पत्तौ तु बहुश्रुतेः / मिमांसा-,.१६ /

दशत्वं लिङ्गदर्शनात् / मिमांसा-,.१७ /

शमिता च शब्दभेदात् / मिमांसा-,.१८ /

प्रकरणाद् वोत्पत्त्यसंयोगात् / मिमांसा-,.२९ /

उपगाश् च लिङ्गदर्शनात् / मिमांसा-,.३० /

विक्रयी त्वन्यः कर्मणो ऽचोदित्वात् / मिमांसा-,.३१ /

कर्मकार्यात् सर्वेषाम् ऋत्विक्त्वम् अविशेषात् / मिमांसा-,.३२ /

न वा परिसंख्यानात् / मिमांसा-,.३३ /

पक्षेणेति चेत् / मिमांसा-,.३४ /

न सर्वेषाम् अधिकारः / मिमांसा-,.३५ /

नियमस् तु दक्षिणाभिः श्रुतिसंयोगात् / मिमांसा-,.३६ /

उक्त्वा च यजमानत्वं तेषां दीक्षाबिधानात् / मिमांसा-,.३७ /

स्वामिसप्तदशाः कर्मसामान्यात् / मिमांसा-,.३८ /

ते सर्वार्थाः प्रयुक्तत्वाद् अग्नयश् च स्वकालत्वात् / मिमांसा-,.३९ /

तत्सयोगात् कर्मणो व्यवस्था स्यात् संयोगास्यार्थवत्वात् / मिमांसा-,.४० /

तस्योपदेशसमाख्यानेन निर्देशः / मिमांसा-,.४१ /

तद्वच् च लिङ्गदर्शम् / मिमांसा-,.४२ /

प्रैषानुवचनं मैत्रावरुणस्योपदेशात् / मिमांसा-,.४३ /

पुरो ऽनुवाक्याधिकारो वा प्रैषसन्निधानात् / मिमांसा-,.४४ /

प्रातर् अनुवाके च होतृदर्शनात् / मिमांसा-,.४५ /

चमसांश्चमसाध्वर्यवः सामाख्यानात् / मिमांसा-,.४६ /

अध्वर्युर्वा तन्न्यायत्वात् / मिमांसा-,.४७ /

चमसे चान्यदर्शनात् / मिमांसा-,.४८ /

अशक्तौ ते प्रतीयेरन् / मिमांसा-,.४९ /

वेदोपदेशात् पूर्ववद्वेदान्यत्वे यथोपदेशं स्युः / मिमांसा-,.५० /

तद्गुणाद् वा स्वधर्मः स्याद् अधिकारसामथ्यात् सहाङ्गैर् अव्यक्तः शेषे / मिमांसा-,.५१ /



स्वामिकर्मपरिक्रयः कर्मणस् तदर्थत्वात् / मिमांसा-,./

वचनाद् इतरेषां स्यात् / मिमांसा-,./

संस्कारास् तु पुरुषसामर्थ्ये यथावेदं कर्मवद्व्यवतिष्ठेरन् / मिमांसा-,./

याजमानास् तु तत्प्रधानत्वात् कर्मवत् / मिमांसा-,./

व्यपदेशाच् च / मिमांसा-,./

गुणत्त्वे तस्य निर्देशः / मिमांसा-,./

चोदना प्रति भावाच् च / मिमांसा-,./

अतुल्यत्वाद् असमानविधानाः स्युः / मिमांसा-,./

तपश् च फलसिद्धित्वाल् लोकवत् / मिमांसा-,./

वाक्यशेषश् च तद्वत् / मिमांसा-,.१० /

वचनाद् इतरेषां स्यात् / मिमांसा-,.११ /

गुणत्वाच् च वेदेन न व्यवस्था स्यात् / मिमांसा-,.१२ /

तथा कामो ऽर्थसंयोगात् / मिमांसा-,.१३ /

व्यपदेशाद् इतरेषां स्यात् / मिमांसा-,.१४ /

मन्त्राश् चाकर्मकरणास् तद्वत् / मिमांसा-,.१५ /

विप्रयोगे च दर्शनात् / मिमांसा-,.१६ /

द्व्याम्नातेषूभौ द्व्याम्नानस्यार्थवत्त्वात् / मिमांसा-,.१७ /

ज्ञाते च वाचनं न ह्य् अविद्वान् विहितो ऽस्ति / मिमांसा-,.१८ /

याजमाने समाख्यानात् कर्माणि याजमानं स्युः / मिमांसा-,.१९ /

अध्वर्युर् वा तदर्थो हि न्यायपूर्वे समाख्यानम् / मिमांसा-,.२० /

विप्रतिषेधे करणः समावायविशेषाद् इतरम् अन्यस् तेषां यतो विशेषः स्यात् / मिमांसा-,.२१ /

प्रैषेणु च पराधिकारात् / मिमांसा-,.२२ /

अध्वर्युस् तु दर्शनात् / मिमांसा-,.२३ /

गौणो वा कर्मसामान्यात् / मिमांसा-,.२४ /

ऋत्विक् फलं करणेष्व् अर्थत्त्वात् / मिमांसा-,.२५ /

स्वामिनो वा तदर्थत्वात् / मिमांसा-,.२६ /

लिङ्गदर्शनाच् च / मिमांसा-,.२७ /

कर्मार्थ फलं तेषां स्वामिनं प्रत्यर्थवत्त्वात् / मिमांसा-,.२८ / व्यपदेशाच् च / मिमांसा-,.२९ /

द्रव्यसंस्कारः प्रकारणाविशेषात् सर्वकर्मणाम् / मिमांसा-,.३० /

निर्देशात् तु विकृताव् अपूर्वस्यानधिकारः / मिमांसा-,.३१ /

विरोधे च श्रुतिविशेषाद् अव्यक्तः शेषे / मिमांसा-,.३२ /

अपनयस् त्व् एकदेशस्य विद्यमानसंयोगात् / मिमांसा-,.३३ /

विकृतौ सर्वार्थः शेषः प्रकृतिवत् / मिमांसा-,.३४ /

मुख्यार्थो वाङ्गस्याचोदितत्वात् / मिमांसा-,.३५ /

सन्निधानाविशेषाद् असम्भवेद् अतदङ्गानाम् / मिमांसा-,.३६ /

आधाने ऽपि तथेति चेत् / मिमांसा-,.३७ /

नाप्रकरणत्वाद् अङ्गस्यातन्निमित्तत्वात् / मिमांसा-,.३८ /

तत्काले वा लिङ्गदर्शनात् / मिमांसा-,.३९ /

सर्वेषां वाविशेषात् / मिमांसा-,.४० /

न्यायोक्ते लिङ्गदर्शनम् / मिमांसा-,.४१ /

मांसं तु सवनीयानां चोदनाविशेषात् / मिमांसा-,.४२ /

भक्तिर् असन्निधावन्याय्येति चेत् / मिमांसा-,.४३ /

स्यात् प्रकृतिलिङ्गाद् वैराजवत् / मिमांसा-,.४४ /



अथातः क्रत्वर्थपुरुषार्थयोर् जिज्ञासा / मिमांसा-,./

यस्मिन् प्रीतिः पुरुषस्य तस्य लिप्सार्थलक्षणाविभक्तत्वात् / मिमांसा-,./

तदुत्सर्गे कर्माणि पुरुषार्थाय शास्त्रस्यानतिशङ्क्यत्वान् न च द्रव्यं चिकीर्ष्यते तेनार्थेनाभिसम्बन्धात् क्रियायां पुरुषश्रुतिः / मिमांसा-,./

अविशेषात् तु शास्त्रस्य यथाश्रुति फलानि स्युः / मिमांसा-,./

अपि वा कारणाग्रहणे तदर्थम् अर्थस्यानभिसम्बन्धात् / मिमांसा-,./

तथा च लोकभूतेषु / मिमांसा-,./

द्रव्याणि त्व् अविशेषेणानर्थक्यात् प्रदीयेरन् / मिमांसा-,./

स्वेन त्वर्थे न सम्बन्धो द्रव्याणां पृथगर्थत्वात् तस्माद् यथाश्रुति स्युः / मिमांसा-,./

चोद्यन्ते चार्थकर्मसु / मिमांसा-,./

लिङ्गदर्शनाच् च / मिमांसा-,.१० /

तत्रैकत्वमयज्ञाङ्गम् अर्थस्य गुणभूतत्वात् / मिमांसा-,.११ /

एकश्रुतित्वाच् च / मिमांसा-,.१२ /

प्रतीयते इति चेत् / मिमांसा-,.१३ /

नाशब्दं तत्प्रमाणत्वात् पूर्ववत् / मिमांसा-,.१४ /

शब्दवत् तूपलभ्यते तदागमे हि तद्दृश्यते तस्य ज्ञानं हि यथान्येषाम् / मिमांसा-,.१५ /

तद्वच् च लिङ्गदर्शनम् / मिमांसा-,.१६ /

तथा च लिङ्गम् / मिमांसा-,.१७ /

आश्रयिष्व् अविशेषेण भावो ऽर्थः प्रतीयेत / मिमांसा-,.१८ /

चोदनायां त्व् अनारम्भो ऽविभक्तत्वान् न ह्य् अन्येन विधीयते / मिमांसा-,.१९ /

स्याद् वा द्रव्यचिकीर्षायां भावो ऽर्थे च गुणभूतताश्रयाद् धि गुणीभावः / मिमांसा-,.२० /

अर्थे समवैषम्यतो द्रव्यकर्मणाम् / मिमांसा-,.२१ /

एकनिष्पत्तेः सर्वे समं स्यात् / मिमांसा-,.२२ /

संसर्गरसनिश्पत्तेरामिक्षा वा प्रधानं स्यात् / मिमांसा-,.२३ /

मुख्यशब्दाभिसंस्तवाच् च / मिमांसा-,.२४ /

पदकर्माप्रयोजकं नयनस्य परार्थत्वात् / मिमांसा-,.२५ /

अर्थाभिधानकर्म च भविष्यता संयोगस्य तन्निमित्तत्वात् तदर्थो हि विधीयते / मिमांसा-,.२६ /

पशाव् अनालम्भाल् लोहितशकृतोर् अकर्मत्वम् / मिमांसा-,.२७ /

एकदेशद्रव्यश् चोत्पत्तौ वद्यमानसंयोगात् / मिमांसा-,.२८ /

निर्देशात् तस्यान्यद् अर्थाद् इति चेत् / मिमांसा-,.२९ /

न शेषसन्निधानात् / मिमांसा-,.३० /

कर्मकार्यात् / मिमांसा-,.३१ /

लिङ्गदर्शनाच् च / मिमांसा-,.३२ /

अभिघारणे विप्रकर्षाद् अनूयाजवत् पात्रभेदः स्यात् / मिमांसा-,.३३ /

न वा पात्रत्वाद् अपात्रत्वं त्व् एकदेशत्वात् / मिमांसा-,.३४ /

हेतुत्वाच् च सहप्रयोगस्य / मिमांसा-,.३५ /

अभावदर्शनाच् च / मिमांसा-,.३६ /

सति सव्यवचनम् / मिमांसा-,.३७ /

न तस्येति चेत् / मिमांसा-,.३८ /

स्यात् तस्य मुख्यत्वात् / मिमांसा-,.३९ /

समानयनं तु मुख्यं स्याल् लिङ्गदर्शनात् / मिमांसा-,.४० /

वचने हि हेत्वसामर्थ्यम् / मिमांसा-,.४१ /

तत्रोत्पत्तिर् अविभक्ता स्यात् / मिमांसा-,.४२ /

तत्र जौहवम् अनूयाजप्रतिषेधार्थम् / मिमांसा-,.४३ /

औपभृतं तथेति चेत् / मिमांसा-,.४४ /

स्याज् जुहूप्रतिषेधान् नित्यानुवादः / मिमांसा-,.४५ /

तदष्टसङ्ख्यं श्रवणात् / मिमांसा-,.४६ /

अनुग्रहाच् च जौहवस्य / मिमांसा-,.४७ /

द्वयोस् तु हेतुसामर्थयं श्रवणं च समानयने / मिमांसा-,.४८ /



स्वरुस् त्व् अनेकनिष्पत्तिः स्वकर्मशब्दत्वात् / मिमांसा-,./

जात्यन्तराच् च शङ्कते / मिमांसा-,./

तदेकदेशो वा स्वरुत्वस्य तन्निमित्तत्वात् / मिमांसा-,./

शकलश्रुतेश् च / मिमांसा-,./

प्रतियूपं च दर्शनात् / मिमांसा-,./

आदाने करोतिशब्दः / मिमांसा-,./

शाखायां तत्प्रधानत्वात् / मिमांसा-,./

शाखायां तत्प्रधानत्वाद् उपवेषेण विभागः स्याद् वैषम्यं तत् / मिमांसा-,./

श्रुत्यपायाच् च / मिमांसा-,./

हरणे तु जुहोतिर् योगसामान्याद् द्रव्याणां चार्थशेषत्वात् / मिमांसा-,.१० /

प्रतिपत्तिर् वा शब्दस्य तत्प्रधानत्वात् / मिमांसा-,.११ /

अर्थे ऽपि चेत् / मिमांसा-,.१२ /

न तस्यानधिकाराद् अर्थस्य च कृतत्वात् / मिमांसा-,.१३ /

उत्पत्त्यसंयोगात् प्रणीतानाम् आज्यवद् विभागः स्यात् / मिमांसा-,.१४ /

संयवनार्थानां वा प्रतिपत्तिर् इतरासां तत्प्रधानत्वात् / मिमांसा-,.१५ /

प्रासनवन् मैत्रावरुणस्य दण्डप्रदानं कृतार्थत्वात् / मिमांसा-,.१६ /

अर्थकर्म वा कर्तृसंयोगात् स्रग्वत् / मिमांसा-,.१७ /

कर्मयुक्ते च दर्शनात् / मिमांसा-,.१८ /

उत्पत्तौ येन संयुक्तं तदर्थं तच्छ्रुतिहेतुत्वात् तस्यार्थान्तरगमने शेषत्वात् प्रतिपत्तिः स्यात् / मिमांसा-,.१९ /

सौमिके च कृतार्थत्वात् / मिमांसा-,.२० /

अर्थकर्म वाभिधानसंयोगात् / मिमांसा-,.२१ /

प्रतिपत्तिर् वा तन्न्यायत्वाद् देशार्थावभृथश्रुतिः / मिमांसा-,.२२ /

कर्तृदेशकालानाम् अचोदनं प्रयोगे नित्यसमवायात् / मिमांसा-,.२३ /

नियमार्था वा श्रुतिः / मिमांसा-,.२४ /

तथा द्रव्येषु गुणश्रुतिर् उत्पत्तिसंयोगात् / मिमांसा-,.१५ /

संस्कारे च तत्प्रधानत्वात् / मिमांसा-,.२६ /

यजति चोदनाद्रव्यदेवताक्रियं समुदाये कृतार्थत्वात् / मिमांसा-,.२७ /

तदुक्ते श्रवणाज् जुहोतिर् आसेचनाधिकः स्यात् / मिमांसा-,.२८ /

विधेः कर्मापवर्गित्वाद् अर्थान्तरे विधिप्रदेशः स्यात् / मिमांसा-,.२९ /

अपि वोत्पत्तिसंयोगाद् अर्थसम्बन्धो ऽविशिष्टानां प्रयोगैकत्वहेतुः स्यात् / मिमांसा-,.३० /

द्रव्यसंस्कारकर्मसु परार्थत्वात् फलश्रुतिर् अर्थवादः स्यात् / मिमांसा-,.३१ /

उत्पत्तेश् चातत्प्रधानत्वात् / मिमांसा-,./

फलं तु तत्प्रधानायाम् / मिमांसा-,./

नैमित्तिके विकारत्वात् क्रतुप्रधानम् अन्यत् स्यात् / मिमांसा-,./

एकस्य तूभयत्वे संयोगपृथक्त्वम् / मिमांसा-,./

शेष इति चेत् / मिमांसा-,./

नार्थपृथक्त्वात् / मिमांसा-,./

द्रव्याणान्तु क्रियार्थानां संस्कारः क्रतुधर्मस्यात् / मिमांसा-,./

पृथक्त्वाद्व्यवतिष्ठेत / मिमांसा-,./

चोदनायां फलाश्रुतेः कर्ममात्रं विधीयेत न ह्य् अशब्दं प्रतीयते / मिमांसा-,.१० /

अपि वाम्नानसामथर्थ्याच् चोदनार्थेन गम्येतार्थानां ह्य् अर्थत्वेन वचनानि प्रतीयन्ते ऽर्थतोप्य् असमर्थानाम् आनन्तर्ये ऽप्य् असम्बन्धस् तस्माच् छ्रुत्येकदेशः सः / मिमांसा-,.११ /

वाक्यार्थश् च गुणार्थवत् / मिमांसा-,.१२ /

तत्सर्वार्थम् अनादेशात् / मिमांसा-,.१३ /

एकं वा चोदनैकत्वात् / मिमांसा-,.१४ /

स स्वर्गः स्यात् सर्वान् प्रत्यविशिष्टत्वात् / मिमांसा-,.१५ /

प्रत्ययाच् च / मिमांसा-,.१६ /

क्रतौ फलार्थवादमङ्गवत् कार्ष्णाजिनिः / मिमांसा-,.१७ /

फलमात्रेयो निर्देशाद् अश्रुतौ ह्य् अनुमानं स्यात् / मिमांसा-,.१८ /

अङ्गेषु स्तुतिः परार्थत्वात् / मिमांसा-,.१९ /

काम्ये कर्मणि नित्यः स्वर्गे यथा यज्ञाङ्गे क्रत्वर्थः / मिमांसा-,.२० /

वीते च कारणे नियमात् / मिमांसा-,.२१ /

कामो वा तत्संयोगेन चोद्यते / मिमांसा-,.२२ /

अङ्गेषु स्तुतिः परार्थत्वात् / मिमांसा-,.२३ /

वीते च नियमस् तदर्थम् / मिमांसा-,.२४ /

सर्वकाम्यम् अङ्गकामैः प्रकरणात् / मिमांसा-,.२५ /

फलोपदेशो वा प्रधानशब्दसंयोगात् / मिमांसा-,.२६ /

तत्र सर्वे ऽविशेषात् / मिमांसा-,.२७ /

योगसिद्धिर् वार्थस्योत्पत्यसंयोगित्वात् / मिमांसा-,.२८ /

समवाये चोदनासंयोगस्यार्थवत्वात् / मिमांसा-,.२९ /

कालश्रुतौ काल इति चेत् / मिमांसा-,.३० /

नासमवायात्प्रयोजनेन / मिमांसा-,.३१ /

उभयार्थाम् इति चेत् / मिमांसा-,.३२ /

न शब्दैकत्वात् / मिमांसा-,.३३ /

प्रकरणाद् इति चेत् / मिमांसा-,.३४ /

नोत्पत्तिसंयोगात् / मिमांसा-,.३५ /

अनुत्पत्तौ तु कालः स्यात् प्रयोजनेन सम्बन्धात् / मिमांसा-,.३६ / उतपत्तिकालविशये कालः स्याद् वाक्यस्य तत्प्रधानत्वात् / मिमांसा-,.३७ /

फलसंयोगस् त्व् अचोदिते न स्याद् अशेषभूतत्वात् / मिमांसा-,.३८ /

अङ्गानां तूपघातसंयोगो निमित्तार्थः / मिमांसा-,.३९ /

प्रधानेनाभिसंयोगाद् अङ्गानां मुख्यकालत्वम् / मिमांसा-,.४० /

अपवृत्ते तु चोदना तत्सामान्यात् स्वकाले स्यात् / मिमांसा-,.४१ /



प्रकरणाविभागे च विप्रतिषिद्धं ह्य् उभयम् / मिमांसा-,./

अपि वाङ्गमनिज्याः स्युस् ततो विशिष्टत्वात् / मिमांसा-,./

मध्यस्थं यस्य तन्मध्ये / मिमांसा-,./

सर्वासां वा समत्वाच् चोदनातः स्यान् न हि तस्य प्रकरणं देशार्थम् उच्यते मध्ये / मिमांसा-,./

प्रकरणाविभागे च विप्रतिषिद्धं ह्य् उभयम् / मिमांसा-,./

अपि वा कालमात्रं स्याद् अदर्शनाद् विशेशस्य / मिमांसा-,./

फलवद् वोक्तहेतुत्वाद् इतरस्य प्रधानं स्यात् / मिमांसा-,./

दधिग्रहो नैमित्तिकः श्रुतिसंयोगात् / मिमांसा-,./

नित्यश् च ज्येष्ठशब्दात् / मिमांसा-,./

सार्वरूप्याच् च / मिमांसा-,.१० /

नित्यो वा स्याद् अर्थवादस्तयोः कर्मण्य् असम्बन्धाद् भङ्गित्वाच् चान्तरायस्य / मिमांसा-,.११ /

वैश्वानरश् च नित्यः स्यान् नित्यैः समानसङ्ख्यत्वात् / मिमांसा-,.१२ /

पक्षे वोत्पन्नसंयोगात् / मिमांसा-,.१३ /

षट्चितिः पूर्ववत्त्वात् / मिमांसा-,.१४ /

ताभिश् च तुल्यसंख्यानात् / मिमांसा-,.१५ /

अर्थवादोपपत्तेश् च / मिमांसा-,.१६ /

एकचितिर् वा स्याद् अपवृक्ते हि चोद्यते निमित्तेन / मिमांसा-,.१७ /

विप्रतिषेधात् ताभिः समानसङ्ख्यत्वम् / मिमांसा-,.१८ /

पितृयज्ञः स्वकालत्वाद् अनङ्गं स्यात् / मिमांसा-,.१९ /

तुल्यवच् च प्रसङ्ख्यानात् / मिमांसा-,.२० /

प्रतिषिद्धे च दर्शनात् / मिमांसा-,.२१ /

पश्वङ्ग रशमा स्यात् तदागमे विधानात् / मिमांसा-,.२२ /

यूपाङ्गं वा तत्संस्कारात् / मिमांसा-,.२३ /

अर्थवादश् च तदर्थवत् / मिमांसा-,.२४ /

स्वरुश्चाप्य् एकदेशत्वात् / मिमांसा-,.२५ /

निष्क्रयश् च तदङ्गवत् / मिमांसा-,.२६ /

पश्वङ्गं वार्थकर्मत्वात् / मिमांसा-,.२७ /

भक्त्या निष्क्रयवादः स्यात् / मिमांसा-,.२८ /

दर्शपूर्णमासयोर् इज्याः प्रधानान्य् अविशेषात् / मिमांसा-,.२९ /

अपि वाङ्गानि कानि चिद्येश्वङ्गत्वेन संस्तुतिः सामान्यो ह्य् अभिसंस्तवः / मिमांसा-,.३० /

तथा चान्यार्थदर्शनम् / मिमांसा-,.३१ /

अवशिष्टं तु कारणं प्रधानेषु गुणस्य विद्यमानत्वात् / मिमांसा-,.३२ /

नानुक्ते ऽन्यार्थदर्शनं परार्थत्वात् / मिमांसा-,.३३ /

पृथवत्वे त्व् अभिधानयोर् निवेशः श्रुतितो व्यपदेशाच् च तत्पुनर्मुख्यलक्षणं यत्फलवत्वं तत्सन्निधाव् असंयुक्तं तदङ्गंस्याद्भागित्वात् कारणस्याश्रुतश् चान्यसम्बन्धः / मिमांसा-,.३४ /

गुणाश् च नामसंयुक्ता विधीयन्ते नाङ्गेषूषपद्यन्ते / मिमांसा-,.३५ /

तुल्या च कारणश्रुतिर् अन्यैर् अङ्गाङ्गिसम्बन्धः / मिमांसा-,.३६ /

उत्पत्ताव् अभिसम्बन्धस् तस्माद् अङ्गोपदेशः स्यात् / मिमांसा-,.३७ /

तथा चान्यार्थदर्शनम् / मिमांसा-,.३८ /

ज्योतिष्टोमे तुल्यान्य् अविशिष्टं हि कारणम् / मिमांसा-,.३९ /

गुणानां तूत्पत्तिवाक्येन सम्बन्धात् कारणश्रुतिस् तस्मात् सोमः प्रधानं स्यात् / मिमांसा-,.४० /

तथा चान्यार्थदर्शनम् / मिमांसा-,.४१ /



श्रुतिलक्षणम् आनुपूर्व्यं तत्प्रमाणत्वात् / मिमांसा-,./

अर्थाच् च / मिमांसा-,./

अनियमो ऽन्यत्र / मिमांसा-,./

क्रमेण वा नियम्येत क्रत्वेकत्वे तद्गुणत्वात् / मिमांसा-,./

अशाब्द इति चेत् स्याद् वाक्यशब्दत्वात् / मिमांसा-,./

अर्थकृते वानुमानं स्यात् क्रत्वेकत्वे परार्थत्वात् स्वेन त्व् अर्थेन सम्बन्धस् तस्मात् स्वशब्दम् उच्येत / मिमांसा-,./

तथा चान्यार्थदर्शनम् / मिमांसा-,./

प्रवृत्या तुल्यकालानां गुणानां तदुपक्रमात् / मिमांसा-,./

सर्वम् इति चेत् / मिमांसा-,./

नाकृतत्वात् / मिमांसा-,.१० /

क्रत्वन्तरवद् इति चेत् / मिमांसा-,.११ /

नासमवायात् / मिमांसा-,.१२ /

स्थानाच् चोत्पत्तिसंयोगात् / मिमांसा-,.१३ /

मुख्यक्रमेण वाङ्गानां तदर्थत्वात् / मिमांसा-,.१४ /

प्रकृतौ तु स्वशब्दत्वाद्याक्रमं प्रतीयेत / मिमांसा-,.१५ /

मन्त्रतस् तु विरोधे स्यात् प्रयोगरूपसामर्थ्यात् तस्माद् उत्पत्तिदेशः सः / मिमांसा-,.१६ /

तद्वचनाद् विकृतौ यथा प्रधानं स्यात् / मिमांसा-,.१७ /

विप्रतिपत्तौ वा प्रकृत्यन्वयाद् यथाप्रकृति / मिमांसा-,.१८ /

विकृतिः प्रकृतिधर्मत्वात् तत्काला स्याद् यथा शिष्टम् / मिमांसा-,.१९ /

अपि वा क्रमकालसंयुक्ता सद्यः क्रियेत तत्र विधेर् अनुमानात् प्रकृतिधर्मलोपः स्यात् / मिमांसा-,.२० /

कालोत्कर्ष इति चेत् / मिमांसा-,.२१ /

न तत्सम्बन्धात् / मिमांसा-,.२२ /

अङ्गानां मुख्यकालत्वाद् यथोक्तम् उत्कर्षे स्यात् / मिमांसा-,.२३ /

तदादि वाभिसम्बन्धात् तदन्तम् अपकर्षे स्यात् / मिमांसा-,.२४ /

प्रवृत्या कृतकालानाम् / मिमांसा-,.२५ /

शब्दविप्रतिषेधाच् च / मिमांसा-,.२६ /

असंयोगात् तु वैकृतं तद् एव प्रतिकृष्येत. मिमांसा-,.२७ /

प्रासङ्गिकं च नोत्कर्षेद् असंयोगात् / मिमांसा-,.२८ /

तथापूर्वम् / मिमांसा-,.२९ /

सान्तपनीया तूत्कर्षेद् अग्निहोत्रं सवनवद् वैगुण्यात् / मिमांसा-,.३० /

अञ्यवायाच् च मिमांसा-,.३१ /

असम्बन्धात् तु नोत्कर्षेत् / मिमांसा-,.३२ /

प्रापणाच् च निमित्तस्य / मिमांसा-,.३३ /

सम्बन्धात् सवनोत्कर्मः / मिमांसा-,.३४ /

षोडशी चोक्थ्यसंयोगात् / मिमांसा-,.३५ /



सन्निपाते प्राधानानाम् एकैकस्य गुणानां सर्वकर्म स्यात् / मिमांसा-,./

सर्वेषां वैकजातीयं कृतानुपूर्व्यत्वात् / मिमांसा-,./

कारणाद् अभ्यावृत्तिः / मिमांसा-,./

मुष्टिकपालावदानाञ्जनाभ्यञ्जनवपनपावनेषु चैकेन / मिमांसा-,./

सर्वाणि त्व् एककार्यत्वादेषां तद्गुणत्वात् / मिमांसा-,./

संयुक्ते तु प्रक्रमात् तदङ्गं स्याद् इतरस्य तदर्थत्वात् / मिमांसा-,./

वचनात् तु परिव्याणान्तम् अञ्जनादिः स्यात् / मिमांसा-,./

कारणाद्वा() वसर्गः स्याद् यथा पात्रवृद्धिः / मिमांसा-,./

न वा शब्दकृतत्वान् न्यायमात्रमितरदर्थात् पात्रविवृद्धिः / मिमांसा-,./

पशुगणे तस्यतस्यापवर्जयेत् पश्वैकत्वात् / मिमांसा-,.१० /

दैवतैर् वैककर्म्यात् / मिमांसा-,.११ /

मन्त्रस्य चार्थवत्त्वात् / मिमांसा-,.१२ /

नानाबीजेष्वेकमुलूखलं विभवात् / मिमांसा-,.१३ /

विवृद्धिर् वा नियामादानुपूर्व्यस्य तदर्थत्वात् / मिमांसा-,.१४ /

एकं वा तण्डुलभावाद् धन्तेस् तदर्थत्वात् / मिमांसा-,.१५ /

विकारे त्व् अनूयाजानां पात्रभेदो ऽर्थभेदात् स्यात् / मिमांसा-,.१६ /

प्रकृतेः पूर्वोक्तत्वाद् अपूर्वम् अन्ते स्यान् न ह्य् अचोदितस्य शेषाम्नानम् / मिमांसा-,.१७ /

मुख्यानन्तर्यमात्रेयस् तेन तुल्यश्रुतित्वाद् अशब्दत्वात् प्राकृतानां व्यवायः स्यात् / मिमांसा-,.१८ /

अन्ते तु बादरायणस् तेषां प्रधानशब्दत्वात् / मिमांसा-,.१९ /

तथा चान्यार्थदर्शनम् / मिमांसा-,.२० /

कृतदेशात् तु पूर्वेषां स देशः स्यात् तेन प्रत्यक्षसंयोगान् नयायमात्रमितरत् / मिमांसा-,.२१ /

प्रकृताच् च पुरस्ताद् यत् / मिमांसा-,.२२ /

सन्निपातश् चेद् यथोक्तमन्ते स्यात् / मिमांसा-,.२३ /



विवृद्धिः कर्मभेदात् पृषदाज्यवत् तस्यतस्योपदिश्येत / मिमांसा-,./

अपि वा सर्वसङ्ख्यत्वाद् विकारः प्रतीयेत / मिमांसा-,./

स्वस्थानात् तु विवृध्येरन् कृतानुपूर्व्यत्वात् / मिमांसा-,./

समिध्यमानवतीं समिद्धवतीं चान्तरेण धाय्याः स्युर् द्यावापृथिञ्योरन्तरालं समर्हणात् / मिमांसा-,./

तच्छब्दो वा / मिमांसा-,./

उष्णिक्ककुभोरन्ते दर्शनात् / मिमांसा-,./

स्तोमविवृद्धौ वहिष्पवमाने पुरस्तात् पर्यासाद् आगन्तवः स्युस् तथा हि दृष्टं द्वादशाहे / मिमांसा-,./

पर्यास इति चान्ताख्या / मिमांसा-,./

अन्ते वा तदुक्तम् / मिमांसा-,./

वचनात् तु द्वादशाहे / मिमांसा-,.१० /

अतद्विकारश् च / मिमांसा-,.११ /

तद्विकारे ऽप्य् अपूर्वत्वात् / मिमांसा-,.१२ /

अन्ते तूत्तरयोर् दध्यात् / मिमांसा-,.१३ /

अपि वा गायत्रीबृहत्यनुष्टुप्सु वचनात् / मिमांसा-,.१४ /

ग्रहेष्टकम् औपानुवाक्यं सवनचितिशेषः स्यात् / मिमांसा-,.१५ /

क्रत्वग्निशेषा वा चोदितत्वाद् अचोदनानुपूर्वस्य / मिमांसा-,.१६ /

अन्ते स्युर् अव्यवायात् / मिमांसा-,.१७ /

लिङ्गदर्शनाच् च / मिमांसा-,.१८ /

मध्यमायां तु वचनाद् ब्राह्मणवत्यः / मिमांसा-,.१९ /

प्राग्लोकम्पृणायास् तस्याः सम्पूरणार्थत्वात् / मिमांसा-,.२० /

संस्कृते कर्म संस्काराणां तदर्थत्वात् / मिमांसा-,.२१ /

अनन्तरं व्रतं तद्भूतत्वात् / मिमांसा-,.२२ /

पूर्वं च लिङ्गदर्शनात् / मिमांसा-,.२३ / अर्थवादो वार्थस्य विद्यमानत्वात् / मिमांसा-,.२४ /

न्यायविप्रतिषेधाच् च / मिमांसा-,.२५ /

सञ्चिते त्व् अग्निचिद् युक्तं प्रापणान् निमित्तस्य / मिमांसा-,.२६ /

क्रत्वन्ते वा प्रयोगवचनाभावात् / मिमांसा-,.२७ /

अग्नेः कर्मत्वनिर्देशात् / मिमांसा-,.२८ /

परेणावेदनाद् दीक्षितः स्यात् सर्वैर् दीक्षाभिसम्बन्धात् / मिमांसा-,.२९ /

इष्ट्यन्ते वा तदर्था ह्य् अविशेषार्थसन्वन्धात् / मिमांसा-,.३० /

समाख्यानं च तद्वत् / मिमांसा-,.३१ /

अङ्गवत् क्रतूनाम् आनुपूर्व्यम् / मिमांसा-,.३२ /

न वासम्बन्धात् / मिमांसा-,.३३ /

काम्यत्वाच् च / मिमांसा-,.३४ /

आनर्थक्यान् नेति चेत् / मिमांसा-,.३५ /

स्याद् विद्यार्थत्वाद् यथा परेषु सर्वस्वारात् / मिमांसा-,.३६ /

य एतेनेत्य् अग्निष्टोमः प्रकरणात् / मिमांसा-,.३७ /

लिङ्गाच् च / मिमांसा-,.३८ /

अथान्येनेति संस्थानां सन्निधानात् / मिमांसा-,.३९ /

तत्प्रकृतेर् वापत्तिविहारौ न तुल्येषूपपद्यते / मिमांसा-,.४० /

प्रशसा च विहरणाभावात् / मिमांसा-,.४१ /

विधिप्रत्ययाद् वा न ह्य् अकस्मात् प्रशंसा स्यात् / मिमांसा-,.४२ /

एकस्तोमे वा क्रतुसंयोगात् / मिमांसा-,.४३ /

सर्वेषां वा चोदनाविशेषात् प्रशंसा स्तोमानाम् / मिमांसा-,.४४ /



क्रमकोयो ऽर्थशब्दाभ्यां श्रुतिविशेषाद् अर्थपरत्वाच् च / मिमांसा-,./

अवदानाभिघारणासादनेष्व् आनुपूर्व्यं प्रवृत्या स्यात् / मिमांसा-,./

यथारप्रदानं वा तदर्थत्वात् / मिमांसा-,./

लिङ्गदर्शनाच् च / मिमांसा-,./

वचनाद् इष्टिपूर्वत्वम् / मिमांसा-,./

सोमश् चैकेषाम् अग्नयाधेयस्यर्तुनक्षत्रातिक्रमवचनात् तदन्तेनानर्थकं हि स्यात् / मिमांसा-,./

तदर्थवचनाच् च नाविशेषात् तदर्थत्वं / मिमांसा-,./

अयक्ष्यमाणस्य च पवमानहविषां कालनिर्देशाद् आनन्तर्याद् विशङ्का स्यात् / मिमांसा-,./

इष्टिर् अयक्ष्यमाणस्य तदर्थ्ये न सोमपूर्वत्वम् / मिमांसा-,./

उत्कर्षाद् ब्राह्मणस्य सोमः स्यात् / मिमांसा-,.१० /

पौर्णमासी वा श्रुतिसंयोगात् / मिमांसा-,.११ /

सर्वस्य वैककर्म्यात् / मिमांसा-,.१२ /

स्याद् वा विधिस् तदर्थेन / मिमांसा-,.१३ /

प्रकरणात् तु कालः स्यात् / मिमांसा-,.१४ /

स्वकाले स्याद् अविप्रतिषेधात् / मिमांसा-,.१५ /

अपनयो वाधानस्य सर्वकालत्वात् / मिमांसा-,.१६ /

पौर्णमास्य् ऊर्ध्वं सोमाद् ब्राह्मणस्य वचनात् / मिमांसा-,.१७ /

एकं वा शब्दसामर्थ्यात् प्राक् कृत्स्नविधानम् / मिमांसा-,.१८ /

पुरोडाशस् त्व् अनिर्देशे तद्युक्ते देवताभावात् / मिमांसा-,.१९ /

आज्यमपीति चेत् / मिमांसा-,.२० /

न मिश्रदेवतत्वाद् ऐन्द्राग्नवत् / मिमांसा-,.२१ /

विकृतेः प्रकृतिकालत्वात् सद्यस्कालोत्तरा विकृतिस् तयोः प्रत्यक्षशिष्टत्वात् / मिमांसा-,.२२ /

द्वैयहकाल्ये तु यथान्यायम् / मिमांसा-,.२३ /

वचनाद् वैककाल्यं स्यात् / मिमांसा-,.२४ /

सन्नाय्याग्नीषोमीयविकारा ऊर्ध्वं सोमात्प्रकृतिवत् / मिमांसा-,.२५ /

तथा सोमविकारा दर्शपूर्णमासाभ्याम् / मिमांसा-,.२६ /



द्रव्याणां कर्मसंयोगे गुणत्वेनाभिसम्बन्धः / मिमांसा-,./

असाधकं तु तादर्थ्यात् / मिमांसा-,./

प्रत्यर्थं चाभिसंयोगात्कर्मतो ह्य् अभिसम्बन्धस् तस्मात् कर्मोपदेशः स्यात् / मिमांसा-,./

फलार्थत्वात् कर्मणः शास्त्रं सर्वाधिकारं स्यात् / मिमांसा-,./

कर्तुर् वा श्रुतिसंयोगाद् विधिः कार्त्स्न्येन गम्यते / मिमांसा-,./

लिङ्गविशेषनिर्देशात् पुंयुक्तम् ऐतिशायनः / मिमांसा-,./

तदुक्तित्वाच् च दोषश्रुतिर् अविज्ञाते / मिमांसा-,./

जातिं तु बादरायणो ऽविशेषात् तस्मात् स्त्र्य् अपि प्रतीयेत जात्यर्थस्याविशिष्टत्वात् / मिमांसा-,./

चोदितत्वाद् यथाश्रुति / मिमांसा-,./

द्रव्यवत्त्वात् तु पुंसां स्याद् द्रव्यसंयुक्तं क्रयविक्रयाभ्याम् अद्रव्यत्वं स्त्रीणां द्रव्यैः समानयोगित्वात् / मिमांसा-,.१० /

तथा चान्यार्थदर्शनम् / मिमांसा-,.११ /

तादर्थ्यात् कर्म तादर्थ्यम् / मिमांसा-,.१२ /

फलोत्साहाविशेषात् तु / मिमांसा-,.१३ /

अर्थेन च समवेतत्वात् / मिमांसा-,.१४ /

क्रयस्य थर्ममात्रत्वम् / मिमांसा-,.१५ /

स्ववत्ताम् अपि दर्शयति / मिमांसा-,.१६ /

स्ववतोस् तु वचनाद् ऐककर्म्यं स्यात् / मिमांसा-,.१७ /

लिङ्गदर्शनाच् च / मिमांसा-,.१८ /

क्रीतत्वात् तु भक्त्या स्वामित्वम् उच्यते / मिमांसा-,.१९ /

फलार्थित्वात् तु स्वामित्वेनाभिसम्बन्धः / मिमांसा-,.२० /

फलवत्तां च दर्शयति / मिमांसा-,.२१ /

द्व्याधानं च द्वियज्ञवत् / मिमांसा-,.२२ /

गुणस्य तु विधानत्वात् पत्न्या द्वितीयशब्दः स्यात् / मिमांसा-,.२३ /

तस्या यावदुक्तम् आशीर् ब्रह्मचर्यम् अतुल्यत्वात् / मिमांसा-,.२४ /

चातुर्वर्ण्यम् अविशेषात् / मिमांसा-,.२५ /

निर्देशाद् वा त्रयाणां स्याद् अग्न्याधेये ऽसम्बन्धः क्रतुषु ब्राह्मणश्रुतेर् इत्य् आत्रेयः / मिमांसा-,.२६ /

निमित्तार्थे न बादरिस् तस्मात् सर्वाधिकारं स्यात् / मिमांसा-,.२७ /

अपि वान्यार्थदर्शनाद् यथाश्रुति प्रतीयेत / मिमांसा-,.२८ /

निर्देशात् तु पक्षे स्यात् / मिमांसा-,.२९ /

वैगुण्यान् नेति चेत् / मिमांसा-,.३० /

न काम्यत्वात् / मिमांसा-,.३१ /

संस्कारे च तत्प्रधानत्वात् / मिमांसा-,.३२ /

अपि वा वेदनिर्देशाद् अपशूद्राणां प्रतीयेत / मिमांसा-,.३३ /

गुणार्थित्वान् नेति चेत् / मिमांसा-,.३४ /

संस्कारस्य तदर्थत्वाद् विद्यायां पुरुषश्रुतिः / मिमांसा-,.३५ /

विद्यानिर्देशान् नेति चेत् / मिमांसा-,.३६ /

अबैद्यत्वाद् अभावः कर्मणि स्यात् / मिमांसा-,.३७ /

तथा चान्यार्थदर्शनम् / मिमांसा-,.३८ /

त्रयाणां द्रव्यसम्पन्नः कर्मणी द्रव्यसिद्धत्वात् / मिमांसा-,.३९ /

अनित्यत्वात् तु नैवं स्याद् अर्थाद् धि द्रव्यसंयोगः / मिमांसा-,.४० /

अङ्गहीनश् च तद्धर्मा / मिमांसा-,.४१ /

उत्पत्तौ नित्यसंयोगात् / मिमांसा-,.४२ /

अत्र्यार्षेयस्य हानं स्यात् / मिमांसा-,.४३ /

वचनाद् रथकारस्याधाने ऽस्य सर्वशेषत्वात् / मिमांसा-,.४४ /

न्याय्यो वा कर्मसंयोगाच् छूद्रस्य प्रतिषिद्धतत्वात् / मिमांसा-,.४५ /

अकर्मत्वात् तु नैवं स्यात् / मिमांसा-,.४६ /

आनर्थक्यं च संयोगात् / मिमांसा-,.४७ /

गुणार्थेनेति चेत् / मिमांसा-,.४८ /

उक्तम् अनिमित्तत्वम् / मिमांसा-,.४९ /

सौधन्वनास् तु हीनत्वान् मन्त्रवर्णात् प्रतीयेरन् / मिमांसा-,.५० /

रथपतिर् निषादः स्याच् छब्दसामर्थ्यात् / मिमांसा-,.५१ /

लिङ्गदर्शनाच् च / मिमांसा-,.५२ /



पुरुषार्थैकसिद्धित्वात् तस्य तस्याधिकारः स्यात् / मिमांसा-,./

अपि चोत्पत्तिसंयोगो यथा स्यात् सत्वदर्यशनं तथाभावो विभागे स्यात् / मिमांसा-,./

प्रयोगे पुरुषश्रुतेर् यथाकामी प्रयोगे स्यात् / मिमांसा-,./

प्रत्यर्थं श्रुतिभाव इति चेत् / मिमांसा-,./

तादर्थ्ये न गुणार्थतानुक्ते ऽर्थान्तरत्वात् कर्तुः प्रधानभूतत्वात् / मिमांसा-,./

अपि वा कामसंयोगे सम्बन्धात् प्रयोगायोपदिश्येत प्रत्यर्थं हि विधिश्रुतिर् विषाणावत् / मिमांसा-,./

अन्यस्य स्याद् इति चेत् / मिमांसा-,./

अन्यार्थेनाभिसम्बन्धः / मिमांसा-,./

फलकामो निमित्तम् इति चेत् / मिमांसा-,./

न नित्यत्वात् / मिमांसा-,.१० /

कर्म तथेति चेत् / मिमांसा-,.११ /

न समवायात् / मिमांसा-,.१२ /

प्रकमात् तु नियम्येतारम्भस्य क्रियानिमित्तत्वात् / मिमांसा-,.१३ /

फलार्थित्वाद् वानियमो यथानुपक्रान्ते / मिमांसा-,.१४ /

नियमो वा तन्निमित्तत्वात् कर्तुस् तत्कारणं स्यात् / मिमांसा-,.१५ /

लोके कर्माणि वेदवत् ततो ऽधिपुरुषज्ञानम् / मिमांसा-,.१६ /

अपराधे ऽपि च तैः शास्त्रम् / मिमांसा-,.१७ /

अशास्त्रात् तूपसम्प्राप्तिः शास्त्रं स्यान् न प्रकल्पकं तस्माद् अर्थेन गम्येताप्राप्ते शास्त्रम् अर्थवत् / मिमांसा-,.१८ /

प्रतिषेधेष्व् अकर्मत्वात् क्रिया स्यात् प्रतिषिद्धानां विभक्तत्वाद् अकर्मणाम् / मिमांसा-,.१९ /

शास्त्राणां त्व् अर्थवत्वेन पुरुषार्थो विधीयते तयोर् असमवायित्वात् तादर्थ्ये विध्यतिक्रमः / मिमांसा-,.२० /

तस्मिंस् तु शिष्यमाणानि जननेन प्रवर्तेरन् / मिमांसा-,.२१ /

अपि वा वेदतुल्यत्वाद् उपायेन प्रवर्तेरन् / मिमांसा-,.२२ /

अभ्यासो ऽकर्मशेषत्वात् पुरुषार्थो विधीयते / मिमांसा-,.२३ /

तस्मिन्न् असम्भवन्न् अर्थात् / मिमांसा-,.२४ /

न कालेभ्य उपदिश्यन्ते / मिमांसा-,.२५ /

दर्शनात् काललिङ्गानां कालविधानम् / मिमांसा-,.२६ /

तेषाम् औत्पत्तिकत्वाद् आगमेन प्रवर्तेत / मिमांसा-,.२७ /

तथा हि लिङ्गदर्शनम् / मिमांसा-,.२८ /

तथान्तःक्रतुप्रयुक्तानि / मिमांसा-,.२९ / आचाराद् गृह्यमाणेषु तथा स्यात् पुरुषार्थत्वात् / मिमांसा-,.३० /

ब्राह्मणस्य तु सोमविद्याप्रजम् ऋणवाक्येन संयोगात् / मिमांसा-,.३१ /



सर्वशक्तौ प्रवृत्तिः स्यात् तथाभूतोपदेशात् / मिमांसा-,./

अपि वाप्य् एकदेशे स्यात् प्रधाने ह्य् अर्थनिर्वृत्तिर् गुणमात्रम् इतरत् तदर्थत्वात् / मिमांसा-,./

तदकर्मणि च दोषस् तस्मात् ततो विशेषः स्यात् प्रधानेनाभिसम्बन्धात् / मिमांसा-,./

कर्माभेदं तु जैमिनिः प्रयोगवचनैकत्वात् सर्वेषाम् उपदेशः स्याद् इति / मिमांसा-,./

अर्थस्य व्यपवर्गित्वाद् एकस्यापि प्रयोगे स्याद् यथा क्रत्वन्तरेषु / मिमांसा-,./

विध्यपराधे च दर्शनात् समाप्तेः / मिमांसा-,./

प्रायश्चित्तविधानाच् च / मिमांसा-,./

काम्येषु चैवम् अर्थित्वात् / मिमांसा-,./

असंयोगात् तु नैवं स्याद् विधेः शब्दप्रमाणत्वात् / मिमांसा-,./

अकर्मणि चाप्रत्यवायात् / मिमांसा-,.१० /

क्रियाणाम् आश्रितत्वाद् द्रव्यान्तरे विभागः स्यात् / मिमांसा-,.११ /

अपि वाव्यतिरेकाद् रूपशब्दाविभागाच् च गोत्ववद् ऐककर्म्यं स्यान् नामधेयं च सत्त्ववत् / मिमांसा-,.१२ /

श्रुतिप्रमाणत्वाच् छिष्टाभावे ऽनागमो ऽन्यस्याशिष्टत्वात् / मिमांसा-,.१३ /

क्वचिद् विधानाच् च / मिमांसा-,.१४ /

आगमो वा चोदनार्थाविशेषात् / मिमांसा-,.१५ /

नियमार्थः क्वाचिद् विधिः / मिमांसा-,.१६ /

तन् नित्यं तच्चिकीर्षा हि / मिमांसा-,.१७ /

न देवताग्निशब्दक्रियमन्यार्थसंयोगात् / मिमांसा-,.१८ /

देवतायां च तदर्थत्वात् / मिमांसा-,.१९ /

प्रतिषिद्धं चाविशेषेण हि तच्छ्रुतिः / मिमांसा-,.२० /

तथा स्वामिनः फलसमवायात् फलस्य कर्मयोगित्वात् / मिमांसा-,.२१ /

बहूनां तु प्रवृत्ते ऽन्यमागमयेद् अवैगुण्यात् / मिमांसा-,.२२ /

स स्वामी स्यात् संयोगात् / मिमांसा-,.२३ /

कर्मकरो वा भृतत्वात् / मिमांसा-,.२४ /

तस्मिंश् च फलदर्शनात् / मिमांसा-,.२५ /

स तद्धर्मा स्यात् कर्मसंयोगात् / मिमांसा-,.२६ /

सामान्यं तच्चिकीर्षा हि / मिमांसा-,.२७ /

निर्देशात् तु विकल्पे यत् प्रवृत्तम् / मिमांसा-,.२८ /

अशब्दम् इति चेत् / मिमांसा-,.२९ /

नानङ्गत्वात् / मिमांसा-,.३० /

वचनाच् चान्याय्यम् अभावे तत्सामान्येन प्रतिनिधिर् अभावाद् इतरस्य / मिमांसा-,.३१ /

न प्रतिनिधौ समत्वात् / मिमांसा-,.३२ /

स्याच् छ्रुतिलक्षणे नियतत्वात् / मिमांसा-,.३३ /

न तदीप्सा हि / मिमांसा-,.३४ /

मुख्याधिगमे मुख्यम् आगमो हि तदभावात् / मिमांसा-,.३५ /

प्रबृत्ते ऽपीति चेत् / मिमांसा-,.३६ /

नानर्थकत्वात् / मिमांसा-,.३७ /

द्रव्यसंस्कारविरोधे द्रव्यं तदर्थत्वात् / मिमांसा-,.३८ /

अर्थद्रव्यविरोधे ऽर्थो द्रव्याभावे तदुत्पत्तेर् द्रव्याणाम् अर्थशेषत्वात् / मिमांसा-,.३९ /

विधिर् अप्य् एकदेशे स्यात् / मिमांसा-,.४० /

अपि वार्थस्य शक्यत्वाद् एकदेशेन निर्वर्तेतार्थानाम् अविभक्तत्वाद् गुणमात्रम् इतरत् तदर्थत्वात् / मिमांसा-,.४१ /



शेषाद् द्व्यवदाननाशे स्यात् तदर्थत्वात् / मिमांसा-,./

निर्देशाद् वान्यद् आगमयेत् / मिमांसा-,./

अपि वा शेषभाजां स्याद् विशिष्टकारणत्वात् / मिमांसा-,./

निर्देशाच् छेषभक्षो ऽन्यैः प्रधानवत् / मिमांसा-,./

सर्वैर् वा समवायात् स्यात् / मिमांसा-,./

निर्देशस्य गुणार्थत्वम् / मिमांसा-,./

प्रधाने श्रुतिलक्षणम् / मिमांसा-,./

अर्थवद् इति चेत् / मिमांसा-,./

न चोदनाविरोधात् / मिमांसा-,./

अर्थसमवायत् प्रायश्चित्तम् एकदेशे ऽपि / मिमांसा-,.१० /

न त्व् अशेषे वैगुण्यात् तदर्थं हि / मिमांसा-,.११ /

स्याद् वा प्राप्तनिमित्तत्वाद् अतद्धर्मो नित्यसंयोगान् न हितस्य गुणार्थेनानित्यत्वात् / मिमांसा-,.१२ /

गुणानां च परार्थत्वाद् वचनाद् व्यपाश्रय स्यात् / मिमांसा-,.१३ /

भेदार्थम् इति / मिमांसा-,.१४ /

न शेषभूतत्वात् / मिमांसा-,.१५ /

अनर्थकश् च सर्वनाशे स्यात् / मिमांसा-,.१६ /

क्षामे तु सर्वदाहे स्याद् एकदेशस्यावर्जनीयत्वात् / मिमांसा-,.१७ /

दर्शनाद् एकदेशे स्यात् / मिमांसा-,.१८ /

अन्येन वैतच् छास्त्राद् धि कारणप्राप्तिः / मिमांसा-,.१९ /

तद्धविःशब्दान् नेति चेत् / मिमांसा-,.२० /

स्याद् अन्यायत्वादिज्यागामी हविः शब्दस् तल्लिङ्गसंयोगात् / मिमांसा-,.२१ /

यथाश्रुतीति चेत् / मिमांसा-,.२२ /

न तल्लक्षणत्वाद् उपपातो हि कारणम् / मिमांसा-,.२३ /

होमाभिषवभक्षणं च तद्वत् / मिमांसा-,.२४ /

उभाभ्यां वा न हि तयोर् धर्मशास्त्रम् / मिमांसा-,.२५ /

पुनर् आधेयम् ओदनवत् / मिमांसा-,.२६ /

द्रव्योत्पत्तेर् वोभयोः स्यात् / मिमांसा-,.२७ /

पञ्चशरावस् तु द्रव्यश्रुतेः प्रतिनिधिः स्यात् / मिमांसा-,.२८ /

चोदना वा द्रव्यदेवताविधिर् अवाच्ये हि / मिमांसा-,.२९ /

स प्रत्यामनेत् स्थानात् / मिमांसा-,.३० /

अङ्गविधिर् वा निमित्तसंयोगात् / मिमांसा-,.३१ /

विश्वजित्वप्रवृत्ते भावः कर्मणि स्यात् / मिमांसा-,.३२ /

निष्क्रयवादाच् च / मिमांसा-,.३३ /

वत्ससंयोगे व्रतचोदना स्यात् / मिमांसा-,.३४ /

कालो वोत्पन्नसंयोगाद् यथोक्तस्य / मिमांसा-,.३५ /

अर्थापरिमाणाच् च / मिमांसा-,.३६ /

वत्सस् तु श्रुतिसंयोगात् तदङ्गं स्यात् / मिमांसा-,.३७ /

कालस् तु स्याद् अचोदनात् / मिमांसा-,.३८ /

अनर्थकश् च कर्मसंयोगे / मिमांसा-,.३९ /

अवचनाच् च स्वशब्दस्य / मिमांसा-,.४० /

कालश् चेत् सन्नयत्पक्षे तल्लिङ्गसंयोगात् / मिमांसा-,.४१ /

कालार्थत्वाद् वोभयोः प्रतीयेत / मिमांसा-,.४२ /

प्रस्तरे शाखाश्रयणवत् / मिमांसा-,.४३ /

कालविधिर् वोभयोर् विद्यामानत्वात् / मिमांसा-,.४४ /

अतत्संस्कारार्थत्वाच् च / मिमांसा-,.४५ /

तस्माच् च विप्रयोगे स्यात् / मिमांसा-,.४६ /

उपवेषश् च पक्षे स्यात् / मिमांसा-,.४७ /



अभ्युदये कालापराधाद् इज्याचोदना स्याद् यथा पञ्चशरावे / मिमांसा-,./

अपनयो वा विद्यानत्वात् / मिमांसा-,./

तद्रूपत्वाच् च शब्दानाम् / मिमांसा-,./

आतञ्चनाभ्यासस्य दर्शनात् / मिमांसा-,./

अपूर्वत्वाद् विधानं स्यात् / मिमांसा-,./

पयोदोषात् पञ्चशरावे ऽदुष्टं हीतरत् / मिमांसा-,./

सान्नाय्यो ऽपि तथेति चेत् / मिमांसा-,./

न तस्यादुष्टत्वाद् अविशिष्टं हि कारणम् / मिमांसा-,./

लक्षणार्थाश्रुतिः / मिमांसा-,./

उपांशुयाजे ऽवचनाद् यथाप्रकृति / मिमांसा-,.१० /

अपनयो वा प्रवृत्या यथेतरेषाम् / मिमांसा-,.११ /

निरुप्ते स्यात् तत्संयोगात् / मिमांसा-,.१२ /

प्रवृत्ते वा प्रापणान् निमित्तस्य / मिमांसा-,.१३ /

लक्षणमात्रम् इतरत् / मिमांसा-,.१४ /

तथा चान्यार्थदर्शनम् / मिमांसा-,.१५ /

अनिरुप्ते ऽभ्युदिते प्राकृतीभ्यो निर्वपेद् इत्य् आश्मरथ्यस् तण्डुलभूतेष्व् अपनयात् / मिमांसा-,.१६ /

व्यूर्ध्वभाग्भ्यस् त्व् आलेखनस् तत्कारित्वाद् देवतापनयस्य / मिमांसा-,.१७ /

विनिरुप्ते न मुष्टीनाम् अपनयस् तद्गुणत्वात् / मिमांसा-,.१८ /

अप्राकृतेन हि संयोगस् तत्स्थानीयत्वात् / मिमांसा-,.१९ /

अभावाच् चेतरस्य स्यात् / मिमांसा-,.२० /

सान्नाय्यसंयोगान् नासन्नायतः स्यात् / मिमांसा-,.२१ /

औषधसंयोगाद् वोभयोः / मिमांसा-,.२२ /

वैगुण्यान् नेति चेत् / मिमांसा-,.२३ /

नातत्संस्कारत्वात् / मिमांसा-,.२४ /

साम्युत्थाने विश्वजित्क्रीते विभागसंयोगात् / मिमांसा-,.२५ /

प्रवृते वा प्रापणान् निमित्तस्य / मिमांसा-,.२६ /

आदेशार्थेतरा श्रुतिः / मिमांसा-,.२७ /

दीक्षापरिमाणे यथाकाम्यविशेषात् / मिमांसा-,.२८ /

द्वादशाहस् तु लिङ्गात् स्यात् / मिमांसा-,.२९ /

पौर्णमास्याम् अनियमो ऽविशेषात् / मिमांसा-,.३० /

आनन्तर्यात् तु चैत्री स्यात् / मिमांसा-,.३१ /

माघी वैकाष्टकाश्रुतेः / मिमांसा-,.३२ /

अन्या अपीति चेत् / मिमांसा-,.३३ /

न भक्तित्वाद् एषा हि लोके / मिमांसा-,.३४ /

दीक्षापराधे चानुग्रहात् / मिमांसा-,.३५ /

उत्थाने चानुप्ररोहात् / मिमांसा-,.३६ /

अस्यां च सर्वलिङ्गानि / मिमांसा-,.३७ /

दीक्षाकालस्य शिष्टत्वाद् अतिक्रमे नियतानाम् अनुत्कर्षः प्राप्तकालत्वात् / मिमांसा-,.३८ /

उत्कर्षो वा दीक्षितत्वाद् अविशिष्टं हि कारणम् / मिमांसा-,.३९ / तत्र प्रतिहोमो न विद्यते यथा पूर्वेषाम् / मिमांसा-,.४० /

कालप्राधान्याच् च / मिमांसा-,.४१ /

प्रतिषेधाच् चोर्ध्वम् अवभृथादेष्टे / मिमांसा-,.४२ /

प्रतिहोमश् चेत् सायम् अग्निहोत्रप्रभृतीनि हूयेरन् / मिमांसा-,.४३ /

प्रातस् तु षोडशिनि / मिमांसा-,.४४ /

प्रायश्चित्तम् अधिकारे सर्वत्र दोषमामान्यात् / मिमांसा-,.४५ /

प्रकरणे वा शब्दहेतुत्वात् / मिमांसा-,.४६ /

अतिद्विकारश् च / मिमांसा-,.४७ /

व्यापन्नस्याप्सु गतौ यद् अभोज्यम् आर्याणां तत् प्रतीयेत / मिमांसा-,.४८ /

विभागश्रुतेः प्रायश्चित्तं यौगपद्ये न विद्यते / मिमांसा-,.४९ /

स्याद् वा प्राप्तनिमित्तत्वात् कालमात्रम् एकम् / मिमांसा-,.५० /

तत्र विप्रतिषेधाद् विकल्पः स्यात् / मिमांसा-,.५१ /

प्रयोगान्तरे वोभयानुग्रहः स्यात् / मिमांसा-,.५२ /

न चैकसंयोगात् / मिमांसा-,.५३ /

पौर्वापर्ये पूर्वदौर्बल्यं प्रकृतिवत् / मिमांसा-,.५४ /

यद्य् उद्गाता जघन्यः स्यात् पुनर् यज्ञे सर्ववेदसं दद्याद् यथेतरस्मिन् / मिमांसा-,.५५ /

अहर्गणे यस्मिन्न् अपच्छेदस् तद् आवर्तेत कर्म पृथक्त्वात् / मिमांसा-,.५६ /



सन्निपाते वैगुण्यात् प्रकृतिवत् तुल्यकल्पा यजेरन् / मिमांसा-,./

वचनाद् वाशिरोवत्स्यात् / मिमांसा-,./

न वानारभ्यवादत्वात् / मिमांसा-,./

स्याद् वा यज्ञार्थत्वाद् औदुम्बरीवत् / मिमांसा-,./

न तत्प्रधानत्वात् / मिमांसा-,./

औदुम्बर्याः परार्थत्वात् कपालवत् / मिमांसा-,./

अन्येनापीति चेत् / मिमांसा-,./

नैकत्वात्तस्य चानधिकाराच् छब्दस्य चाविभक्तत्वात् / मिमांसा-,./

सन्निपातात् तु निमित्तविघातः स्याद् बृहद्रथन्तरवद् विभक्तशिष्टत्वाद् वसिष्ठनिर्वर्त्ये / मिमांसा-,./

अपि वा कृत्स्नसंयोगाद् अविघातः प्रतीयेत स्वामित्वेनाभिसंबन्धात् / मिमांसा-,.१० /

साम्नोः कर्मवृद्ध्यैकदेशेन संयोगे गुणत्वेनाभिसंबन्धस् तस्मात् तत्र विघातः स्यात् / मिमांसा-,.११ /

वचनात् तु द्विसंयोगस् तस्माद् एकस्य पाणिवत् / मिमांसा-,.१२ /

अर्थाभावात् तु नैवं स्यात् / मिमांसा-,.१३ /

अर्थानां च विभक्तत्वान् न तच्छ्रुतेन संबन्धः / मिमांसा-,.१४ /

प्राणेः प्रत्यङ्गभावाद् असंबन्धः प्रतीयेत / मिमांसा-,.१५ /

सत्राणि सर्ववर्णामाम् अविशेषात् / मिमांसा-,.१६ /

लिङ्गदर्शनाच् च / मिमांसा-,.१७ /

ब्राह्मणानां वेतरयोर् आर्त्विज्यभावात् / मिमांसा-,.१८ /

वचनाद् इति चेत् / मिमांसा-,.१९ /

न स्वामित्वं हि विधीयते / मिमांसा-,.२० /

गार्हपते वा स्याताम् अविप्रतिषेधात् / मिमांसा-,.२१ /

न वा कल्पविरोधात् / मिमांसा-,.२२ /

स्वामित्वाद् इतरेषाम् अहीने लिङ्गदर्शनम् / मिमांसा-,.२३ /

वासिष्ठानां वा ब्रह्मत्वनियमात् / मिमांसा-,.२४ /

सर्वेषां वा प्रतिप्रसवात् / मिमांसा-,.२५ /

विश्वामित्रस्य हौत्रनियमाद् भृगुशुनकवसिष्ठानाम् अनधिकारः / मिमांसा-,.२६ /

विहारस्य प्रभुत्वाद् अनग्नीनाम् अपि स्यात् / मिमांसा-,.२७ /

सारस्वते च दर्शनात् / मिमांसा-,.२८ /

प्रायश्चित्तविधानाच् च / मिमांसा-,.२९ /

साग्नीनां वेष्टिपूर्वत्वात् / मिमांसा-,.३० /

स्वार्थेन च प्रयुक्तत्वात् / मिमांसा-,.३१ /

सन्निवापं च दर्शयति / मिमांसा-,.३२ /

जुह्वादीनाम् अप्रयुक्तत्वात् संदेहे यथाकामी प्रतीयेत / मिमांसा-,.३३ /

अपि वान्यानि पात्राणि साधारणानि कुर्वीरन् विप्रतिषेधाच् छास्त्रकृत्वात् / मिमांसा-,.३४ /

प्रायश्चित्तम् आपदि स्यात् / मिमांसा-,.३५ /

पुरुषकल्पेन विकृतौ कर्तृनियमः स्याद् यज्ञस्य तद्गुणत्वाद् अभावाद् इतरान् प्रत्येकस्मिन्न् अधिकारः स्यात् / मिमांसा-,.३६ /

लिङ्गाच् चेज्याविशेषवत् / मिमांसा-,.३७ /

न वा संयोगपृथक्त्वाद् गुणस्येज्याप्रधानत्वाद् असंयुक्ता हि चोदना / मिमांसा-,.३८ /

इज्यायां तद्गुणत्वाद् विशेषेण नियमयेत / मिमांसा-,.३९ /



स्वदाने सर्वम् अविशेषात् / मिमांसा-,./

यस्य वा प्रभुः स्याद् इतरस्याशक्यत्वात् / मिमांसा-,./

न भूमिः स्यात् सर्वान् प्रत्यविशिष्टत्वात् / मिमांसा-,./

अकार्यत्वाच् च ततः पुनर् विशेषः स्यात् / मिमांसा-,./

नित्यत्वाच् चानित्यैर् नास्ति संबन्धः / मिमांसा-,./

शूद्रश् च धर्मशास्त्रत्वात् / मिमांसा-,./

दक्षिणाकाले यत् स्वं तत् प्रतीयेत तद्दानसंयोगात् / मिमांसा-,./

अशेषत्वात् तदन्तः स्यात् कर्मणो द्रव्यसिद्धित्वात् / मिमांसा-,./

अपि वा शेषकर्म स्यात् क्रतोः प्रत्यक्षशिष्टत्वात् / मिमांसा-,./

तथा चान्यार्थदर्शनम् / मिमांसा-,.१० /

अशेषं तु समञ्जसादानेन शेषकर्म स्यात् / मिमांसा-,.११ /

नादानस्यानित्यत्वात् / मिमांसा-,.१२ /

दीक्षासु विनिर्देशाद् अक्रत्वर्थेन संयोगस् तस्माद् अविरोधः स्यात् / मिमांसा-,.१३ /

अहर्गणे च तद्धर्मः स्यात् सर्वेषाम् अविशेषात् / मिमांसा-,.१४ /

द्वादशशतं वा प्रकृतिवत् / मिमांसा-,.१५ /

अतद्गुणत्वात् नैवं स्यात् / मिमांसा-,.१६ /

लिङ्गदर्शनाच् च / मिमांसा-,.१७ /

विकारः सन्न् उभयतो ऽविशेषात् / मिमांसा-,.१८ /

अधिकं वा प्रतिप्रसवात् / मिमांसा-,.१९ /

अनुग्रहाच् च पादवत् / मिमांसा-,.२० /

अपरिमिते शिष्टस्य सङ्ख्याप्रतिषेधस् तच्छ्रुतित्वात् / मिमांसा-,.२१ /

कल्पान्तरं वा तुल्यवत् प्रसङ्ख्यानात् / मिमांसा-,.२२ /

अनियमो ऽविशेषात् / मिमांसा-,.२३ /

अधिकं वा स्याद् बहूर्थत्वाद् इतरेषां सन्निधानात् / मिमांसा-,.२४ /

अर्थवादश् च तदर्थवत् / मिमांसा-,.२५ /

परकृतिपुराकल्पं च मनुष्यधर्मः स्याद् अर्थाय ह्य् अनुकीर्तनम् / मिमांसा-,.२६ /

तद्युक्ते च प्रतिषेधात् / मिमांसा-,.२७ /

निर्देशाद् वा तद्धर्मः स्यात् पञ्चावत्तवत् / मिमांसा-,.२८ /

विधौ तु वेदसंयोगाद् उपदेशः स्यात् / मिमांसा-,.२९ /

अर्थवादो वा विधिशेषत्वात् तस्मान् नित्यानुवादः स्यात् / मिमांसा-,.३० /

सहस्रसंवत्सरं तदायुषाम् असंभवान् मनुष्येषु / मिमांसा-,.३१ /

अपि वा तदधिकारान् मनुष्यधर्मः स्यात् / मिमांसा-,.३२ /

नासामर्थ्यात् / मिमांसा-,.३३ /

सम्बन्धादर्शनात् / मिमांसा-,.३४ /

स कुलकल्पः स्याद् इति कार्ष्णाजिनिर् एकस्मिन्न् असंभवात् / मिमांसा-,.३५ /

अपि वा कृत्स्नसंयोगाद् एकस्यैव प्रयोगः स्यात् / मिमांसा-,.३६ /

विप्रतिषेधात् तु गुण्यन्यतरः स्याद् इति लावुकायनः / मिमांसा-,.३७ /

संवत्सरो विचालित्वात् / मिमांसा-,.३८ /

सा प्रकृतिः स्याद् अधिकारात् / मिमांसा-,.३९ /

अहानि वाभिसंख्यत्वात् / मिमांसा-,.४० /



इष्टिपूर्वत्वाद् अक्रतुशेषो होमः संस्कृतेष्व् अग्निषु स्याद् पूर्वो ऽप्य् आधानस्य सर्वशेषत्वात् / मिमांसा-,./

इष्टित्वे न तु संस्तवश् चतुर्होतॄन् असंस्कृतेषु दर्शयति / मिमांसा-,./

उपदेशस् त्व् अपूर्वत्वात् / मिमांसा-,./

स सर्वेषाम् अविशेषात् / मिमांसा-,./

अपि वा क्रत्वभावाद् अनाहिताग्नेर् अशेषभूतनिर्देशः / मिमांसा-,./

जपो वानग्निसंयोगात् / मिमांसा-,./

इष्टित्वेन संस्तुते होमः स्याद् अनारभ्याग्निसंयोगाद् इतरेषाम् अवाच्यत्वात् / मिमांसा-,./

उभयोः पितृयज्ञवत् / मिमांसा-,./

निर्देशो वानाहिताग्नेर् अनारभ्याग्निसंयोगात् / मिमांसा-,./

पितृयज्ञे संयुक्तस्य पुनर् वचनम् / मिमांसा-,.१० /

उपनयन्न् आदधीत होमसंयोगात् / मिमांसा-,.११ /

स्थपतीष्टवल् लौकिके वा विद्याकर्मानुपूर्वत्वात् / मिमांसा-,.१२ /

आधानं च भार्यासंयुक्तम् / मिमांसा-,.१३ /

अकर्म चोर्ध्वम् आधानात् तत्समवायो हि कर्मभिः / मिमांसा-,.१४ /

श्राद्धवद् इति चेत् / मिमांसा-,.१५ /

न श्रुतिविप्रतिषेधात् / मिमांसा-,.१६ /

सर्वार्थत्वाच् च पुत्रार्थो न प्रयोजयेत् / मिमांसा-,.१७ /

सोमपानात् तु प्रापणं द्वितीयस्य तस्माद् उपयच्छेत् / मिमांसा-,.१८ /

पितृयज्ञे तु दर्शनात् प्राग् आधानात् प्रतीयेत / मिमांसा-,.१९ /

स्थपतीष्टिः प्रयाजवद् अग्नयाधेयं प्रयोजयेत् तादर्थ्याच् चापवृज्येत / मिमांसा-,.२० /

अपि वा लौकिके ऽग्नौ स्याद् आधानस्यासर्वशेषत्वात् / मिमांसा-,.२१ /

अवकीर्णिपशुश् च तद्वद् आधानस्याप्राप्तकलत्वात् / मिमांसा-,.२२ /

उदगयनपूर्वपक्षाहः पुण्याहेषु दैवानि स्मृतिरूपान्य् आर्थदर्शनात् / मिमांसा-,.२३ /

अहनि च कर्मसाकल्यम् / मिमांसा-,.२४ /

इतरेषु तु पित्र्याणि / मिमांसा-,.२५ /

याच्ञाक्रयणम् अविद्यमाने लोकवत् / मिमांसा-,.२६ /

नियतं वार्थवत्वात् स्यात् / मिमांसा-,.२७ /

तथा भक्षप्रैषाच् छादनसंज्ञप्तहोमद्वेषम् / मिमांसा-,.२८ /

अनर्थकं त्व् अनित्यं स्यात् / मिमांसा-,.२९ /

पशुचोदनायाम् अनियमो ऽविशेषात् / मिमांसा-,.३० /

छागो वा मन्त्रवर्णात् / मिमांसा-,.३१ /

न चोदनाविरोधात् / मिमांसा-,.३२ /

आर्षेयवद् इति चेत् / मिमांसा-,.३३ / न तत्र ह्य् अचोदित्वात् / मिमांसा-,.३४ /

नियमो वैकार्थ्यं ह्य् अर्थभेदाद् भेदः पृथवत्वेनाभिधानात् / मिमांसा-,.३५ /

अनियमो वार्थान्तरत्वाद् अन्यत्वं व्यतिरेकशब्दभेदाभ्याम् / मिमांसा-,.३६ /

रूपाल् लिङ्गाच् च / मिमांसा-,.३७ /

छागे न कर्माख्या रूपलिङ्गाभ्याम् / मिमांसा-,.३८ /

रूपान्यत्वान् न जातिशब्दः स्यात् / मिमांसा-,.३९ /

विकारो नौत्पत्तिकत्वात् / मिमांसा-,.४० /

स नैमित्तिकः पशोर् गुणस्याचोदितत्वात् / मिमांसा-,.४१ /

जातेर् वा तत्प्रायवचनार्थवत्वाभ्याम् / मिमांसा-,.४२ /




श्रुतिप्रमाणत्वाच् छेषाणां मुख्यभेदे यथाधिकारं भावः स्यात् / मिमांसा-,./

उत्पत्त्यर्थाविभागाद् वा सत्त्ववद् ऐकधर्म्यं स्यात् / मिमांसा-,./

चोदनाशेषभावाद् वा तद्भेदाद् व्यवतिष्ठेरन्न् उत्पत्तेर् गुणभूतत्वात् / मिमांसा-,./

सत्वे लक्षणसंयोगात् सार्वत्रिकं प्रतीयेत / मिमांसा-,./

अविभागात् तु नैवं स्यात् / मिमांसा-,./

द्व्यर्थत्वं च विप्रतिषिद्धम् / मिमांसा-,./

उत्पत्तौ विध्यभावाद् वा चोदनायां प्रवृत्तिः स्यात् ततश् च कर्मभेदः स्यात् / मिमांसा-,./

यदि वाप्य् अभिधानवत् सामान्यात् सर्वधर्मः स्यात् / मिमांसा-,./

अर्थस्य त्व् अविभक्तत्वात् तथा स्याद् अभिधानेषु पूर्ववत्त्वात् प्रयोगस्य कर्मणः शब्दभाव्यत्वाद् विभागाच् छेषाणाम् अप्रवृत्तिः स्यात् / मिमांसा-,./

स्मृतिर् इति चेत् / मिमांसा-,.१० /

न पूर्ववत्वात् / मिमांसा-,.११ /

अर्थस्य शब्दभाव्यत्वात् प्रकरणनिबन्धनाच् छब्दाद् एवान्यत्र भावः स्यात् / मिमांसा-,.१२ /

सामाने पूर्ववत्वाद् उत्पन्नाधिकारः स्यात् / मिमांसा-,.१३ /

श्येनस्येति चेति / मिमांसा-,.१४ /

नासन्निधानात् / मिमांसा-,.१५ /

अपि वा यद्य् अपूर्वत्वाद् इतरदधिकार्थे ज्यौतिष्टोमिकाद् विधेस् तद्वाचकं समानं स्यात् / मिमांसा-,.१६ /

पञ्चसञ्चरेष्व् अर्थवादातिदेशः सन्निधानात् / मिमांसा-,.१७ /

सर्वस्य वैकशब्द्यात् / मिमांसा-,.१८ /

लिङ्गदर्शनाच् च / मिमांसा-,.१९ /

विहिताम्नानान् नेति चेत् / मिमांसा-,.२० /

नेतरार्थत्वात् / मिमांसा-,.२१ /

एककपालैन्द्राग्नौ च तद्वत् / मिमांसा-,.२२ /

एककपालानां वैश्वदेविकः प्रकृतिर् आग्रयणे सर्वहोमापरिवृत्तिदर्शनाद् अवभृथे च सकृद् द्व्यवदानस्य वचनात् / मिमांसा-,.२३ /



साम्नो ऽभिधानशब्देन प्रवृत्तिः स्याद् यथाशिष्टम् / मिमांसा-,./

शब्दैस् त्व् अर्थविधित्वाद् अर्थान्तरे ऽप्रवृत्तिः स्यात् पृथग्भावात् क्रियाया ह्य् अभिसम्बन्धः / मिमांसा-,./

स्वार्थे वा स्यात् प्रयोजनं क्रियायास् तदङ्गभावेनोपदिश्येरन् / मिमांसा-,./

शब्दमात्रम् इति चेत् / मिमांसा-,./

नौत्पत्तिकत्वात् / मिमांसा-,./

शास्त्रं चैवम् अनर्थकं स्यात् / मिमांसा-,./

स्वरस्येति चेत् / मिमांसा-,./

नार्थाभावाच् छ्रुतेर् असंबन्धः / मिमांसा-,./

स्वरस् तूत्पत्तिषु स्यान् मात्रावर्णाविभक्तत्वात् / मिमांसा-,./

लिङ्गदर्शनाच् च / मिमांसा-,.१० /

अश्रुतेस् तु विकारस्योत्तरासु यथाश्रुति / मिमांसा-,.११ /

शब्दानां चासामञ्जस्यम् / मिमांसा-,.१२ /

अपि तु कर्मशब्दः स्याद् भावो ऽर्थः प्रसिद्धग्रहणत्वाद् विकारो ह्य् अविशिष्टो ऽन्यैः / मिमांसा-,.१३ /

अद्रव्यं चापि दृश्यते / मिमांसा-,.१४ /

तस्य च क्रिया ग्रहणार्था नानार्थेषु विरूपित्वाद् अर्थो ह्य् आसामलौकिको विधानात् / मिमांसा-,.१५ /

तस्मिन् संज्ञाविशेषाः स्युर् विकारपृथक्त्वात् / मिमांसा-,.१६ /

योनिशस्याश् च तुल्यवद् इतराभिर् विधीयन्ते / मिमांसा-,.१७ /

अयोनौ चापि दृश्यते ऽतथायोनि / मिमांसा-,.१८ /

ऐकार्थ्ये नास्ति वैरूप्यम् इति चेत् / मिमांसा-,.१९ /

स्याद् अर्थान्तरेष्व् अनिष्पत्तेर् यथा पाके / मिमांसा-,.२० /

शब्दानां च सामञ्जस्यं / मिमांसा-,.२१ /



उक्तं क्रियाभिधानं तच्छ्रुताव् अन्यत्र विधिप्रदेशः स्यात् / मिमांसा-,./

अपूर्वे वापि भागित्वात् / मिमांसा-,./

नाम्नस् त्व् औत्पत्तिकत्वात् / मिमांसा-,./

प्रत्यक्षाद् गुणसंयोगात् क्रियाभिधानं स्यात् तदभावे ऽप्रसिद्धं स्यात् / मिमांसा-,./

अपि वा सत्रकर्मणि गुणार्थैषा श्रुतिः स्यात् / मिमांसा-,./

विश्वजिति सर्वपृष्ठे तत्पूर्वकत्वाज् ज्यौतिष्टोमिकानि पृष्ठान्य् अस्ति च पृष्ठशब्दः / मिमांसा-,./

षडहाद् वा तत्र हि चोदना / मिमांसा-,./

लिङ्गाच् च / मिमांसा-,./

उत्पन्नाधिकारो ज्योतिष्टोमः / मिमांसा-,./

द्वयोर् विधिर् इति चेत् / मिमांसा-,.१० /

न व्यर्थत्वात् सर्वशब्दस्य / मिमांसा-,.११ /

तथावभृथः सोमात् / मिमांसा-,.१२ /

प्रकृतेर् इति चेत् / मिमांसा-,.१३ /

न भक्तित्वात् / मिमांसा-,.१४ /

लिङ्गदर्शनाच् च / मिमांसा-,.१५ /

द्रव्यादेशे तद्द्रव्यः श्रुतिसंयोगात् पुरोडाशस् त्व् अनादेशे तत्प्रकृतित्वात् / मिमांसा-,.१६ /

गुणविधिस् तु न गृह्णीयात् समत्वात् / मिमांसा-,.१७ /

निर्मन्थ्यादिषु चैवम् / मिमांसा-,.१८ /

प्रणयनं तु सौमिकम् अवाच्यं हीतरत् / मिमांसा-,.१९ /

उत्तरवेदिप्रतिषेधश् च तद्वत् / मिमांसा-,.२० /

प्राकृतं वानामत्वात् / मिमांसा-,.२१ /

परिसङ्ख्यर्थं श्रवणं गुणार्थवादो वा / मिमांसा-,.२२ /

प्रथमोत्तमयोः प्रणयनमुत्तरवेदिप्रतिषेधात् / मिमांसा-,.२३ /

मध्यमयोर् वा गत्यर्थवादात् / मिमांसा-,.२४ /

औत्तरवेदिको ऽनारभ्यवादप्रतिषेधः / मिमांसा-,.२५ /

स्वरसामैककपालामिक्षं च लिङ्गदर्शनात् / मिमांसा-,.२६ /

चोदनासामान्याद् वा / मिमांसा-,.२७ /

कर्मजे कर्म यूपवत् / मिमांसा-,.२८ /

रूपं वाशेषभूतत्वात् / मिमांसा-,.२९ /

विशये लौकिकः स्यात् सर्वार्थत्वात् / मिमांसा-,.३० /

न वैदिकम् अर्थनिर्देशात् / मिमांसा-,.३१ /

तथोत्पत्तिर् इतरेषां समत्वात् / मिमांसा-,.३२ /

संस्कृतं स्यात् तच्छब्दत्वात् / मिमांसा-,.३३ /

भक्त्या वायज्ञशेषत्वाद् गुणानाम् अभिधानत्वात् / मिमांसा-,.३४ /

कर्मणः पृष्टशब्दः स्यात् तथाभूतोपदेशात् / मिमांसा-,.३५ /

अभिधानोपदेशाद् वा विप्रतिषेधाद् द्रव्येषु पृष्ठशब्दः स्यात् / मिमांसा-,.३६ /



इतिकर्तव्यता विधेर् यजतेः पूर्ववत्त्वम् / मिमांसा-,./

स लौकिकः स्याद् दृष्टप्रवृत्तित्वात् / मिमांसा-,./

वचनात् तु ततो ऽन्यत्वम् / मिमांसा-,./

लिङ्गेन वा नियम्येत लिङ्गस्य तद्गुणत्वात् / मिमांसा-,./

अपि वान्यायपूर्वत्वाद् यत्र नित्यानुवादवचनानि स्युः / मिमांसा-,./

मिथो विप्रतिषेधाच् च गुणानां यथार्थतल्पना स्यात् / मिमांसा-,./

भागित्वात् तु नियम्येत गुणानाम् अभिधानत्वात् सम्बन्धाद् अभिधानवद् यथा धेनुः किशोरेण / मिमांसा-,./

उत्पत्तीनां समत्वाद् वा यथाधिकारं भावः स्यात् / मिमांसा-,./

उत्पत्तिशेषवचनं च विप्रतिषिद्धम् एकस्मिन् / मिमांसा-,./

विध्यन्तो वा प्रकृतिवच् चोदनायां प्रवर्तेत तथा हि लिङ्गदर्शनम् / मिमांसा-,.१० /

लिङ्गहेतुत्वाद् अलिङ्गे लौकिकं स्यात् / मिमांसा-,.११ /

लिङ्गस्य पूर्ववत्तवाच् चोदनाशब्दसामान्याद् एकेनापि निरूप्येत यथा स्थालीपुलाकेन / मिमांसा-,.१२ /

द्वादशाहिकम् अहर्गणे तत्प्रकृतित्वाद् ऐकाहिकम् अधिकागमात् तदाख्यं स्याद् एकाहवत् / मिमांसा-,.१३ /

लिङ्गाच् च / मिमांसा-,.१४ /

न वा क्रत्वभिधानाद् अधिकानाम् अशब्दत्वम् / मिमांसा-,.१५ /

लिङ्गं संघातधर्मः स्यात् तदर्थापत्तेर् द्रव्यवत् / मिमांसा-,.१६ /

न वार्थधर्मत्वात् संघातस्य गुणत्वात् / मिमांसा-,.१७ /

अर्थापत्तेर् द्रव्येषु धर्मलाभः स्यात् / मिमांसा-,.१८ /

प्रवृत्त्या नियतस्य लिङ्गदर्शनम् / मिमांसा-,.१९ /

विहारदर्शनं विशिष्टस्यानारभ्यवादानां प्रकृत्यर्थतवात् / मिमांसा-,.२० /



अथ विशेषलक्षणम् / मिमांसा-,./

यस्य लिङ्गमर्थसंयोगादभिधानवत् / मिमांसा-,./

प्रवृत्तित्वादिष्टेः सोमे प्रवृत्तिः स्यात् / मिमांसा-,./

लिङ्गदर्शनाच्च / मिमांसा-,./

कृत्स्वविधानाद्वापूर्वत्वम् / मिमांसा-,./

स्त्रुगभिघारणाभावस्य च नित्यानुवादात् / मिमांसा-,./

विधिरिति चेत् / मिमांसा-,./

न वाक्यशेषत्वात् / मिमांसा-,./

शङ्कतेचानुपोषणात् / मिमांसा-,./

दर्शनमैष्टिकानां स्यात् / मिमांसा-,.१० /

इष्टिषु दर्शपूर्णमासयोः प्रवृत्तिः स्यात् / मिमांसा-,.११ /

पशौ च लिङ्गदर्शनात् / मिमांसा-,.१२ /

दैक्षस्य चेतरेषु / मिमांसा-,.१३ /

ऐकादशिनेषु सौत्यस्य द्वैरशन्यस्य दर्शनात् / मिमांसा-,.१४ /

तत्प्रवृत्तिर्गणेषु स्यात्प्रतिपशु यूपदर्शनात् / मिमांसा-,.१५ /

अव्यक्तासु तु सोमस्य / मिमांसा-,.१६ /

गणेषु द्वादशाहस्य / मिमांसा-,.१७ /

गव्यस्य च तदादिषु / मिमांसा-,.१८ /

निकायिनां च पूर्वस्योत्तरेषु प्रवृत्तिः स्यात् / मिमांसा-,.१९ /

कर्मणस्त्वप्रवृत्तित्वात्फलनियमकर्तृ समुदायस्यानन्वयस्तद्बन्धनत्वात् / मिमांसा-,.२० /

प्रवृत्तौ चापि तादर्थ्यात् / मिमांसा-,.२१ /

अश्रुतित्वाच्च / मिमांसा-,.२२ /

गुणकामेष्वाश्रितत्वात्प्रवृत्तिः स्यात् / मिमांसा-,.२३ /

निवृत्तिर्वा कर्मभेगात् / मिमांसा-,.२४ /

अपि वातद्विकारत्वात्क्रत्वर्थत्वात्प्रवृत्तिः स्यात् / मिमांसा-,.२५ /

एककर्मणि विकत्पो ऽविभागो हि चोदनैकत्वात् / मिमांसा-,.२६ /

लिङ्गसाधारण्याद्विकल्पः स्यात् / मिमांसा-,.२७ /

ऐकार्थ्याद्वा नियम्येत पूर्ववत्त्वाद्विकारो हि / मिमांसा-,.२८ /

अश्रुतित्वान्नेति चेत् / मिमांसा-,.२९ /

स्याल्लिङ्गभावात् / मिमांसा-,.३० /

तथा चान्यार्थदर्शनम् / मिमांसा-,.३१ /

विप्रतिपत्तौ हविषा नियम्येत कर्मणस्तदुपाख्यत्वात् / मिमांसा-,.३२ /

तेन च कर्मसंयोगात् / मिमांसा-,.३३ /

गुणत्वेनदेवताश्रुतिः / मिमांसा-,.३४ /

हिरण्यमाज्यधर्मस्तेजस्त्वात् / मिमांसा-,.३५ /

धर्मानुग्रहाच्च / मिमांसा-,.३६ /

औषधं वा विशदत्वात् / मिमांसा-,.३७ /

चरुशब्दाच्च / मिमांसा-,.३८ /

तस्मिंश्च श्रपणश्रुतेः / मिमांसा-,.३९ /

मधूदके द्रव्यसामान्यात्पयोविकारः स्यात् / मिमांसा-,.४० /

आज्यं वा वर्णसामान्यात् / मिमांसा-,.४१ /

धर्मानुग्रहाच्च / मिमांसा-,.४२ /

पूर्वस्य चाविशिष्टत्वात् / मिमांसा-,.४३ /



वाजिने सोमपूर्वत्वं सौत्रामण्याञ्च ग्रहेषु ताच्छब्द्यात् / मिमांसा-,./

अनुवषट्कारच्च / मिमांसा-,./

समुपहूय भक्षणाच्च / मिमांसा-,./

क्रयणश्रपणपुरोरुगुपयामग्रहणासादनवासोपनहनञ्च तद्वत् / मिमांसा-,./

हविषा वा नियम्येत तद्विकारत्वात् / मिमांसा-,./

प्रशंसा सोमशब्दः / मिमांसा-,./

वचनानीतराणि / मिमांसा-,./

व्यपदेशश्च तद्वत् / मिमांसा-,./

पशुपुरोडाशस्य च लिङ्गदर्शनम् / मिमांसा-,./

पशुः पुरोडाशविकारः स्याद्देवतासामान्यात् / मिमांसा-,.१० /

प्रोक्षणातच्च / मिमांसा-,.११ /

पर्यग्निकरणाच्च / मिमांसा-,.१२ /

सान्नाय्यं वा तत्प्रभवत्वात् / मिमांसा-,.१३ /

तस्य च पात्रदर्शनात् / मिमांसा-,.१४ /

दध्नः स्यान्मूर्तिसामान्यात् / मिमांसा-,.१५ /

पयो वा कालसामान्यात् / मिमांसा-,.१६ /

पश्र्वानन्तर्यात् / मिमांसा-,.१७ /

द्रवत्वं चाविशिष्टम् / मिमांसा-,.१८ /

आमिक्षोभयभाव्यत्वादुभयविकारः स्यात् / मिमांसा-,.१९ /

एकं वा चोदनैकत्वात् / मिमांसा-,.२० /

दधिसंघातसामान्यात् / मिमांसा-,.२१ /

पयो वा तत्प्रधानत्वाल्लोकवद्दध्नस्तदर्थत्वात् / मिमांसा-,.२२ /

धर्मानुग्रहाच्च / मिमांसा-,.२३ /

सत्रमहीनश्च द्वादशाहस्तस्योभयथा प्रवृत्तिरैककर्म्यात् / मिमांसा-,.२४ /

अपि वा यजतिश्रुतेरहीनभूतप्रवृत्तिः स्यात्प्रकृत्या तुल्य शब्दत्वात् / मिमांसा-,.२५ /

द्विरात्रादीनामेकादशरात्रादहीनत्वं यजतिचोदनात् / मिमांसा-,.२६ /

त्रयोदशरात्रादिषु सत्रभूतस्तेष्वासनोपायिचोदनात् / मिमांसा-,.२७ /

लिङ्गाच्च / मिमांसा-,.२८ /

अन्यतरतो ऽतिरात्रत्वात् पञ्चदशरात्रस्याहीनत्वं कुण्डगयिनामयनस्य च चद्भूतेष्वहूनत्वं कुण्डगयिनामयनस्य दर्शनात् / मिमांसा-,.२९ /

अहीनवचनाच्च / मिमांसा-,.३० /

सत्रे वोपायिचोदनात् / मिमांसा-,.३१ /

सत्रलिङ्गञ्चदर्शयति / मिमांसा-,.३२ /



हविर्गणे परमुत्तरस्य देशसामान्यात् / मिमांसा-,./

देवतया वा नियम्येतशब्दत्त्वादितरस्याश्रुतित्वात् / मिमांसा-,./

गणचोदनायां यस्य लिङ्गं तदावृत्तिः प्रतीयेताग्नेयवत् / मिमांसा-,./

नानाहानि वा संघातत्वात्प्रवृत्तिलिङ्गेन चोदनात् / मिमांसा-,./

तथा चान्यार्थदर्शनम् / मिमांसा-,./

कालाभ्यासे ऽपि बादरिः कर्मभेदात् / मिमांसा-,./

तदावृत्तिं तु जैमिनिरह्रामप्रत्यक्षसंख्यत्वात् / मिमांसा-,./

संस्थागणेषु तदभ्यासः प्रतीयेत कृतलक्षणग्रहणात् / मिमांसा-,./

अधिकाराद्वा प्रकृतिस्तस्तद्विशिष्टा स्यादभिधानस्य तन्निमित्तत्वात् / मिमांसा-,./

गणादुपचयस्तत्प्रकृतित्वात् / मिमांसा-,.१० /

एकाहाद्वा तेषां समत्वात्स्यात् / मिमांसा-,.११ /

गायत्रीषु प्राकृतीनामवच्छेदः प्रकृत्त्याधिकारात्संख्या त्वादग्निष्टोमवदव्यतिरेकात्तदाख्यत्वम् / मिमांसा-,.१२ /

तन्नित्यवच्च प्रथक्सतीषु तद्वचनम् / मिमांसा-,.१३ /

न विंशतौ दशेति चेत् / मिमांसा-,.१४ /

ऐकसंख्यमेव स्यात् / मिमांसा-,.१४ /

गुणाद्वाद्रव्यशब्दः स्यादसर्वविषयत्वात् / मिमांसा-,.१६ /

गोत्वच्च समन्वयः / मिमांसा-,.१७ /

संख्यायाश्च शब्दत्वात् / मिमांसा-,.१८ /

इतरस्याश्रुतित्वाच्च / मिमांसा-,.१९ /

द्रव्यान्तरे ऽनिवेशादुक्थ्यलोपैर्विशिष्टं स्यात् / मिमांसा-,.२० /

अशास्त्रलक्षमत्वाच्च / मिमांसा-,.२१ /

उत्पत्तिनामधेयत्वाद्भतया पृथक्सतीषु स्यात् / मिमांसा-,.२२ /

वचनमिति चेत् / मिमांसा-,.२३ /

यावदुक्तम् / मिमांसा-,.२४ /

अपूर्वे च विकल्पः स्याद्यदि संख्याविधानम् / मिमांसा-,.२५ /

ऋग्गुणत्वान्नेति चेत् / मिमांसा-,.२६ /

तथा पूर्ववति स्यात् / मिमांसा-,.२७ /

गुणावेशश्च सर्वत्र / मिमांसा-,.२८ /

निष्पन्नग्रहणान्नेति चेत् / मिमांसा-,.२९ /

तथेहापिस्यात् / मिमांसा-,.३० /

यदि वाविशये नियमः प्रकृत्युपबन्धाच्छरेष्वपि प्रसिद्धः स्यात् / मिमांसा-,.३१ /

द्रष्टः प्रयोग इतिचेत् / मिमांसा-,.३२ /

तथा शरेष्वपि / मिमांसा-,.३३ /

भत्तयेति चेत् / मिमांसा-,.३४ /

तथेतरस्मिन् / मिमांसा-,.३५ /

अर्थस्य चासमाप्तत्वान्न तासामेकदेशे स्यात् / मिमांसा-,.३६ /



दर्विहोमो यज्ञाभिधानं होमसंयोगात् / मिमांसा-,./

स लौकिकानां स्यात्कर्तुस्तदाख्यत्वात् / मिमांसा-,./

सर्वेषां वा दर्शनाद्वास्तुहोमे / मिमांसा-,./

जुहोतिचोदनानां वा तत्संयोगात् / मिमांसा-,./

द्रव्योपदेशाद्वा गुणाभिधानं स्यात् / मिमांसा-,./

न लौकिकानामाचारग्रहणत्वाच्छब्दवतां चान्यार्थविधानात् / मिमांसा-,./

दर्शनाच्चान्यपात्रस्य / मिमांसा-,./

तथाग्निहविषोः / मिमांसा-,./

उक्तश्चार्थसम्बन्धः / मिमांसा-,./

तस्मिन्सोमः प्रवर्तेताव्यक्तत्वात् / मिमांसा-,.१० /

न वा स्वाहाकारेण संयोगाद्वाषट्कारस्य च निर्देशात्तन्त्रेतेन विप्रतिषेधात् / मिमांसा-,.११ /

शब्दान्तरत्वात् / मिमांसा-,.१२ /

लिङ्गदर्शनाच्च / मिमांसा-,.१३ /

उत्तरार्थस्तु स्वाहाकारो यथा साप्तदश्यं तत्राविप्रतिषिद्धा पुनः प्रवृत्तिर्लिङ्गदर्शनात्पशुवत् / मिमांसा-,.१४ /

अनुत्तरार्थोवार्ऽथवत्त्वादानर्थक्याद्धि प्राकृतस्योपरोधःस्यात् / मिमांसा-,.१५ /

न प्रकृतावपीति चेत् / मिमांसा-,.१६ /

उक्तं समवाये पारदौर्बल्यम् / मिमांसा-,.१७ /

तच्चोदना वेष्टेः प्रवृत्तित्वाद्विधिः स्यात् / मिमांसा-,.१८ /

शब्दसानर्थ्याच्च / मिमांसा-,.१९ /

लिङ्गदर्शनाच्च / मिमांसा-,.२० /

तत्राभावस्य हेतुत्वाद्गुणार्थेस्याददर्शनम् / मिमांसा-,.२१ /

विधिरिति चेत् / मिमांसा-,.२२ /

न वाक्यशेषत्वाद्गुणार्थे च समाधानं नानात्वेनोपपद्यते / मिमांसा-,.२३ /

येषां वापरयोर्हेमस्तेषां स्यादविरोधात् / मिमांसा-,.२४ /

तत्रौषधानि चोद्यन्ते तानि स्थानेन गम्येरन् / मिमांसा-,.२५ /

लिङ्गाद्वा शेषहोमयोः / मिमांसा-,.२६ /

प्रतिपत्ति तु ते भवतस्तस्मादताद्विकारत्वम् / मिमांसा-,.२७ /

सन्निपाते विरोधिनामप्रवृत्तिः प्रतीयेत विध्युत्पत्तिव्यवस्थानादर्थस्यापरिणेघत्वाद्वचनाद् अतिदेशः स्यात् / मिमांसा-,.१८ /



यज्ञकर्म प्रधानं तद्धि चोदनाभूतं तस्य द्रव्येषु संस्कारस्तत्प्रयुक्तस्तदर्थत्वात् / मिमांसा-,./

संस्कारे युज्यमानानां तादर्थ्यात्तत्प्रयुक्तं स्यात् / मिमांसा-,./

तेन त्वर्थेन यज्ञस्य संयोगाद्धर्मसम्बन्धस्तस्माद्यज्ञ प्रयुक्तं स्यात्संस्कारस्य तदर्थत्वात् / मिमांसा-,./

फलदेवतयोश्च / मिमांसा-,./

न चोदनाती हि ताद्गुण्यम् / मिमांसा-,./

देवता वा प्रयोजयेदतिथिवद्भोजनस्यतदर्थत्वात् / मिमांसा-,./

अर्थापत्याच / मिमांसा-,./

ततश्च तेन सम्बन्धः / मिमांसा-,./

अपि वा शब्दपूर्वत्वाद्यज्ञकर्म प्रधानं स्याद्गुणत्वे देवताश्रुतिः / मिमांसा-,./

अतिथौ तत्प्रधानत्वमभावः कर्मणि स्यात्तस्य प्रीतिप्रधानत्वात् / मिमांसा-,.१० /

द्रव्यसंख्याहितुसमुदायं वा श्रुतिसंयोगात् / मिमांसा-,.११ /

अर्थकारिते च द्रव्येण न व्यवस्था स्यात् / मिमांसा-,.१२ /

अर्थो वा स्यात्प्रयोजनमितरेषामचोदनात्तस्य च गुणभूतत्वात् / मिमांसा-,.१३ /

अपूर्वत्वाद्व्यवस्था स्यात् / मिमांसा-,.१४ /

तत्प्रयुक्तत्वे च धर्मस्य सर्वविषयत्वम् / मिमांसा-,.१५ /

तद्यक्तस्येति चेत् / मिमांसा-,.१६ /

नाश्रुतित्वात् / मिमांसा-,.१७ /

अधिकारादिति चेत् / मिमांसा-,.१८ /

तुल्येषु नाधिकारः स्यादचोदितश्च सम्बन्धः पृथक्सतां यज्ञार्थेनाभिसम्बन्धस्तस्माद्यज्ञप्रयोजनम् / मिमांसा-,.१९ /

देशबद्धमुपांशुत्वं तेषां स्याछ्रुतिनिर्देशात्तस्य च तत्रभावात् / मिमांसा-,.२० /

यज्ञस्य वा तत्संयोगात् / मिमांसा-,.२१ /

अनुवादश्च तदर्थवत् / मिमांसा-,.२२ /

प्रणीतादि तथेति चेत् / मिमांसा-,.२३ /

न यज्ञस्याश्रुतित्वात् / मिमांसा-,.२४ /

तद्देशानां वा संघातस्यचोदितत्वात् / मिमांसा-,.२५ /

अग्निधर्मः प्रतिष्टकं संघातात्पौर्णमासीवत् / मिमांसा-,.२६ /

अग्नेर्वा स्याद्द्रव्यैकत्वादितरासां तदर्थ त्वात् / मिमांसा-,.२७ /

चोदनासमुदायात्तु पौर्ण मास्यां तथा स्यात् / मिमांसा-,.२८ /

पत्नीसंयाजान्तत्वं सर्वेषामविशेषात् / मिमांसा-,.२९ /

लिङ्गाद्वा प्रागुत्तमात् / मिमांसा-,.३० /

अनुवादो वा दोक्षा यथा नक्तं संस्थापनस्य / मिमांसा-,.३१ /

स्याद्वानारभ्य विधानादन्ते लिङ्ग विरोधात् / मिमांसा-,.३२ /

अभ्यासः सामिधेनीनां प्राथम्यात्स्थानधर्मःस्यात् / मिमांसा-,.३३ /

इष्ट्यावृतौ प्रयाजवदावर्तेतारम्भणीया / मिमांसा-,.३४ /

सकृद्वाऽरम्भसंयागादेकः पुनरारम्भो यावज्जीवप्रयोगात् / मिमांसा-,.३५ /

अर्थाभिधानसंयोगान्मन्त्रेषु शेषभावः स्यात्तत्राचोदितमप्राप्तं चोदिताभिधानात् / मिमांसा-,.३६ /

ततश्चावचनन्तेषामितरार्थं प्रयुज्यते / मिमांसा-,.३७ /

गुणशब्दस्तथेति चेत् / मिमांसा-,.३८ /

नसमवायात् / मिमांसा-,.३९ /

चोदिते तु परार्थत्वाद्विधिवदविकारः स्यात् / मिमांसा-,.४० /

विकारस्तत्प्रधाने स्यात् / मिमांसा-,.४१ /

असंयोगात्तदर्थेषु तद्विशिष्टं प्रतीयेत / मिमांसा-,.४२ /

कर्माभावादेवमिति चेत् / मिमांसा-,.४३ /

न परर्थत्वात् / मिमांसा-,.४४ /

लिङ्गविशेषनिर्देशात्समानविधानेष्वप्राप्ता सारस्वती स्त्रीत्वात् / मिमांसा-,.४५ /

पश्र्वभिधानाद्वा तद्धि चोदनाभूतं पुंविषयं पुनः पशुत्वम् / मिमांसा-,.४६ /

विशेषो वा तदर्थनिर्देशात् / मिमांसा-,.४७ /

पशुत्वं चैकशब्द्यात् / मिमांसा-,.४८ /

यथोक्तं वा सन्निधानात् / मिमांसा-,.४९ /

आम्नातादन्यदधिकारे वचनाद्विकारः स्यात् / मिमांसा-,.५० /

द्वैधं वा तुल्यहेतुत्वात्सामान्याद्विकल्पः स्यात् / मिमांसा-,.५१ /

उपदेशाच्च साम्नः / मिमांसा-,.५२ /

नियमो वा श्रुतिविशेषादितरत्साप्तदश्यवत् / मिमांसा-,.५३ /

अगाणाच्छब्दान्यत्वे तथाभूतोपदेशः स्यात् / मिमांसा-,.५४ /

यत्स्थाने बा तद्गीतिः स्यात्पदान्यत्वप्रधानत्वात् / मिमांसा-,.५५ /

गानसंयोगाच्च / मिमांसा-,.५६ /

वचनमिति चेत् / मिमांसा-,.५७ /

न तत्प्रधानत्वात् / मिमांसा-,.५८ /



सामानि मन्त्रमेके स्मृत्युपदेशाभ्याम् / मिमांसा-,./

तदुक्तदोषम् / मिमांसा-,./

कर्म वा विधिलक्षणम् / मिमांसा-,./

तादृग्द्रव्यं वचनात्पाकयज्ञवत् / मिमांसा-,./

तत्रीविप्रतिपिद्धो द्रव्यान्तरे व्यतिरेतकः प्रदेशश्च / मिमांसा-,./

शब्दार्थत्वात्तुनैवं स्यात् / मिमांसा-,./

परार्थत्वाच्च शब्दानाम् / मिमांसा-,./

असम्बन्धश्च कर्मणा शब्दयोः पृथगर्थत्वात् / मिमांसा-,./

संस्कारश्चाप्रकरणे ऽग्निवत्स्यात्प्रयुक्तत्वात् / मिमांसा-,./

अकार्यत्वाच्च शब्दानामप्रयोगः प्रतीयेत / मिमांसा-,.१० /

आश्रितत्वाच्च / मिमांसा-,.११ /

प्रयुज्यत इति चेत् / मिमांसा-,.१२ /

ग्रहणार्थं प्रयुज्येत / मिमांसा-,.१३ /

तृचे स्याच्छ्रुतिनिर्देशात् / मिमांसा-,.१४ /

शब्दार्थत्वाद्विकारस्य / मिमांसा-,.१५ /

दर्शयति च / मिमांसा-,.१६ /

वाक्यानां तु विभक्तत्वात्प्रतिशब्दं समाप्तिः स्यात्सं स्कारस्य तदर्थत्वात् / मिमांसा-,.१७ /

तथा चान्यार्थ दर्शनम् / मिमांसा-,.१८ /

अनवानोपदेशश्च तद्वत् / मिमांसा-,.१९ /

अभ्यासेनेतरा श्रुतिः / मिमांसा-,.२० /

तदभ्यासः समासु स्यात् / मिमांसा-,.२१ /

लिङ्गदर्शनाच्च / मिमांसा-,.२२ /

नैमित्तिकं तूत्तरात्वमानन्तर्यात्प्रतीयेत / मिमांसा-,.२३ /

ऐकार्थ्याच्च तदभ्यासः / मिमांसा-,.२४ /

प्रागाथिकं तु / मिमांसा-,.२५ /

प्रगाथे च / मिमांसा-,.२७ /

लिङ्गदर्शनाव्यतिरेतकाच्च / मिमांसा-,.२८ /

अर्थैकत्वाद्विकल्पः स्यात् / मिमांसा-,.२९ /

अर्थैकत्वाद्विकल्पः स्यादृक्सामयोस्तदर्थत्वात् / मिमांसा-,.३० /

वचनाद्विनियोगः स्यात् / मिमांसा-,.३१ /

सामप्रदेशे विकारस्तदपेक्षः स्याच्छास्त्रकृत्वात् / मिमांसा-,.३२ /

वर्णे तु वादरिर्यथाद्रव्यं द्रव्यप्यतिरेकात् / मिमांसा-,.३३ /

स्तोभस्यैके द्रव्यान्तरे निवृत्तिमृग्वत् / मिमांसा-,.३४ /

सर्वातिदेशस्तु सामान्याल्लीकवद्विकारः स्यात् / मिमांसा-,.३५ /

अन्वयञ्चापि दर्शयति / मिमांसा-,.३६ /

निवृत्तिर्वार्ऽथलोपात् / मिमांसा-,.३७ /

अन्वयोवार्थवादः स्यात् / मिमांसा-,.३८ /

अधिकञ्च विवर्णञ्च जैमिनिः स्तोभशब्दत्वात् / मिमांसा-,.३९ /

धर्मस्यार्थकृतत्वाद्द्रव्यगुणविकारव्यतिक्रमप्रतिषेधे चोजनानुबन्धः समवायात् / मिमांसा-,.४० /

तदुत्पत्तेस्तु निष्टत्तिस्तत्कृतत्वात्स्यात् / मिमांसा-,.४१ /

अवेश्येरन्वार्थवत्त्वात्संरकारस्य तदर्थत्वात् / मिमांसा-,.४२ /

आख्या चैवं तदावेशाद्विकृतौ स्यादपूर्वत्वात् / मिमांसा-,.४३ /

परार्थेन त्वर्थसामान्यं संस्कारस्य तदर्थत्वात् / मिमांसा-,.४४ /

क्रियेरन्वार्थनिर्वृत्तेः / मिमांसा-,.४५ /

एकार्थत्वादविभागः स्यात् / मिमांसा-,.४६ /

निर्देशाद्वा व्यवतिष्ठेरन् / मिमांसा-,.४७ /

अप्राकृते तद्विकाराद्विरोधाद्यवतिष्ठेरन् / मिमांसा-,.४८ /

उभयसाम्नि चैवमेकार्थापत्तेः / मिमांसा-,.४९ /

स्वार्थत्वाद्वा व्यवस्था स्यात्प्रकृतिवत् / मिमांसा-,.५० /

पार्वणहोमयोस्तवप्रवृत्तिः समुदायार्थसंयोगात्तगभीज्याहि / मिमांसा-,.५१ /

कालस्येति चेत् / मिमांसा-,.५२ /

नाप्रकरणत्वात् / मिमांसा-,.५३ / मन्त्रवर्णाच्च / मिमांसा-,.५४ /

तदभावे ऽग्निवगिति चेत् / मिमांसा-,.५५ /

नाधिकारकत्वात् / मिमांसा-,.५६ /

उभयोरविशेषात् / मिमांसा-,.५७ /

यदभीज्या वा तद्विषयौ / मिमांसा-,.५८ /

प्रयाजे ऽपीति चेत् / मिमांसा-,.५९ /

नाचीदितत्वात् / मिमांसा-,.६० /



प्रकृतौ यथोत्पत्तिवचनमर्थानां तथोत्तरस्यां ततौ तत्प्रकृतित्वात्वादर्थे चाकार्यत्वात् / मिमांसा-,./

लिङ्गदर्शनाच्च / मिमांसा-,./

जातिनैमित्तिकं यथास्थानम् / मिमांसा-,./

अविकारमेके ऽनार्षत्वात् / मिमांसा-,./

लिङ्गदक्शनाच्च / मिमांसा-,./

निकारो वातदुक्तहेतुः / मिमांसा-,./

लिङ्गं मन्त्रचिकीर्षार्थम् / मिमांसा-,./

नियमो वोभयभागित्वात् / मिमांसा-,./

लौकिके दोषसंयोगादपवृक्ते हिचोद्यते निमित्तेन प्रकृतौ स्यादभागित्वात् / मिमांसा-,./

अन्यायस्त्वविकारेणा द्रष्टप्रतिघातित्वादविशेषाच्च तेनास्य / मिमांसा-,.१० /

विकारो वा तदर्थत्वात् / मिमांसा-,.११ /

अपित्वन्यायसम्बन्धात्प्रकृतिवत्परेष्वपियथार्थं स्यात् / मिमांसा-,.१२ /

यथार्थं त्वन्यायस्याचोदितत्वात् / मिमांसा-,.१३ /

छन्दसि तु यथादृष्टम् / मिमांसा-,.१४ /

विप्रतिपत्तौ विकल्पः स्यात्तत्सत्वाद्गुणे त्वन्यायकल्पनैकदेशत्वात् / मिमांसा-,.१५ /

प्रकरणविशेषाच्च / मिमांसा-,.१६ /

अर्थाभावात्तु नैवं स्याद्गुणनात्रमितरत् / मिमांसा-,.१७ /

द्यावोस्तथेति चेत् / मिमांसा-,.१८ /

नोत्पत्तिशब्दत्वात् / मिमांसा-,.१९ /

अपूर्वे त्वविकारो ऽप्रदेशात्प्रतीयेत / मिमांसा-,.२० /

विकृतौ चापि तद्वचनात् / मिमांसा-,.२१ /

अध्रिगुः सवनीयेषु तद्वत्समानविधानाश्चेत् / मिमांसा-,.२२ /

प्रतिनिधौ चाविकारात् / मिमांसा-,.२३ /

अनाम्नानादशब्दत्वमभावाच्चेतरस्य स्यात् / मिमांसा-,.२४ /

तादर्थ्याद्वा तदाख्यंस्यात्संस्कारैरविशिष्चत्वात् / मिमांसा-,.२५ /

उक्तञ्च तत्त्वमस्य / मिमांसा-,.२६ /

संसर्गिषु चार्थस्यास्थितपरिमाणत्वात् / मिमांसा-,.२७ /

लिङ्गदर्शनाच्च / मिमांसा-,.२८ /

एकधेत्येकसंयोगादभ्यासेनाभिधानं स्यात् / मिमांसा-,.२९ /

अविकारो वा बहूनामेककर्मवत् / मिमांसा-,.३० /

सकृत्त्वं चैकध्यं स्यादेकत्वात्त्वचो ऽनभिप्रेतं तत्प्रकृतित्वात्परेष्वभ्यासेन विवृद्धावभिधानां स्यात् / मिमांसा-,.३१ /

मेधपतित्वं स्वामिदेवतस्य समवायात्सर्वत्र च प्रयुक्तत्वात्तस्याचान्यायनिगदत्वात्सर्वत्रैवाविकारः स्यात् / मिमांसा-,.३२ /

अपि वा द्विसमवायो ऽर्थान्यत्वे यथासंख्यं प्रयोगः स्यात् / मिमांसा-,.३३ /

स्वामिनो वैकशब्द्यादुत्कर्षो देवतायां स्यात्पत्न्यां द्वितीयशब्दः स्यात् / मिमांसा-,.३४ /

देवता तु तदाशीष्ट्वात्सम्प्राप्तत्वात्स्वात्स्वामिन्यनर्थिका स्यात् / मिमांसा-,.३५ /

उत्सर्गाच्च भक्त्यातस्मिन्पतित्वं स्यात् / मिमांसा-,.३६ /

उत्कृष्येतैकसंयुक्तो द्विदेवते सम्भवात् / मिमांसा-,.३७ /

एकस्तु समवायात्तस्य तल्लक्षणत्वात् / मिमांसा-,.२८ /

संसर्गित्वाच्च तस्मात्तेन विकल्पः स्यात् / मिमांसा-,.३९ /

एकत्वेपि गुणानपायात् / मिमांसा-,.४० /

नियमो बहुदेवते विकारः स्यात् / मिमांसा-,.४१ /

विकल्पो वा प्रकृतिवत् / मिमांसा-,.४२ /

अर्थान्तरे विकारः स्याद्देवतापृथक्त्वादेकाभिसमवायात्स्यात् / मिमांसा-,.४३ /



षड्विंशतिरभ्यासेन पशुगणे तत्प्रकृतित्वाद्गाणस्य प्रविभक्तत्वादविकारे हि तासामकार्त्स्न्येनाभिसम्बन्धो विकारान्न समासः स्यादसंयोगाच्च सर्वाभिः / मिमांसा-,./

अभ्यासे ऽपि तथेति चेत् / मिमांसा-,./

न गुणादर्थकृतत्वाच्च / मिमांसा-,./

समासे ऽपि तथेति चेत् / मिमांसा-,./

नासम्भवात् / मिमांसा-,./

स्वाभिश्च वचनं प्रकृतौ तथेह स्यात् / मिमांसा-,./

वङ्क्रीणान्तु प्रधानत्त्वात्समासेनाभिधानं स्यात्प्राधान्यमध्रिगोस्तदर्थत्वात् / मिमांसा-,./

तासां च कृत्स्नवचनात् / मिमांसा-,./

अपि त्वसन्निपातित्वात्पत्नीवदाम्नातेनाभिधानं स्यात् / मिमांसा-,./

विकारस्तु प्रदेशत्वाद्यजमानवत् / मिमांसा-,.१० /

अपूर्वत्वात्तथा पत्न्याम् / मिमांसा-,.११ /

अनाम्नातस्त्वविकारात्सङ्ख्यासु सर्वगामित्वात् / मिमांसा-,.१२ /

सङ्खाया त्वेवं प्रधानं स्याद्वङ्क्रयः पुनः प्रधानम् / मिमांसा-,.१३ /

अनाम्नातवचनमवचनेन हि वङ्क्रीणां स्यान्निर्देशः / मिमांसा-,.१४ /

अभ्यासो वाविकारात्स्यात् / मिमांसा-,.१५ /

पशुस्त्वेवं प्राधानंस्यादभ्यासस्य तन्निमित्तत्वात्तस्मात्समासशब्दः स्यात् / मिमांसा-,.१६ /

अश्वस्य चतुस्त्रिंशत्तस्य वचनाद्वैशेषिकम् / मिमांसा-,.१७ /

तत्प्रतिषिध्य प्रकृतिर्नियुज्यते सा चतुस्त्रिंशद्वाच्यत्वात् / मिमांसा-,.१८ /

ऋगावास्यादाम्नातत्वादविकल्पश्च न्याय्यः / मिमांसा-,.१९ /

तस्यां तु वचनादैरवत्पदविकारः स्यात् / मिमांसा-,.२० /

सर्वप्रतिषेधो वासंयागात्पदेन स्यात् / मिमांसा-,.२१ /

वनिष्ठुसन्निधानादुरूकेण वपाभिधानम् / मिमांसा-,.२२ /

प्रशसास्याभिधानम् / मिमांसा-,.२३ /

बाहुप्रशंसा वा / मिमांसा-,.२४ /

श्येन-शला-कश्यप- कवषस्त्रेकपर्णेष्वाकृतिवचनं प्रसिद्धसन्निधानात् / मिमांसा-,.२५ /

कार्त्स्न्यं वा स्यात्तथाभावात् / मिमांसा-,.२६ /

अध्रिगोश्च तदर्थत्वात् / मिमांसा-,.२७ /

प्रासङ्गिके प्रायश्चत्तं न विद्यते परार्थत्वात्तदर्थे हिविधीयते / मिमांसा-,.२८ /

धारणे च परार्थत्वात् / मिमांसा-,.२९ /

क्रियार्थत्वादितरेषु कर्म स्यात् / मिमांसा-,.३० /

न तूत्पन्ने यस्य चोदनाप्राप्तकालत्वात् / मिमांसा-,.३१ /

प्रदानदर्शनं श्रपणे तद्धर्मभोजनार्थत्वात्संसर्गाच्च मधूदकवत् / मिमांसा-,.३२ /

संस्कारप्रतिषेधश्च तद्वत् / मिमांसा-,.३३ /

तत्प्रतिषेधे च तथाभूतस्य वर्जनात् / मिमांसा-,.३४ /

अधर्मत्वमप्रदानात्प्रणीतार्थे विधानादतुल्यत्वादसंसर्गः / मिमांसा-,.३५ /

परो नित्यानुवादः स्यात् / मिमांसा-,.३६ /

विहितप्रतिषेधो वा / मिमांसा-,.३७ /

वर्जने गुणभावित्वात्तदुक्तप्रतिषेधात्स्यात्कारणात्केवलाशनम् / मिमांसा-,.३८ /

व्रतधर्माच्चलेपवत् / मिमांसा-,.३९ /

रसप्रतिषेधो वा पुरुषधर्मत्वात् / मिमांसा-,.४० /

अभ्युदये दोगापनयः स्वधर्मा स्यात्प्रवृत्तत्वात् / मिमांसा-,.४१ /

शृतोपदेशाच्च / मिमांसा-,.४२ /

अपनयो वार्थान्तरे विधानाच्चरुपयोवत् / मिमांसा-,.४३ /

लक्षणार्था शृतश्रुतिः / मिमांसा-,.४४ /

श्रयणानां त्वपूर्वत्वात्प्रदानार्थेविधानं स्यात् / मिमांसा-,.४५ /

गुणो वा श्रयणार्थत्वात् / मिमांसा-,.४६ /

अर्थवादश्च तदथवत् / मिमांसा-,.४७ /

श्रुतेश्च तत्प्रधानत्वत् / मिमांसा-,.४८ /

अर्थवादश्च तदथवत / मिमांसा-,.४९ /

संस्कारं प्रति भावाच्च तस्मादप्यप्रधानम् / मिमांसा-,.५० /

पर्यग्निकृतानामुत्सर्गे तादर्थ्यमुपधानवत् / मिमांसा-,.५१ /

शेषप्रतिषेधो वार्ऽथाभावादिडान्तवत् / मिमांसा-,.५२ /

पूर्वत्त्वाच्च शब्दस्य संस्थापयतीति चाप्रबृत्तेनोपपद्यते / मिमांसा-,.५३ /

प्रबृत्तेर्यज्ञहेतुत्वात्प्रतिषेधे संस्काराणामकर्म स्यात्तत्कारितत्वाद्यथा प्रयाजप्रतिषेधे ग्रहणमाजेयस्य / मिमांसा-,.५४ /

क्रिया वा स्यादवच्छेदादकर्म सर्वहानं स्यात् / मिमांसा-,.५५ /

आज्यसंस्थाप्रतिनिधिः स्याद्द्रब्योत्सर्गात् / मिमांसा-,.५६ /

समाप्तिवचनात् / मिमांसा-,.५७ /

चोदना वा कर्मोत्सर्गादन्यैः स्यादविशिष्टत्वात् / मिमांसा-,.५८ /

अनिज्यां च वनस्पतेः प्रसिद्धान्तेन दर्शयति / मिमांसा-,.५९ /

संस्था तद्देवतत्वात्स्यात् / मिमांसा-,.६० /



विधेः प्रकरणान्तरे ऽतिदेशात्सर्वकर्म स्यात् / मिमांसा-१०,./

अपि वाभिधानसंस्कारद्रव्यर्थे क्रियेत तादर्थ्यात् / मिमांसा-१०,./

तेषामप्रत्यक्षविशिष्टत्वात् / मिमांसा-१०,./

इष्ठिरारम्भसंयोगादङ्गभूतान्निवर्तेतारमभस्य प्रधानसंयोगात् / मिमांसा-१०,./

प्रधानाच्चान्यसंयुक्तात्कसर्वारम्भान्निवर्तेतानङ्गत्वात् / मिमांसा-१०,./

तस्यां तु स्यात्प्रयाजवत् / मिमांसा-१०,./

न वाङ्गभूतत्वात् / मिमांसा-१०,./

एकवाक्यत्वाच्च / मिमांसा-१०,./

कर्म च द्रव्यसंयोगार्थमर्थाभावान्निवर्तेत तादर्थ्यं श्रुतिसंयोगात् / मिमांसा-१०,./

स्थाणौ तु देशमात्रत्वादनिबृत्तिः प्रतीयेत / मिमांसा-१०,.१० /

अपि वा शेषभूतत्वात्संस्कारः प्रतीयेत / मिमांसा-१०,.११ /

समाख्यानं च तद्वत् / मिमांसा-१०,.१२ /

मन्त्रवर्णश्च तद्वत् / मिमांसा-१०,.१३ /

प्रयाजे च तन्न्यायत्वात् / मिमांसा-१०,.१४ /

लिङ्गदर्शनाच्च / मिमांसा-१०,.१५ /

तथाज्यभागाग्निरपीति चेत् / मिमांसा-१०,.१६ /

व्यपदेशाद्देवतान्तरम् / मिमांसा-१०,.१७ /

समत्वाच्च / मिमांसा-१०,.१८ /

पशावपीति चेत् / मिमांसा-१०,.१९ /

न तदभूतवचनात् / मिमांसा-१०,.२० /

लिङ्गदर्शनाच्च / मिमांसा-१०,.२१ /

गुणो वा स्यात्कपालवद्गुणभूतविकाराच्च / मिमांसा-१०,.२२ /

अपि वा शेषभूतत्वात्तत्संस्कारः प्रतीयेत स्वाहाकारवदङ्गानामर्थसंयोगात् / मिमांसा-१०,.२३ /

व्यृद्धवचनञ्च विप्रतिपत्तौ तदर्थत्वात् / मिमांसा-१०,.२४ /

गुणेपीति चेत् / मिमांसा-१०,.२५ /

नासंहानात्करालवत् / मिमांसा-१०,.२६ /

ग्रहाणाञ्च सम्प्रतिपत्तौ तद्वचनं तदर्त्वात् / मिमांसा-१०,.२७ /

ग्रहाभावे च तद्वचनम् / मिमांसा-१०,.२८ /

देवतायाश्च हेतुत्वं प्रसिद्धं तेन दर्शयति / मिमांसा-१०,.२९ /

अविरुद्वोपपत्तिरर्थापत्तेः शृतवद्भूतविकारः स्यात् / मिमांसा-१०,.३० /

स द्व्यर्थः स्यादुभयोः श्रुतिभूतत्वाद्विप्रतिपत्तौ तादर्थ्याद्विकारत्लमुक्तं तस्यार्थवादत्वम् / मिमांसा-१०,.३१ /

विप्रतिपत्तौ तासामाख्याविकारः स्यात् / मिमांसा-१०,.३२ /

अभ्यासो वा प्रयाजवदेकदेशो ऽन्यदेवत्यः / मिमांसा-१०,.३३ /

चरुर्हविर्विकारः स्यादिज्यासंयोगात् / मिमांसा-१०,.३४ /

प्रसिद्धग्रहणत्वाच्च / मिमांसा-१०,.३५ /

ओदनो वान्नसंयोगात् / मिमांसा-१०,.३६ /

न द्व्यर्थत्वात् / मिमांसा-१०,.३७ /

कपालविकारो वा विशये ऽर्थोपपत्तिभ्याम् / मिमांसा-१०,.३८ /

गुणमुख्यविशेषाच्च / मिमांसा-१०,.३९ /

तच्छ्रुतौ चान्यहविष्ठात् / मिमांसा-१०,.४० /

लिङ्गदर्शनाच्च / मिमांसा-१०,.४१ /

ओदनो वा प्रयुक्तत्वात् / मिमांसा-१०,.४२ /

अपूर्वव्यपदेशाच्च / मिमांसा-१०,.४३ /

तथा च लिङ्गदर्शनम् / मिमांसा-१०,.४४ /

स कपाले प्रकृत्या स्यादन्यस्य चाश्रुतित्वात् / मिमांसा-१०,.४५ /

एकस्मिन्वाविप्रतिषेधात् / मिमांसा-१०,.४६ /

न वार्ऽथान्चरसंयोगादपूपे पाकसंयुक्तं धारणार्थं तरौ भवति तत्रार्थात्पात्रलाभः स्यादन्यमो ऽविशेषात् / मिमांसा-१०,.४७ /

चरौ वा लिङ्गदर्शनात् / मिमांसा-१०,.४८ /

तस्मिन्पेषणमनर्थलोपात्स्यात् / मिमांसा-१०,.४९ /

अक्रिया वा अपूपहेतुत्वात् / मिमांसा-१०,.५० /

पिण्डार्थत्वाच्च संयवनम् / मिमांसा-१०,.५१ /

संवपनञ्च तादर्थ्यात् / मिमांसा-१०,.५२ /

सन्तापनमधःश्रपणात् / मिमांसा-१०,.५३ /

उपधानं च तादर्थ्यात् / मिमांसा-१०,.५४ /

पृथुश्र्लक्ष्णे वानपूपत्वात् / मिमांसा-१०,.५५ /

अभ्यूहश्चोपरिपाकार्थत्वात् / मिमांसा-१०,.५६ /

तथावज्वलनम् / मिमांसा-१०,.५७ /

व्युद्धृत्यासादनं च प्रकृतावश्रुतित्वात् / मिमांसा-१०,.५८ /



कृष्णलेष्वर्थलोपाकः स्यात् / मिमांसा-१०,./

स्याद्वा प्रत्यक्षशिष्टत्वात्प्रदानवत् / मिमांसा-१०,./

उपस्तरणाभिघारणयोपमृतार्थत्वादकर्म स्यात् / मिमांसा-१०,./

क्रियेत वार्ऽथवादत्वात्तयोः संसर्गबेतुत्वात् / मिमांसा-१०,./

अकर्म वा चतुर्भिराप्तिवचनात्सह पूर्णं पुनश्चतुरवत्तम् / मिमांसा-१०,./

क्रिया वा मुख्यावदानपरिमाणात्सामन्यात्तद्गुणत्वम् / मिमांसा-१०,./

तेषां चैकावदानत्वात् / मिमांसा-१०,./

आप्तिः संख्या समानत्वात् / मिमांसा-१०,./

सतोस्त्वाप्तिवचनं व्यर्थम् / मिमांसा-१०,./

विकल्पस्त्वेकावदानत्वात् / मिमांसा-१०,.१० /

सर्वविकारे त्वभ्यसानर्थक्यं हविषो हीतरस्य स्यादपि वा स्विष्टकृतः स्यादितरस्यान्याय्यत्वात् / मिमांसा-१०,.११ /

अकर्म वा संसर्गार्थनिवृत्तस्मादाप्तिसमर्थत्वं / मिमांसा-१०,.१२ /

भक्षाणां तु प्रत्यर्थत्वादकर्म स्यात् / मिमांसा-१०,.१३ /

स्याद्वा निर्धानदर्शनात् / मिमांसा-१०,.१४ /

वचनं वाज्यभक्षस्य प्रकृतौ स्यादभागित्वात् / मिमांसा-१०,.१५ /

वचनं वा हिरण्यस्य प्रदानवदाज्यस्. गुणभूतत्वात् / मिमांसा-१०,.१६ /

एकधोपहारे सहत्वं ब्रह्मभक्षाणां प्रकृतौ विहितत्वात् / मिमांसा-१०,.१७ /

सर्वत्वं च तेषामधिकारात्स्यात् / मिमांसा-१०,.१८ /

पुरिषापनयो वा तेषामवाच्यत्वात् / मिमांसा-१०,.१९ /

पुरुषापनयात्स्वकालत्वम् / मिमांसा-१०,.२० /

एकार्थत्वादविभागः स्यात् / मिमांसा-१०,.२१ /

ऋत्विद्जानं धर्ममात्रार्थं स्याद्ददातिसामर्थ्यात् / मिमांसा-१०,.२२ /

परिक्रयार्थं वा कर्मसंयोगाल्लोकवत् / मिमांसा-१०,.२३ /

दक्षिणायुक्तवचनाच्च / मिमांसा-१०,.२४ /

नचान्येनानम्येत परिक्रीयात्कर्मणः परार्थत्वात् / मिमांसा-१०,.२५ /

परिक्रीतवचनाच्च / मिमांसा-१०,.२६ /

सनिवन्येव भृति वचनात् / मिमांसा-१०,.२७ /

नैष्कर्तृकेण समस्तवाच्च / मिमांसा-१०,.२८ /

शेषभक्षाश्च तद्वत् / मिमांसा-१०,.२९ /

संस्कारो वा द्रव्यस्य परार्थत्वात् / मिमांसा-१०,.३० /

शेषे च समत्वात् / मिमांसा-१०,.३१ /

स्वामिनि त दर्शनात्तत्सामान्यादितरेषान्तथात्वम् / मिमांसा-१०,.३२ /

तथा चान्यार्थदर्शनम् / मिमांसा-१०,.३३ /

वरणमृत्विजामानमनार्थत्वात्सत्रे न स्यात्स्वकर्मत्वात् / मिमांसा-१०,.३४ /

परिक्रयश्च तादर्थ्यात् / मिमांसा-१०,.३५ /

प्रतिषेघश्च कर्मवत् / मिमांसा-१०,.३६ /

स्याद्वाप्रासर्पिकस्य धर्ममात्रत्वात् / मिमांसा-१०,.३७ /

न दक्षिणाशब्दात्तस्मान्नित्यानुवादः स्यात् / मिमांसा-१०,.३८ /

उदवसानीयः सत्रधर्मा स्यात्तदङ्गत्वात्तत्र दाने धर्ममात्रं स्यात् / मिमांसा-१०,.३९ /

न त्वेतत्प्रकृतित्वाद्विभक्तचोदितत्वाच्च / मिमांसा-१०,.४० /

तेषां तु वचवाद्द्वियज्ञवत्सहप्रयोगः स्यात् / मिमांसा-१०,.४१ /

तत्रान्यानृत्विजो वृणीरन् / मिमांसा-१०,.४२ /

एकैकशस्तवविप्रतिषेधात्प्रकृतेश्चैकसंयोगात् / मिमांसा-१०,.४३ /

कामेष्टौ च दानशब्दात् / मिमांसा-१०,.४४ /

वचनं वा सत्रत्वात् / मिमांसा-१०,.४५ /

द्वेष्ये च चोदनाद्दक्षिणापनयात् / मिमांसा-१०,.४६ /

अस्थियज्ञो ऽविप्रतिषेधादितरेषां स्याद्विप्रतिषेधादस्थ्नाम् / मिमांसा-१०,.४७ /

यावादुक्तमुपयोगः स्यात् / मिमांसा-१०,.४८ /

यदि तु वचनात्तेषां जपसंस्कारमर्थलुप्तं सेष्टि तदर्थत्वात / मिमांसा-१०,.४९ /

काम्यानि तु न विद्यन्ते कामा ज्ञामाद्यथेतरस्यानुच्यमानानि / मिमांसा-१०,.५० /

ईहार्थाश्चाभावात्सूक्तवाकवत् / मिमांसा-१०,.५१ /

स्युर्वार्ऽथवादत्वात् / मिमांसा-१०,.५२ /

नेच्छाभिधानात्तदभावादितरस्मिन् / मिमांसा-१०,.५३ /

स्युर्वा होतृकामाः / मिमांसा-१०,.५४ /

न तदाषीष्ट्वात् / मिमांसा-१०,.५५ /

सर्वस्वारस्यदिष्टगतौ समापनं न विद्यते कर्मणो जीवसंयोगात् / मिमांसा-१०,.५६ /

स्याद्वोभयोः प्रत्क्षशिष्टत्वात् / मिमांसा-१०,.५७ /

गते करमास्थियज्ञवत् / मिमांसा-१०,.५८ /

जीवत्यवचनमायुराशिषस्तदर्थत्वात् / मिमांसा-१०,.५९ /

वचनं वा भागित्वात्प्राग्यथोक्तात् / मिमांसा-१०,.६० /

क्रिया स्याद्धर्ममात्राणाम् / मिमांसा-१०,.६१ /

गुणलोपे च मुख्यस्य / मिमांसा-१०,.६२ /

मुष्टिलोपात्तु संख्यालोपस्तद्गुणत्वात्स्यात् / मिमांसा-१०,.६३ /

न निर्वापशेषत्वात् / मिमांसा-१०,.६४ /

संख्यातु चोदनां प्रति सामान्यात्तद्विकारः संयोगाच्च परं मुष्ठेः / मिमांसा-१०,.६५ /

न चोदनाभिसम्बन्धात्प्रक्रतौ संस्कारयोगात् / मिमांसा-१०,.६६ /

औतपत्तिके तु द्रव्यतो विकारः स्यादकार्यात्वात् / मिमांसा-१०,.६७ /

नैमितेतिके तु कार्यत्वात्प्रकृतेः स्यात्त दापत्तेः / मिमांसा-१०,.६८ /

विप्रतिषेधे तद्वचनात्प्राकृतगुणलोपः स्यात्तेनच कर्मसंयोगात् / मिमांसा-१०,.६९ /

परेषां प्रतिषेधः स्यात् / मिमांसा-१०,.७० /

प्रतिषेधाच्च / मिमांसा-१०,.७१ /

अर्थाभावे संस्कारत्वं स्यात् / मिमांसा-१०,.७२ /

अर्थेन च विपर्यासे तादर्यात्तत्त्वमेव स्यात् / मिमांसा-१०,.७३ /



विकृतौ शब्दवत्त्वात्प्रधानस्य गुणानामधिकोत्पत्तिः सन्निधानात् / मिमांसा-१०,./

प्रकृतिवत्तस्य चानुपरोधः / मिमांसा-१०,./

चोदनाप्रभुत्वाच्च / मिमांसा-१०,./

प्रधानं त्वङ्गसंयुक्तं तथाभूतमपूर्वं स्यात्तस्य विध्युपलक्षणात्सर्वो हि पूर्ववान्विधिरविशेषात्प्रवर्तितः / मिमांसा-१०,./

न चाङ्गविधिरनङ्गे स्यात् / मिमांसा-१०,./

कर्मणश्चै कशब्द्यात्सन्निधाने विधेराख्यासंयोगो गुणेनतद्विकारः स्याच्छब्दस्य विधिगामित्वाद्गुणस्य चोपदेश्यत्वात् / मिमांसा-१०,./

अकार्यत्वाच्च नाम्नः / मिमांसा-१०,./

तुल्याच प्रभुता गुणे / मिमांसा-१०,./

सर्वमेवंप्रधानमिति चेत् / मिमांसा-१०,./

तथाभूतेनसंयोगाद्यथार्थविधयः स्युः / मिमांसा-१०,.१० /

विधित्वं चाविशिष्ठ मेवं प्राकृतानां वैकृतैः कर्मणायोगात्तस्मात्सर्वं प्रधानार्थम् / मिमांसा-१०,.११ /

समत्वाच्च तदुत्पत्तेः संस्कारैरधिकारः स्यात् / मिमांसा-१०,.१२ /

हिरण्यगर्भः पूर्वस्य मन्त्रलिङ्गात् / मिमांसा-१०,.१३ /

प्रकृत्यनुपरोधाच्च / मिमांसा-१०,.१४ /

उत्तरस्य वा मन्त्रार्थित्वात् / मिमांसा-१०,.१५ /

विध्यतिदेशात्तच्छ्रुतौ बिकारः स्याद्गुणानामुपदेश्यत्वात् / मिमांसा-१०,.१६ /

पूर्वस्मिश्चामन्त्रत्वदर्शनात् / मिमांसा-१०,.१७ /

संस्कारे तु क्रियान्तर तस्य विधयकत्वात् / मिमांसा-१०,.१८ /

प्रकृत्यनुपरोधाच्च / मिमांसा-१०,.१९ /

विधेस्तु तत्र भावात्सन्देहे यस्य शब्दस्तदर्थः स्यात् / मिमांसा-१०,.२० /

संस्कारसामर्थ्याद्गुणसंयोगाच्च / मिमांसा-१०,.२१ /

विप्रतिषेधात्क्रियाप्रकरणे स्यात् / मिमांसा-१०,.२२ /

षड्भिर्ःदीक्षयतीति तासां मन्त्रविकारः श्रुतिसंयोगात् / मिमांसा-१०,.२३ /

अभ्यासात्तु प्रधानस्य / मिमांसा-१०,.२४ /

आवृत्त्या मन्त्रकर्म स्यात् / मिमांसा-१०,.२५ /

अपिवा प्रतिमन्त्रत्वात्प्राकृतानामहानिः स्यादन्यायश्च कृते ऽभ्यासः / मिमांसा-१०,.२६ /

पौर्वापर्यञ्चाभ्यासे नोपपद्यते नैमित्तिकत्वात् / मिमांसा-१०,.२७ /

तत्प्रथक्त्वं च दर्शयति / मिमांसा-१०,.२८ /

न चाविशेषाद्व्यपदेशः स्यात् / मिमांसा-१०,.२९ /

अग्न्याधेयस्य नैमित्तिके गुणविकारे दक्षिणादानमधिकं स्याद्वाक्यसंयोगात् / मिमांसा-१०,.३० /

शैष्ठत्वाच्चेतरासां यथास्थानम् / मिमांसा-१०,.३१ /

विकारस्त्वप्रकरणे हि काम्यानि / मिमांसा-१०,.३२ /

शङ्कते च निवृत्तेरुभयत्वंहिश्रूयते / मिमांसा-१०,.३३ /

वासो वत्सञ्च सामान्यात् / मिमांसा-१०,.३४ /

अर्थापत्तेस्तद्धर्माः स्यान्निमित्ताख्याभिसंयोगात् / मिमांसा-१०,.३५ /

दाने पाको ऽर्थलक्षणः / मिमांसा-१०,.३६ /

पाकस्थ चान्नकारित्त्वात् / मिमांसा-१०,.३७ /

तथाभिघारणस्य / मिमांसा-१०,.३८ /

द्रव्यविधिसन्निधौ सङ्ख्या तेषां गुणत्वात्स्यात् / मिमांसा-१०,.३९ /

समत्वात्तु गुणानामेकस्य श्रुतिसंयोगात् / मिमांसा-१०,.४० /

यस्य वा सन्निधाने स्याद्वाक्यतोह्यभिसम्बन्धः / मिमांसा-१०,.४१ /

असंयुक्तास्तु तुल्यवदितराभिर्विधीयन्ते तस्मात्सर्वाधिकारः स्यात् / मिमांसा-१०,.४२ /

असंयोगाद्विधिश्रुतावेकजाताधिकारः स्याच्छ्रुत्याकोपात्क्रतोः / मिमांसा-१०,.४३ /

शब्जार्थश्चापि लोकवत् / मिमांसा-१०,.४४ /

सापशूनामुत्पत्तितो विभागात् / मिमांसा-१०,.४५ /

अनियमो ऽविशेषात् / मिमांसा-१०,.४६ /

भागित्वाद्वा गवां स्यात् / मिमांसा-१०,.४७ /

प्रत्ययात् / मिमांसा-१०,.४८ /

लिङ्गदर्शनाच्च / मिमांसा-१०,.४९ /

तत्र दानं विभागेन प्रदानानां पृथक्त्वात् / मिमांसा-१०,.५० /

परिक्राच्च लोकवत् / मिमांसा-१०,.५१ /

विभागं चापि दर्शयति / मिमांसा-१०,.५२ /

समं स्यादश्रुतित्वात् / मिमांसा-१०,.५३ /

अपि वा कर्मवैषम्यात् / मिमांसा-१०,.५४ /

अतुल्याः स्युः परिक्रये विषमाख्या विधिश्रुतौ परिक्रयान्न कर्मण्युपपद्यते दर्शनाद्विशेषस्य तथाभ्युदये / मिमांसा-१०,.५५ /

तस्य धेनुरिति गवां प्रकृतौ विभक्तचोदितत्वात्सामान्यात्तद्विकारः स्याद्यथेष्टिर्गुणशब्देन / मिमांसा-१०,.५६ /

सर्वस्य वा क्रतुसंयोगादेकत्वं दक्षिणार्थस्य गुणानां कार्यैकत्वादर्थे विकृतौ श्रुतिभूतं स्यात्तस्मात् समवायाद्धिकर्मभिः / मिमांसा-१०,.५७ /

चोदनानामनाश्रयाल्लिङ्गेन नियमः स्यात् / मिमांसा-१०,.५८ /

एका पञ्चेति धेनुवत् / मिमांसा-१०,.५९ /

त्रिवत्सश्च / मिमांसा-१०,.६० /

तथा च लिङ्गदर्शनम् / मिमांसा-१०,.६१ /

एके ति श्रुतिभूतत्वात्सङ्ख्यया गवां लिङ्गविशेषेण / मिमांसा-१०,.६२ /

प्राकाशौ तथेति चेत् / मिमांसा-१०,.६३ /

अपि त्ववयवार्थत्वाद्विभक्तप्रकृतित्वाद्गुणेदन्ताविकारः स्यात् / मिमांसा-१०,.६४ /

धेनुवच्चाश्चदक्षिणा स ब्रह्मण इति पुरुषापनयो यथा हिरण्यस्य / मिमांसा-१०,.६५ /

एके तु कर्तृसंयोगात्स्रग्वत्तस्य लिङ्गविशेषेण / मिमांसा-१०,.६६ /

अपि वा तदधिकाराद्धिरण्यवद्विकारः स्यात् / मिमांसा-१०,.६७ /

तथा च सोमचमसः / मिमांसा-१०,.६८ /

सर्वविकारो वा क्रत्वर्थे प्रतिषेधात् पशूनां / मिमांसा-१०,.६९ /

ब्रह्मदाने ऽविशिष्टमिति चेत् / मिमांसा-१०,.७० /

उत्सर्गस्य क्रत्वर्थत्वात्प्रतिषिद्धस्य कर्मस्यान्न च गौणः प्रयोजनमर्थः स दक्षिणानां स्यात् / मिमांसा-१०,.७१ /

यदि तु ब्रह्मणस्तदूनं तद्विकारः स्यात् / मिमांसा-१०,.७२ /

सर्वं वा पुरुषापनयात्तासां क्रतुप्रधानत्वात् / मिमांसा-१०,.७३ /

यजुर्युक्ते ऽध्वर्योर्दक्षिणा विकारः स्यात् / मिमांसा-१०,.७४ /

अपि वा श्रुतिभूतत्वात्सर्वासां तस्य भागो नियम्यते / मिमांसा-१०,.७५ /



प्रकृतिलिङ्गासंयागात्कर्मसंस्कारंविकृतावधिकं स्यात् / मिमांसा-१०,./

चोदनालिङ्गसंयोगे तद्विकारः प्रतीयेत प्रकृतिसन्निधानात् / मिमांसा-१०,./

सर्वत्र तु ग्रहाम्नानमधिकं स्यात्प्रकृतिवत् / मिमांसा-१०,./

अधिकैश्चैकवाक्यत्वात् / मिमांसा-१०,./

लिङ्गदर्शनाच्च / मिमांसा-१०,./

प्राजापत्येषु चाम्नानात् / मिमांसा-१०,./

आमने लिङ्गदर्शनात् / मिमांसा-१०,./

उपगेषु शरवत्स्यात्प्रकृतिलिङ्गसयोगात् / मिमांसा-१०,./

आनर्थक्यात्त्वधिकं स्यात् / मिमांसा-१०,./

संस्कारे चान्यसंयोगात् / मिमांसा-१०,.१० /

प्रयाजवदिति चेत् / मिमांसा-१०,.११ /

नार्थान्यत्वात् / मिमांसा-१०,.१२ /

आच्छादने त्वैकार्थ्यात्प्राकृतस्य विकारः स्यात् / मिमांसा-१०,.१३ /

अधिकं वान्यार्थत्वात् / मिमांसा-१०,.१४ /

समुच्चयं च दर्शयति / मिमांसा-१०,.१५ /

सामस्वर्थान्तरश्रुतेरविकारः प्रतीयेत / मिमांसा-१०,.१६ /

अर्थे त्वश्रूयमाणे शेषत्वात्प्राकृतस्य विकारः स्यात् / मिमांसा-१०,.१७ /

सर्वेषामविशेषात् / मिमांसा-१०,.१८ /

एकस्या वा श्रुतिसामर्थ्यात्प्रकृतेश्चाविकारात् / मिमांसा-१०,.१९ /

स्तोमविबृद्धौ त्वधिकं स्यादविबृद्धौ द्रव्यविकारः स्यादितरस्याश्रुतित्वाच्च / मिमांसा-१०,.२० /

पवमाने स्यातां तस्मिन्नावापोद्वापदर्शनात् / मिमांसा-१०,.२१ /

वचनानित्वपूर्वत्वात् / मिमांसा-१०,.२२ /

विधिशब्दस्य मन्त्रत्वे भावः स्यात्तेन चोदना / मिमांसा-१०,.२३ /

शेषाणां वा चोदनैकत्वात्तस्मात्सर्वत्र श्रूयते / मिमांसा-१०,.२४ /

तथोत्तरस्यान्ततौ तत्प्रकृतित्वात् / मिमांसा-१०,.२५ /

प्राकृतस्य गुणश्रुतौ सगुणेनाभिधानं स्यात् / मिमांसा-१०,.२६ /

अविकारो वार्ऽथशब्दानपायात्स्याद्द्रव्यवत् / मिमांसा-१०,.२७ /

तथारम्भासमवायद्वा चोदितेनाभिधानं स्यादर्थस्य श्रुतिसमवायित्वादवचने च गुणशाःस्त्रमनर्थकंस्यात् / मिमांसा-१०,.२८ /

द्रव्येष्वारम्भगामित्वादर्थे विकारः सामर्थ्यात् / मिमांसा-१०,.२९ /

बुधन्वान्पवमानवद्विशेषनिर्देशात् / मिमांसा-१०,.३० /

मन्त्रनिशेषनिर्देशान्न देवताविकारः स्यात् / मिमांसा-१०,.३१ /

विधिनिगमभेदात्प्रकृतौ तत्प्रकृतित्वाद्विकृतावपिभेदः स्यात् / मिमांसा-१०,.३२ /

यथोक्तं वा विप्रतिपत्तेर्न चोदना / मिमांसा-१०,.३३ /

स्विष्टकृद्देवतान्यत्वे तच्छब्दत्वान्निवर्तेत / मिमांसा-१०,.३४ /

संयोगो वार्ऽथापत्तेरभिधानस्य कर्मजत्वात् / मिमांसा-१०,.३५ /

सगुणस्य गुणलोपे निगमेषु यावदुक्तं स्यात् / मिमांसा-१०,.३६ /

सर्वस्य वैककर्म्यात् / मिमांसा-१०,.३७ /

स्विष्टकृदावापिको ऽनुयाजे स्यात्प्रयोजनवदङ्गानामर्थसंयोगात् / मिमांसा-१०,.३८ /

अन्वाहेति च शस्त्रवत्कर्म स्याच्चोदनान्तरात् / मिमांसा-१०,.३९ /

संस्कारो वा चोदितस्य शब्दस्य वचनार्थत्वात् / मिमांसा-१०,.४० /

स्याद्गुणार्थत्वात् / मिमांसा-१०,.४१ /

मनोतायां तु वचनादविकारः स्यात् / मिमांसा-१०,.४२ /

पृष्ठार्थे ऽन्यद्रथन्तरात्तद्योनिपूर्वत्वादृचां प्रविभक्तत्वात् / मिमांसा-१०,.४३ /

स्वयोनौ वा सर्वाख्यत्वात् / मिमांसा-१०,.४४ /

यूपवदिति चेत् / मिमांसा-१०,.४५ /

न कर्मसंयोगात् / मिमांसा-१०,.४६ /

कार्यत्वादुत्तरयोर्यथाप्रकृति / मिमांसा-१०,.४७ /

समानदेवते वा तृचस्याविभागात् / मिमांसा-१०,.४८ /

ग्रहाणां देवतान्यत्वे स्तुतशस्त्रयोः कर्मत्वादविकारः स्यात् / मिमांसा-१०,.४९ /

उभयपानात्पृषदाज्ये दध्नःस्यादुपलक्षणं निगमेषु पातव्यस्योपलक्षणात् / मिमांसा-१०,.५० /

न वा परार्थत्वाद्यज्ञपतिवत् / मिमांसा-१०,.५१ /

सायाद्वा आवाहनस्य तादर्थ्यात् / मिमांसा-१०,.५२ /

न वा संस्कारशब्दत्वात् / मिमांसा-१०,.५३ /

स्याद्वाद्रव्याभिधानात् / मिमांसा-१०,.५४ /

दध्नस्तुगुणभूतत्वादाज्यपानिगमाः स्युर्गुणत्वं श्रुतेराज्यप्रधानत्वात् / मिमांसा-१०,.५५ /

दधिवा स्यात्प्रधानमाज्ये प्रथमान्त्यसंयोगात् / मिमांसा-१०,.५६ /

अपिवाज्यप्रधानत्वाद्गुणार्थे व्यपदेशे भक्त्या संस्कारशब्दः स्यात् / मिमांसा-१०,.५७ /

अपि वाख्याविकारत्वात्तेन स्यादुपलक्षणम् / मिमांसा-१०,.५८ /

न वा स्याद्गुणशास्त्रत्वात् / मिमांसा-१०,.५९ /



आनुपूर्व्यवतामेकदेशग्रहणेष्वागमवदन्त्यलोपः स्यात् / मिमांसा-१०,./

लिङ्गदर्शनाच्च / मिमांसा-१०,./

विकल्पो वा समत्वात् / मिमांसा-१०,./

क्रमादुपजनो ऽन्तेस्यात् / मिमांसा-१०,./

लिङ्गमविशिष्टं सङ्ख्याया हि तद्वचनम् / मिमांसा-१०,./

आदितो वा प्रवृत्तिः स्यादारम्भस्य तदादित्वाद्वचनादन्त्यत्यविधिः स्यात् / मिमांसा-१०,./

एकत्रिके तृचादिषु माध्यन्दिनेछंन्दसां श्रुतिभूतत्वात् / मिमांसा-१०,./

आदितो वा तन्न्यायत्वादितरस्यानुमानिकत्वात् / मिमांसा-१०,./

यथानिवेशञ्च प्रकृतिवत्सङ्ख्यामात्रविकारत्वात् / मिमांसा-१०,./

त्रिकस्तृचे धुर्ये स्यात् / मिमांसा-१०,.१० /

एकस्यां वा स्तोमस्यावृत्तिधर्मत्वात् / मिमांसा-१०,.११ /

चोदनासु त्वपूर्वत्वाल्लिङ्गेन धर्मनियमः स्यात् / मिमांसा-१०,.१२ /

प्राप्तिस्तु रात्रिशब्दसम्बन्धात् / मिमांसा-१०,.१३ /

अपूर्वासु तु सङ्ख्यासु विकल्पः स्यात्सर्वासामर्थवत्त्वात् / मिमांसा-१०,.१४ /

स्तोमविवृद्धौ प्राकृतानामभ्यासेन सङ्ख्यापूरणमविकारात्सङ्ख्यायां गुणशब्दत्वादन्यस्य चाश्रुतित्वात् / मिमांसा-१०,.१५ /

आगमेन वाभ्यासस्याश्रुतित्वात् / मिमांसा-१०,.१६ /

सङ्ख्यायाश्च पृथक्त्वनिवेशात् / मिमांसा-१०,.१७ /

पराक्शब्दत्वात् / मिमांसा-१०,.१८ /

उक्ताविकाराच्च / मिमांसा-१०,.१९ /

अश्रुतित्वान्नेति चेत् / मिमांसा-१०,.२० /

स्यादर्थचोदितानां परिमाणशास्त्रम् / मिमांसा-१०,.२१ /

आवापवचनं चाभ्यासे नोपपद्यते / मिमांसा-१०,.२२ /

साम्नाञ्चोत्पत्तिसामर्थ्यात् / मिमांसा-१०,.२३ /

धूर्येष्वपीति चेत् / मिमांसा-१०,.२४ /

नावृत्तिधर्मत्वात् / मिमांसा-१०,.२५ /

वहिष्पवमाने न ऋगागमः सामैकत्वात् / मिमांसा-१०,.२६ /

अभ्यासेन तु संख्यापूरणं सामिधेनीष्वभ्यासप्रकृतित्वात् / मिमांसा-१०,.२७ /

अविशेषान्नेति चेत् / मिमांसा-१०,.२८ /

स्यात्तद्धर्मत्वात् प्रकृतिवदभ्यस्येताऽसङ्ख्यापूरणात् / मिमांसा-१०,.२९ /

यावदुक्तं वा कृतपरिमाणत्वात् / मिमांसा-१०,.३० /

अधिकानाञ्च दर्शनात् / मिमांसा-१०,.३१ /

कर्मस्वपीति चेत् / मिमांसा-१०,.३२ /

न चोदितत्वात् / मिमांसा-१०,.३३ /

षोडशिनो वैकृतत्वं तत्र कृत्स्नविधानात् / मिमांसा-१०,.३४ /

प्रकृतौ चाभावदर्शनात् / मिमांसा-१०,.३५ /

अयज्ञवचनाच्च / मिमांसा-१०,.३६ /

प्रकृतौ वा शिष्टत्वात् / मिमांसा-१०,.३७ /

प्रकृतिदर्शनाच्च / मिमांसा-१०,.३८ /

आम्नातंपरिसङ्ख्यार्थम् / मिमांसा-१०,.३९ /

उक्तमभावदर्शनम् / मिमांसा-१०,.४० /

गुणादयज्ञत्वम् / मिमांसा-१०,.४१ /

तस्याग्रणाद्ग्रहणम् / मिमांसा-१०,.४२ /

उक्थ्याच्च वचनात् / मिमांसा-१०,.४३ /

तृतीयसवने वचनात्स्यात् / मिमांसा-१०,.४४ /

अनभ्यासे पराक्शब्दस्य तादर्थ्यात् / मिमांसा-१०,.४५ /

उक्थ्यविच्छेदवचनत्वाच्च / मिमांसा-१०,.४६ /

आग्रयणाद्वा पराक्शब्दस्य देशवाचत्वात्पुनराधेयवत् / मिमांसा-१०,.४७ /

विच्छेदः स्तोमसामान्यात् / मिमांसा-१०,.४८ /

उक्थ्याग्निष्टोमसंयागादस्तुतशस्त्रः स्यात्सतिहि संस्थान्यत्वम् / मिमांसा-१०,.४९ /

संस्तुतशस्त्रो वा तदङ्गत्वात् / मिमांसा-१०,.५० /

लिङ्गदर्शनाच्च / मिमांसा-१०,.५१ /

वचनात्संस्थान्यत्वम् / मिमांसा-१०,.५२ /

अभावादतिरात्रेषुगृह्मते / मिमांसा-१०,.५३ /

अन्वयो वानारभ्य वानारभ्य विधानात् / मिमांसा-१०,.५४ /

चतुर्थेचतुर्थे ऽहन्यहीनस्य गृह्मतैत्यभ्यासेन प्रतीयेतभोजनवत् / मिमांसा-१०,.५५ /

अपि वा सङ्ख्यावत्त्वान्नानाहीनेषौ गृह्मते पक्षवदेकस्मिन्संख्यार्थभावात् / मिमांसा-१०,.५६ /

भोजने तत्सङ्ख्यं स्यात् / मिमांसा-१०,.५७ /

जगक्साम्नि सामाभावागृक्तः सामतदाख्यं स्यात् / मिमांसा-१०,.५८ /

उभयसाम्नि नैमित्तिकं विकल्पेन समत्वात्स्यात् / मिमांसा-१०,.५९ /

मुख्येन वा नियम्येत / मिमांसा-१०,.६० /

निमित्तविघाताद्वा क्रतुयुक्तस्य कर्म स्यात् / मिमांसा-१०,.६१ /

ऐन्द्रवायवस्याग्रवचनादादितः प्रतिकर्षः स्यात् / मिमांसा-१०,.६२ /

अपि वा धर्माविशेषात्तद्धर्माणां स्वस्थाने प्रतरणादग्रत्वमुच्यते / मिमांसा-१०,.६३ /

धारासंयोगाच्च / मिमांसा-१०,.६४ /

कामसंयोगे तु वचनादादितः प्रतिकर्षः स्यात् / मिमांसा-१०,.६५ /

तद्देशानां वाग्रसंयोगात्तद्युक्तं कामशास्त्रं स्यान्नित्यसंयोगात् / मिमांसा-१०,.६६ /

परेषु चाग्रशब्दः पूर्ववत्स्यात्तदादिषु / मिमांसा-१०,.६७ /

प्रतिकर्षो वा नित्यार्थेनाग्रस्य तदसंयोगात् / मिमांसा-१०,.६८ /

प्रतिकर्षञ्च दर्शयति / मिमांसा-१०,.६९ /

पुरस्तादैन्द्रवायवस्याग्रस्य कृतदेशत्वात् / मिमांसा-१०,.७० /

तुल्यधर्मत्वाच्च / मिमांसा-१०,.७१ /

तथा च लिङ्गदर्शनम् / मिमांसा-१०,.७२ /

सादनं चापि शेषत्वात् / मिमांसा-१०,.७३ /

लिङ्ग दर्शनाच्च / मिमांसा-१०,.७४ /

प्रदानं चापि सादनवत् / मिमांसा-१०,.७५ /

न वा प्रधानत्वाच्छेषत्वात्सादनन्तथा / मिमांसा-१०,.७६ /

त्र्यनीकायां न्यायोक्तेष्वाम्नानं गुणार्थं स्यात् / मिमांसा-१०,.७७ /

अपि वाहर्गणेष्वग्निवत्समानविधानं स्यात् / मिमांसा-१०,.७८ /

द्वादशाहस्य व्यूढसमूढत्वं पृष्ठवत्समानविधानं स्यात् / मिमांसा-१०,.७९ /

व्यूढो वा लिङ्गदर्शनात्समूढविकारः स्यात् / मिमांसा-१०,.८० /

कामसंयोगात् / मिमांसा-१०,.८१ /

तस्योभयथा प्रवृत्तिरैककर्म्यात् / मिमांसा-१०,.८२ /

एकादशिनीवत् त्र्यनीका परिवृत्तिः स्यात् / मिमांसा-१०,.८३ /

स्वस्थानविवृद्धिर्वाह्रामप्रत्यक्षसङ्ख्यत्वात् / मिमांसा-१०,.८४ /

पृष्ठ्यावृत्तौ चाग्रयणस्य दर्शनात् त्रयस्त्रिंशे परिवृत्तौ पुनरैन्द्रवायवः स्यात् / मिमांसा-१०,.८५ /

वचनात्परिवृत्तिरैकादशिनेषु / मिमांसा-१०,.८६ /

लिङ्गदर्शनाच्च / मिमांसा-१०,.८७ /

छन्दोव्यतिक्रमाद्व्यूढे भक्षपवमानपरिधिकरालस्यम न्त्राणां यथोत्पत्तिवचनमूहवत्स्यात् / मिमांसा-१०,.८८ /



एकर्च स्थानि यज्ञे स्युः स्वाध्यायवत् / मिमांसा-१०,./

तृचे वा लिङ्गदर्शनात् / मिमांसा-१०,./

स्वर्दृशं प्रतिवीक्षणं कालमात्रं परार्थत्वात् / मिमांसा-१०,./

पृष्ठ्यस्य युगपद्विधेरेकाहवद्द्विसामत्वम् / मिमांसा-१०,./

विभक्ते वा समस्तविधानात्तद्विभागेविप्रतिषिद्धम् / मिमांसा-१०,./

समासस्त्वेकादशिनेषु तत्प्रकृतित्वात् / मिमांसा-१०,./

विहारप्रतिषेधाच्च / मिमांसा-१०,./

श्रुतितो वा लोकवद्विभागः स्यात् / मिमांसा-१०,./

विहाप्रकृतित्वाच्च / मिमांसा-१०,./

विशये च तदासत्तेः / मिमांसा-१०,.१० /

त्रयस्तथेति चेत् / मिमांसा-१०,.११ /

न समत्वात्प्रयाजवत् / मिमांसा-१०,.१२ /

सर्वपृष्ठे पृष्ठशब्दात्तोषां स्यादेकदेशत्वं पृष्ठस्य कृतदेशत्वात् / मिमांसा-१०,.१३ /

विधेस्तु विप्रकर्षः स्यात् / मिमांसा-१०,.१४ /

वैरूपसामा क्रतुसंयागात् त्रिवृदेवदेकसामा स्यात् / मिमांसा-१०,.१५ /

पृष्ठार्थे वा प्रकृतिलिङ्गसंयोगात् / मिमांसा-१०,.१६ /

त्रिवृद्वदिति चेत् / मिमांसा-१०,.१७ /

न प्रकृतावकृत्स्नसंयोगात् / मिमांसा-१०,.१८ /

विधित्वात्नेति चेत् / मिमांसा-१०,.१९ /

स्याद्विशये तन्नयायत्वात्कर्माविभागात् / मिमांसा-१०,.२० /

प्रकृतेश्चाविकारात् / मिमांसा-१०,.२१ /

त्रिवृति सङ्ख्यात्वेन सर्वसंख्याविकारः स्यात् / मिमांसा-१०,.२२ /

स्तोमस्य वा तल्लिङ्गत्वात् / मिमांसा-१०,.२३ /

उभयसाम्नि विश्वजिद्वद्विभागः स्यात् / मिमांसा-१०,.२४ /

पृष्टार्थे वातदर्थत्वात् / मिमांसा-१०,.२५ /

लिङ्गदर्शनाच्च / मिमांसा-१०,.२६ /

पृष्ठे रसभोजनमावृत्ते संस्थिते त्रयस्त्रिंशे ऽहनि स्यात्तदानन्तर्यात्प्रकृतिवत् / मिमांसा-१०,.२७ /

अन्ते वा कृतकालत्वात् / मिमांसा-१०,.२८ /

अभ्यासे च तदभ्यासः कर्मणः पुनः प्रयोगात् / मिमांसा-१०,.२९ /

अन्ते वा कृतकालत्वात् / मिमांसा-१०,.३० /

आवृत्तिश्चु व्यवाये कालभेदात् स्यात् / मिमांसा-१०,.३१ /

मधु न दीक्षिता ब्रह्मचारित्वात् / मिमांसा-१०,.३२ /

प्राश्येत यज्ञार्थत्वात् / मिमांसा-१०,.३३ /

मानसमहरन्तरं स्याद्भेदव्यपदेशात् / मिमांसा-१०,.३४ /

तेन च संस्तवात् / मिमांसा-१०,.३५ /

अहरन्ताच्च परेण चोदना / मिमांसा-१०,.३६ /

पक्षे सङ्ख्या सहस्रवत् / मिमांसा-१०,.३७ /

अहरङ्ग वांशुवच्चोदनाभावात् / मिमांसा-१०,.३८ /

दशमविसर्गवचनाच्च / मिमांसा-१०,.३९ /

दशमे ऽहनीति च तद्गुणशास्त्रात् / मिमांसा-१०,.४० /

सङ्ख्यासामञ्जस्यात् / मिमांसा-१०,.४१ /

पश्वतिरेके चैकस्य भावात् / मिमांसा-१०,.४२ /

स्तुतिव्यपदेशमङ्गेनविप्रतिषिद्धं व्रतवत् / मिमांसा-१०,.४३ /

वचनादतदन्तत्वम् / मिमांसा-१०,.४४ /

सत्रमेकः प्रकृतिवत् / मिमांसा-१०,.४५ /

वचनात्तु बहूनां स्यात् / मिमांसा-१०,.४६ /

अपदेशः स्यादिति चेत् / मिमांसा-१०,.४७ /

नैकव्यपदेशात् / मिमांसा-१०,.४८ /

सन्निवापञ्च दर्शयति / मिमांसा-१०,.४९ /

बहूनामिति चैकस्मिन्विशेषवचनं व्यर्थम् / मिमांसा-१०,.५० /

अन्ये स्युर् ऋत्विजः प्रकृतिवत् / मिमांसा-१०,.५१ /

अपि वा यजमानाः स्युर् ऋत्विजामभिधानसंयोगात्तेषां स्याद्यजमानत्वम् / मिमांसा-१०,.५२ /

कर्तृ संस्कारो वचनादाधातृवदिति चेत् / मिमांसा-१०,.५३ /

स्याद्विशये तन्नयायत्वात्प्रकृतिवत् / मिमांसा-१०,.५४ /

स्वाम्याख्याः स्युर्गृहपतिवदिति चेत् / मिमांसा-१०,.५५ /

न प्रसिद्धग्रहणत्वादसंयुक्तस्य तद्धर्मेण / मिमांसा-१०,.५६ /

दीक्षितादीक्षितव्यपदेशश्च नोपपद्यते ऽर्थयोर्नित्यभावित्वात् / मिमांसा-१०,.५७ / अदक्षिणत्वाच्च / मिमांसा-१०,.५८ /

द्वादशाहस्य सत्रत्वमासनोपायिचोदनेन यजमानबहुत्वेन च सत्रशब्दाभिसंयोगात् / मिमांसा-१०,.५९ /

यजतिचोदनादहीनत्वं स्वामिनां चास्थितपरिमाणत्वात् / मिमांसा-१०,.६० /

अहीने दक्षिणाशास्त्रं गुणत्वात्प्रत्यह कर्मभेदः स्यात् / मिमांसा-१०,.६१ /

सर्वस्य वैककर्म्यात् / मिमांसा-१०,.६२ /

पृषदाज्यवद्वाह्रां गुणशास्त्रं स्यात् / मिमांसा-१०,.६३ /

ज्यौतिष्टोम्यस्तु दक्षिणाः सर्वासामेककर्मत्वात्प्रकृतिवत्तस्मान्नासां विकारः स्यात् / मिमांसा-१०,.६४ /

द्वादशाहे तु वचनात्प्रत्यहं दक्षिणाभेदस्तत्प्रकृतित्वात्परेषु तासां संख्याविकारः स्यात् / मिमांसा-१०,.६५ /

परिक्रयाविभागाद्वा समस्तस्य विकारः स्यात् / मिमांसा-१०,.६६ /

भेदस्तु गुणसंयोगात् / मिमांसा-१०,.६७ /

प्रत्यहं सर्वसंस्कारः प्रकृतिवत्सर्वासां सर्वशेषत्वात् / मिमांसा-१०,.६८ /

एकार्थत्वान्नेति चेत् / मिमांसा-१०,.६९ /

स्यादुत्पत्तौ कालभेदात् / मिमांसा-१०,.७० /

विभज्य तु संस्कारवचनाद्द्वादशाहवत् / मिमांसा-१०,.७१ /

लिङ्गेन द्रव्यनिर्देशे सर्वत्र प्रत्ययः स्याल्लिङ्गस्य सर्वगामित्वादाग्नेयवत् / मिमांसा-१०,.७२ /

यावदर्थंवार्थ शेषत्वादल्पेन परिमाणं स्यात्तस्मिंश्च लिङ्गसामर्थ्यम् / मिमांसा-१०,.७३ /

आग्नेये कृत्स्त्रविधिः / मिमांसा-१०,.७४ /

ऋजीषस्य प्रधानत्वादहर्गणे सर्वस्य प्रतिपत्तिः स्यात् / मिमांसा-१०,.७५ /

वाससि मानोपावहरणे प्रकृतौ सोमस्य वचनात् / मिमांसा-१०,.७६ /

तत्राहर्गणे ऽर्थाद्वासःप्रकृतिः स्यात् / मिमांसा-१०,.७७ /

मानं प्रत्युत्पादयेत्प्रकृतौ तेन दर्शनादुपावहरणस्य / मिमांसा-१०,.७८ /

हरणे वा श्रुत्यसंयोगादर्थाद्विकृतौ तेन / मिमांसा-१०,.७९ /



पशोरेकहविष्ट्वं समस्तचोदितत्वात् / मिमांसा-१०,./

प्रत्यङ्गं वा ग्रहवदङ्गानां पृथक्कल्पनत्वात् / मिमांसा-१०,./

हविर्भेदात्कर्मणे ऽभ्यासस्तस्मात्तेभ्यो ऽवदानं स्यात् / मिमांसा-१०,./

आज्यभागवद्वा विर्देशात्परिसंख्यास्यात् / मिमांसा-१०,./

तेषां वा द्व्यवदानत्वं विवक्षन्नभिनिर्दिशेतपशोः पञ्चावदानत्वात् / मिमांसा-१०,./

अंसशिरोनूकसक्थिप्रतिषेधश्च तदन्यपरिसङ्घ्याने ऽनर्थकः स्यात्प्रदानत्वात्तेषां निरवदानप्रतिषेधः स्यात् / मिमांसा-१०,./

अपि वा परिसङ्ख्या स्यादनवदानीयशब्दत्वात् / मिमांसा-१०,./

अब्राह्मणे च दर्शनात् / मिमांसा-१०,./

शृताशृतोपदेशाच्च तेषामुत्सर्गवदयज्ञशेषत्वं / मिमांसा-१०,./

इज्याशेषात्सिवष्टकृदिज्येत प्रकृचिवत् / मिमांसा-१०,.१० /

त्र्यङ्गैर्वा शरवद्विकारः स्यात् / मिमांसा-१०,.११ /

अध्यूध्नी होतुस्त्र्यङ्गवदिडाभक्षविकारः स्यात् / मिमांसा-१०,.१२ /

शेषे वा समवैति तस्माद्रथवन्नियमः स्यात् / मिमांसा-१०,.१३ /

अशास्त्रत्वात्तु नैवं स्यात् / मिमांसा-१०,.१४ /

अपि वा दानमात्रं स्याद्भक्षशब्दानभिसम्बन्धात् / मिमांसा-१०,.१५ /

दातुस्त्वविद्यमानत्वादिडाभक्षविकारः स्याच्छेषं प्रत्यविशिष्चत्वात् / मिमांसा-१०,.१६ /

अग्नीधश्च वविष्ठुपध्यूध्नीवत् / मिमांसा-१०,.१७ /

अप्राकृतत्वान्मैत्रावरुणस्याभक्षत्वम् / मिमांसा-१०,.१८ /

स्याद्वा होत्रध्वर्युविकारत्वात्तयो कर्माभिसम्बन्धात् / मिमांसा-१०,.१९ /

द्विभागः स्याद्द्विकर्मत्वात् / मिमांसा-१०,.२० /

एकत्वाद्वैकभागः स्याद्भागस्याश्रुतिभूतत्वात् / मिमांसा-१०,.२१ /

प्रतिप्रस्थातुश्च वपाश्ररणात् / मिमांसा-१०,.२२ /

अभक्षो वा कर्मभेदात्तस्याः सर्वप्रदानत्वात् / मिमांसा-१०,.२३ /

विकृतौ प्राकृतस्य विधेर्ग्रहणात्पुनः श्रुतिरनर्थिका स्यात् / मिमांसा-१०,.२४ /

अपि वाऽग्नेयवद्द्विशब्दत्वं स्यात् / मिमांसा-१०,.२५ /

न वा शब्दपृथक्त्वात् / मिमांसा-१०,.२६ /

अधिकं वार्थवत्त्वात्स्यादर्थवादगुणाभावे वचनादविकारे तेषु हि तादर्थ्यं स्यादपूर्वत्वात् / मिमांसा-१०,.२७ /

प्रतिषेधः स्यादिति चेत् / मिमांसा-१०,.२८ /

नाश्रुतत्वात् / मिमांसा-१०,.२९ /

अग्रहणादिति चेत् / मिमांसा-१०,.३० /

न तुल्यत्वात् / मिमांसा-१०,.३१ /

तथा तद्ग्रहणे स्यात् / मिमांसा-१०,.३२ /

अपूर्वतां तु दर्शयोद्ग्रहणस्यार्थवत्त्वात् / मिमांसा-१०,.३३ /

ततो ऽपि यावदुक्तं स्यात् / मिमांसा-१०,.३४ /

स्विष्टकृद्भक्षप्रतिषेधः स्यात्तुल्यकारणत्वात् / मिमांसा-१०,.३५ /

अतिषेधो वा दर्शनादिडायां स्यात् / मिमांसा-१०,.३६ /

प्रतिषेधो वा विधिपूर्वस्य दर्शनात् / मिमांसा-१०,.३७ /

शंय्विडान्तत्वे विकल्पः स्यात्परेषु पत्न्यनुयाजप्रतिषेधो ऽनर्थकः स्यात् / मिमांसा-१०,.३८ /

नित्यानुवादो वा कर्मणः स्यादशब्दत्वात् / मिमांसा-१०,.३९ /

प्रतिषेधार्थवत्त्वाच्चोत्तरस्य परस्तात्प्रतिषेधः स्यात् / मिमांसा-१०,.४० /

प्राप्तेर्वा पूर्वस्य वचनादतिक्रमः स्यात् / मिमांसा-१०,.४१ /

प्रतिषेधस्य त्वरायुक्तत्वात्तस्य च नान्यदेशत्वम् / मिमांसा-१०,.४२ /

उपसत्सु यावदुक्तमकर्म स्यात् / मिमांसा-१०,.४३ /

स्त्रोवेण वागुणत्वाच्छेपप्रतिषेधः स्यात् / मिमांसा-१०,.४४ /

अतिषेझं वा प्रतिषिध्यप्रतिप्रसवात् / मिमांसा-१०,.४५ /

अनिज्या वा शेषस्य मुख्यदेवतानभीज्यत्वात् / मिमांसा-१०,.४६ /

अवभृथे बर्हिषः प्रतिषेधाच्छेषकर्म स्यात् / मिमांसा-१०,.४७ /

आज्यभागयोर्वा गुणत्वाच्छेषप्रतिषेधः स्यात् / मिमांसा-१०,.४८ /

प्रयाजानां त्वेकदेशप्रतिषेधाद्वाक्यशेषत्वं तस्मान्नित्यानुवादः स्यात् / मिमांसा-१०,.४९ /

आज्यभागयोर्ग्रहणं वित्यानुवादो वा गृहमेधीयवत्स्यात् / मिमांसा-१०,.५० /

विरोधिनामेकश्रुतौ नियमः स्याद्ग्रहणस्यार्थवत्त्वाच्छरवच्च श्रुतितो विशिष्टत्वात् / मिमांसा-१०,.५१ /

उभयप्रदेशान्नेतिचेत् / मिमांसा-१०,.५२ /

शरेष्वपीति चेत् / मिमांसा-१०,.५३ /

विरोध्यग्रहणात्तथा शरेष्विति चेत् / मिमांसा-१०,.५४ /

तथेतरास्मिन् / मिमांसा-१०,.५५ /

श्रुत्यानर्थक्यमिति चेत् / मिमांसा-१०,.५६ /

ग्रहणस्यार्थवत्त्वाद्ग्रहणमप्रवृत्ते स्यात् / मिमांसा-१०,.५७ /

अधिकं स्यादिति चेत् / मिमांसा-१०,.५८ /

अधिकं स्यादिति चेत् / मिमांसा-१०,.५९ /

नार्थाभावात् / मिमांसा-१०,.६० /

तथैकार्थविकारे प्राकृतस्याप्रवृत्तिः प्रवृत्तौ हि विकल्पः स्यात् / मिमांसा-१०,.६१ /

यावच्छ्रतीति चेत् / मिमांसा-१०,.६२ /

न प्रकृतावशब्दत्वात् / मिमांसा-१०,.६३ /

विकृतौ त्वनियमः स्यात्प्रषदाज्यवद्ग्रहणस्य गुणार्थत्वादुभयोश्च प्रदिष्टत्वाद्गुणशास्त्रं यदेति स्यात् / मिमांसा-१०,.६४ /

ऐकार्थ्याद्वा नियभ्येत श्रुतितो विशिष्टत्वात् / मिमांसा-१०,.६५ /

विरोधित्वाच्च लोकवत् / मिमांसा-१०,.६६ /

क्रतोश्चतद्गुणत्वात् / मिमांसा-१०,.६७ /

विरोधिनाञ्च तच्छ्रुतावशब्दत्वाद्विकल्पः स्यात् / मिमांसा-१०,.६८ /

पृषदाज्ये समुच्चयाद्ग्रहणस्य गुणार्थत्वम् / मिमांसा-१०,.६९ /

यद्यपिचतुरवत्तीति तु नियमे नोपपद्यते / मिमांसा-१०,.७० /

क्रत्वन्तरे वा तन्नयायत्वात्कर्मभेदात् / मिमांसा-१०,.७१ /

यथाश्रुतीति चेत् / मिमांसा-१०,.७२ /

न चोदनैकत्वात् / मिमांसा-१०,.७३ /



प्रतिषेधः प्रदेशे ऽनारभ्यविधाने च प्राप्तप्रतिषिद्धत्वाद्वि कल्पःस्यात् / मिमांसा-१०,./

अर्थप्राप्तवदिति चेत् / मिमांसा-१०,./

न तुल्यहेतुत्वादुभयं शब्दलक्षणम् / मिमांसा-१०,./

अपि तु वाक्यशेषः स्यादन्याय्यत्वाद्विकल्पस्य विधोनामेकदेशः स्यात् / मिमांसा-१०,./

अपूर्वे चार्थवादः स्यात् / मिमांसा-१०,./

शिष्ट्वा तु प्रतिषेधः स्यात् / मिमांसा-१०,./

न चेदन्यं प्रकल्पयेत्प्रकॢप्तावर्थवादः स्यादानर्थक्यात्परसामर्थ्याच्च / मिमांसा-१०,./

पूर्वैश्चच तुल्यकालत्वात् / मिमांसा-१०,./

उपवादश्च तद्वत् / मिमांसा-१०,./

प्रतिषेधादकर्मेति चेत् / मिमांसा-१०,.१० /

न शब्दपूर्वत्वात् / मिमांसा-१०,.११ /

दीक्षितस्य दानहोमपाकप्रतिषेधो ऽविशेषात्सर्वदानहोमपाकप्रतिषेधः स्यात् / मिमांसा-१०,.१२ /

अक्रतुयुक्तानां वा धर्मः स्यात्क्रतोः प्रत्यक्षशिष्टत्वात् / मिमांसा-१०,.१३ /

तस्य वाप्यानुमानिकमविशेषात् / मिमांसा-१०,.१४ /

अपि तु वाक्यशेषत्वादितरपर्युदासः स्यात्प्रतिषेधे विकल्पः स्यात् / मिमांसा-१०,.१५ /

अविशेषेण यच्छास्त्रमन्याय्यत्वाद्विकल्पस्य तत्सन्दिग्धमाराद्विशेषशिष्ट स्यात् / मिमांसा-१०,.१६ /

अकरणे तु यच्छास्त्रं विशेषे श्रुयमाणमविकृतमाज्य भागवत्प्राकृतप्रतिषेधार्थम् / मिमांसा-१०,.१७ /

विकारे तु तदर्थं स्यात् / मिमांसा-१०,.१८ /

वाक्यशेषो वा क्रतुना ग्रहणात्स्यादनारभ्यविधानस्य / मिमांसा-१०,.१९ /

मन्त्रेष्ववाक्यशेषत्वं गुणोपदेशात्स्यात् / मिमांसा-१०,.२० /

अनाम्नाते च दर्शनात् / मिमांसा-१०,.२१ /

प्रतिषेधाच्च / मिमांसा-१०,.२२ /

अग्न्यतिग्राह्यस्य विकृतावुपदेशादप्रवृत्तिः स्यात् / मिमांसा-१०,.२३ /

मासि ग्रहणञ्च तद्वात् / मिमांसा-१०,.२४ /

ग्रहणं वा तुल्यत्वात् / मिमांसा-१०,.२५ /

लिङ्गदर्शनाच्च / मिमांसा-१०,.२६ /

ग्रहणं समानविधानं स्यात् / मिमांसा-१०,.२७ /

मासिग्रहणमभ्यासप्रतिषेधार्थम् / मिमांसा-१०,.२८ /

उत्पत्तितादर्थ्याच्चतुरवत्तम प्रधानस्य होमसंयोगादधिकमाज्यमतुल्यत्वाल्लोकवदुत्पत्तेर्गुणभूतत्वात् / मिमांसा-१०,.२९ /

तत्संस्कारश्रुतेश्च / मिमांसा-१०,.३० /

ताभ्यां वा सह स्विष्टकृतः सकृत्त्वे द्विपभिघारणेन तदाप्तिवचनात् / मिमांसा-१०,.३१ /

तुल्यवच्चाभिधाय सर्वेषु भक्त्यनुक्रमणात् / मिमांसा-१०,.३२ /

साप्तदश्यवन्नियम्येत / मिमांसा-१०,.३३ /

हविषो वा गुणभूतत्वात्तथाभूतविवक्षा स्यात् / मिमांसा-१०,.३४ /

पुरोडाशाभ्यामित्यधिकृतानां पुरोडाशयोरुपदेशस्तच्छ्रुतित्वाद्वैश्यस्तोमवत् / मिमांसा-१०,.३५ /

न त्वनित्याधिकारो ऽस्ति विधौ नित्येनसम्बन्धस्तस्मादवाक्यशेषत्वम् / मिमांसा-१०,.३६ /

सति च नैकदेशेन कर्तुः प्रधानभूतत्वात् / मिमांसा-१०,.३७ /

कृत्स्नत्वात्तु तथा स्तोमे / मिमांसा-१०,.३८ /

कर्तुः स्यादिति चेत् / मिमांसा-१०,.३९ /

न गुणार्थत्वात्प्राप्ते न चोपदेशार्थः / मिमांसा-१०,.४० /

कर्मणोस्तु प्रकरणे तन्न्यायत्वाद्गुणानां लिङ्गेन कालशास्त्रं स्यात् / मिमांसा-१०,.४१ /

यदि तु सान्नाय्यं सोमयाजिनो न ताभ्यां समवायोस्ति विभक्तकालत्वात् / मिमांसा-१०,.४२ /

अपि वा विहितत्वाद्गुणार्थायां पुनः श्रुतौ सन्देहे श्रुतिर्द्विदेवतार्था स्याद्यथानभिप्रेतस्तथाऽग्नेयो दर्शनादेकदेवते / मिमांसा-१०,.४३ /

विधिं तु बादरायणः / मिमांसा-१०,.४४ /

प्रतिषिद्धविज्ञानाद्वा / मिमांसा-१०,.४५ /

तथा चान्यार्थदर्शनम् / मिमांसा-१०,.४६ /

उपांशुयाजमन्तरा यजतीति हविर्लिङ्गाश्रुतित्वाद्यथाकामी प्रतीयेत / मिमांसा-१०,.४७ /

ध्रौवाद्वा सर्वसंयोगात् / मिमांसा-१०,.४८ /

तद्वच्च देवतायां स्यात् / मिमांसा-१०,.४९ /

तान्द्रीणां प्रकरणात् / मिमांसा-१०,.५० /

धर्माद्वा स्यात्प्रजापतिः / मिमांसा-१०,.५१ /

देवतायास्त्वनिर्वचनं तत्र शब्दस्येह मृदुत्वं तस्मादिहाधिकारेण / मिमांसा-१०,.५२ /

विष्णुर्वा स्याद्धौत्राम्नानादमावास्याहविश्च स्याद्धौत्रस्य तत्र दर्शनात् / मिमांसा-१०,.५३ /

अपि वा पौर्णमास्यां स्यात्प्रधानशब्दसंयोगाद्गुणत्वान्मन्त्रो यथा प्रधान स्यात् / मिमांसा-१०,.५४ /

आनन्तर्यञ्च सान्नाय्यस्य पुरोडाशेन दर्शयत्यमावास्या विकारे / मिमांसा-१०,.५५ /

अगनीषामविधानासत्तु पौर्णमास्यामुभयत्र विधीयते / मिमांसा-१०,.५६ /

प्रतिषिद्ध्यविधानाद्वा विष्णुः समानदेशः स्यात् / मिमांसा-१०,.५७ /

तथा चान्यार्थदर्शनम् / मिमांसा-१०,.५८ /

न चानङ्ग सकृच् छ्रुताव् उभयत्र विधीयोतासम्बन्धात् / मिमांसा-१०,.५९ /

गुणानां च परार्थत्वात्प्रवृत्तौ विधिलिङ्गानि दर्शयति / मिमांसा-१०,.६० /

विकारे चाश्रुतित्वात् / मिमांसा-१०,.६१ /

द्विपुरोडाशायां स्यादन्तरार्थत्वात् / मिमांसा-१०,.६२ /

अजामिकरणार्थत्वाच्च / मिमांसा-१०,.६३ /

तदर्थमिति चेन्नतत्प्रधानत्वात् / मिमांसा-१०,.६४ /

अशिष्ठेन च सम्बन्धात् / मिमांसा-१०,.६५ /

उत्पत्तेस्तु निवेशः स्याद्गुस्यानुपरोधेनार्थस्य निद्यमानत्वाद्विधानादन्तरार्थस्य नैमित्तिकत्वात्तदभावे ऽश्रुतौ स्यात् / मिमांसा-१०,.६६ /

उभयोस्तु विधानात् / मिमांसा-१०,.६७ /

गुणानाञ्च परार्थत्वादुपवेषवद्यदेति स्यात् / मिमांसा-१०,.६८ /

अनपायश्च कालस्य लक्षणं हि पुरोडाशौ / मिमांसा-१०,.६९ /

प्रशंसार्थमजामित्वम् / मिमांसा-१०,.७० /



प्रयोजनाभिसम्बन्धात्पृथक् सतौततः स्यादैककर्म्यमेक शब्दाभिसंयोगात् / मिमांसा-११,./

शेषवद्वा प्रयोजनं प्रतिजनं प्रतिकर्म विभज्येत / मिमांसा-११,./

अविधानात्तु नैवं स्यात् / मिमांसा-११,./

शेषस्य हि परार्थत्वाद्विधानात्प्रतिप्रधानभावः स्यात् / मिमांसा-११,./

अङ्गनान्तु शब्दभेदात्क्रतुवत्स्या त्फलानयत्वम् / मिमांसा-११,./

अर्थभेदस्तु तत्राथेहैतार्थ्यदैककर्म्यम् / मिमांसा-११,./

शब्दभेदान्नेति चेत् / मिमांसा-११,./

कर्मार्थत्वात्प्रयोगे ताच्छब्द्यं स्यात्तदर्थत्वात् / मिमांसा-११,./

कर्तृविधेर्नानार्थत्वाद्गुणप्रधानेषु / मिमांसा-११,./

आरम्भस्य शब्दपूर्वत्वात् / मिमांसा-११,.१० /

एकेनापि समाप्येत कृतार्थत्वाद्यथा क्रत्वन्तरेषुप्राप्तेषुचो त्तरावत्स्यात् / मिमांसा-११,.११ /

फलाभावान्नेति चेत् / मिमांसा-११,.१२ /

न कर्मसंयोगात्प्रयोजनबशब्ददोषं स्यात् / मिमांसा-११,.१३ /

एकशब्द्यादिति चेत् / मिमांसा-११,.१४ /

नार्थपृथक्त्वात्,मत्वादगुणत्वम् / मिमांसा-११,.१५ /

विधेस्त्वेकश्रुतित्वादपर्यायविधानान्नित्यच्छ्रुतभूताभिसंयोगादर्थेन युगपत्प्राप्तेर्यथाप्राप्तं स्वशब्दो निवीतवत्सप्वप्रयोगे प्रवृत्तिः स्यात्ष मिमांसा-११,.१६ /

तथा कर्मोपदेशत्वात् / मिमांसा-११,.१७ /

क्रत्वन्तरेषु पुनर्वचनम् / मिमांसा-११,.१८ /

उत्तरास्वश्रुतित्वाद्विशेषाणां कृतार्थत्वात्संदोहे यथाकामी प्रतीयेत / मिमांसा-११,.१९ /

कर्मण्यारम्भभाव्यत्वात्कृषिवत्प्रत्यारभ्भं फलानि स्युः / मिमांसा-११,.२० /

अधिकारश्च सर्वेषां कार्यत्वादुपपद्यते विशेषः / मिमांसा-११,.२१ /

सकृत्तु स्यात्कृतार्थत्वादङ्गवत् / मिमांसा-११,.२२ /

शब्दार्थश्च तथा लोके / मिमांसा-११,.२३ /

अपि वा संप्रयोगे यथाकामी प्रतायेताश्रुतित्वाद्विधिषप वचनानि स्युः / मिमांसा-११,.२४ /

एकशब्द्यात्तथाङ्गेषु / मिमांसा-११,.२५ /

लोके कर्मार्ऽथ लक्षणम् / मिमांसा-११,.२६ /

क्रियाणामर्थशेषत्वात्प्रत्यक्षतस्तन्निर्वृ त्त्यापवर्गः स्यात् / मिमांसा-११,.२७ /

घर्ममात्रे त्वदर्शनाच्छब्दार्थेनापवर्गः स्यात् / मिमांसा-११,.२८ /

क्रतुवच्चानुमानेनाभ्यासे फलभूमा स्यात् / मिमांसा-११,.२९ /

सकृद्वा कारणैकत्वात् / मिमांसा-११,.३० /

परिमाणं चानियमेन स्यात् / मिमांसा-११,.३१ /

फलस्यारम्भनिर्वृत्तेः क्रतुषु स्यात्फलान्यत्वम् / मिमांसा-११,.३२ /

अर्थवांस्तु नैकत्वादभ्यासः स्यादनर्थको यथा भोजन मेकस्मिन्नर्थस्यापरिमाणत्वात्प्रधाने च क्रियार्थत्वादनियमः स्यात् / मिमांसा-११,.३३ /

पृथक्त्वाद्विधितः परिमाणं स्यात् / मिमांसा-११,.३४ /

अनभ्यासो वा प्रयोगवचनैकत्वात्सर्वम्ययुगपच्छास्त्रा दफलत्वाच्च कर्मणः स्यात्क्रियार्थत्वात् / मिमांसा-११,.३५ /

अभ्यासो वा छेदनसंमार्गावदानेषु वचनात्सकृत्त्वस्य / मिमांसा-११,.३६ /

अनभ्यासस्तु वाच्यत्वात् / मिमांसा-११,.३७ /

बहुवचनेन सर्वप्राप्तेर्विकल्पः स्यात् / मिमांसा-११,.३८ /

दृष्टः प्रयोग इति चेत् / मिमांसा-११,.३९ /

भक्तयेति चेत् / मिमांसा-११,.४० /

तथोतरस्मिन् / मिमांसा-११,.४१ /

प्रथमं वा नियम्येत कारणादतिक्रमः स्यात् / मिमांसा-११,.४२ /

श्रुत्यर्थाविशेषात् / मिमांसा-११,.४३ /

तथा चान्यार्थदर्शनम् / मिमांसा-११,.४४ /

प्रक-त्या च पूर्ववत्तदासत्तेः / मिमांसा-११,.४५ /

उत्तरासु यावत्स्वमपूर्वत्वात् / मिमांसा-११,.४६ /

यावत्स्वं वान्यविधानेनावादः स्यात् / मिमांसा-११,.४७ /

साकल्यविधानात् / मिमांसा-११,.४८ /

बहूर्थत्वाच्च / मिमांसा-११,.४९ /

अग्निहोत्रे चाशेषवद्यवागूनियमः प्रतिषेधःकुमांराणाम् / मिमांसा-११,.५० /

सर्वप्रायिणापि लिङ्गेन संयुज्यते देवताभिसंयोगात् / मिमांसा-११,.५१ /

पूधानकर्मार्थत्वादङ्गानां तद्भेदात्कर्मभेदः प्रयोगे स्यात् / मिमांसा-११,.५२ /

क्रमकोपश्च यौगपद्यात् स्यात् / मिमांसा-११,.५३ /

तुल्यानां तु यौग पद्यमेकशब्दोपदेशात्स्याद्विशेषाग्रहणात् / मिमांसा-११,.५४ /

एकार्थ्यादव्यवायः स्यात् / मिमांसा-११,.५५ /

तथाचान्यार्थदर्शनं कामुकायनः / मिमांसा-११,.५६ /

तन्नयायत्वादशक्तेरानुपूर्व्यं स्यात्संस्कारस्य तदर्थत्वात् / मिमांसा-११,.५७ /

असंसृष्टो ऽपि तादर्थ्यात् / मिमांसा-११,.५८ /

विभवाद्वा प्रदीपवत् / मिमांसा-११,.५९ /

अर्थात्तु लोके विधितः प्रतिप्रधानं स्यात् / मिमांसा-११,.६० /

सकृदिज्यां कामुकायनः परिमाणविरोधात् / मिमांसा-११,.६१ /

विधेस्त्वितरार्थत्वात्सकृदिज्याश्रुतिव्यतिक्रमः स्यात् / मिमांसा-११,.६२ /

विधिवत्प्रकरणाविभागे प्रयोगं बादरायणः / मिमांसा-११,.६३ /

अपि चैकेन सन्निधानमविशेषकोहेतुः / मिमांसा-११,.६४ /

क्कतिद्विधानान्नेति चेत् / मिमांसा-११,.६५ /

न विधेश्चोदित्वात् / मिमांसा-११,.६६ /

व्याख्यातं तुल्यानां यौगपद्यमगृह्यमाणविशेषाणाम् / मिमांसा-११,.६७ /

भदर्तु कालभेदाच्चोदनाव्यवायात्स्याद्विशिष्टानां विधिप्रधानकात्वात् / मिमांसा-११,.६८ /

तथा चान्यार्थदर्शनम् / मिमांसा-११,.६९ /

विधिरिति चेन्न वर्तमानापदेशात् / मिमांसा-११,.७० /



एकदेशकालकर्तृत्व मुख्यानामेकशब्दोपदेशात् / मिमांसा-११,./

अविधिश्तेत्कर्मणामभिसम्बन्धः प्रतीयेत तल्लक्षणार्थाभिसंयोगाद्विधित्वाच्चेतरेषां प्रतिप्रधानभावः स्यात् / मिमांसा-११,./

अङ्गेषु च तदभावः प्रधानं प्रतिनिर्देशात् / मिमांसा-११,./

यदि तु कर्मणो विधिसम्बन्धः स्यादैकशब्द्याल्प्रधानार्थाभिधासंयोगात् / मिमांसा-११,./

तथा तान्यार्थदर्शनम् / मिमांसा-११,./

श्रुतिश्चैषां प्रधानवत्कर्मश्रुतेः परार्थत्वात् / मिमांसा-११,./

कर्मणो ऽश्रुतित्वाच्च / मिमांसा-११,./

अङ्गानि तु विधिनत्वात्प्रधानेनोपदिश्येरंस्तस्मात्स्यादे कगेशत्वम् / मिमांसा-११,./

द्रव्यदेवतं तथेति चेत् / मिमांसा-११,./

न चोदनाविधिशेषरवान्नियमार्थो विशेषः / मिमांसा-११,.१० /

तेषु समवेतानां समवायात्तन्त्रमङ्गानि भेदस्तु तद्भैदात्कर्मभेदः प्रयोगे स्यात्तेषां प्रधानशब्दत्वात्तथा चान्यार्थदर्शनम् / मिमांसा-११,.११ /

इष्टिराजसूयचातुर्मास्येष्वैककर्म्यादङ्गानां तन्त्रभावः स्यात् / मिमांसा-११,.१२ /

कालभेगान्नेति चेत् / मिमांसा-११,.१३ /

नैकदेशत्वात्पशुवत् / मिमांसा-११,.१४ /

अपि वा कर्मपृथक्त्वात्तेषां तन्त्रविधानात्साङ्गानामुपदेशः स्यात् / मिमांसा-११,.१५ /

तथा चान्यार्थदर्शनम् / मिमांसा-११,.१६ /

तथा तदवयवेषु स्यात् / मिमांसा-११,.१७ /

पशौ तु चेदनैकत्वात्तन्त्रस्य विप्रकर्षः स्यात् / मिमांसा-११,.१८ /

तथा स्यादध्वरकल्पेष्टौ विशेषस्यैककालत्वात् / मिमांसा-११,.१९ /

इष्टिरिति चैकवच्छ्रुतिः / मिमांसा-११,.२० /

अपि वाकर्मपृथकत्वात्तेषां च तन्त्रविधानात्साङ्गानामुपदेशः स्यात् / मिमांसा-११,.२१ /

प्रथमस्य वा कालवचनम् / मिमांसा-११,.२२ /

फलैकत्वादिष्टिशब्दो यथान्यत्र / मिमांसा-११,.२३ /

वसाहोमस्तन्त्रमेकदेवतेषु स्यात्प्रदानस्यैककालत्वात् / मिमांसा-११,.२४ /

कालभेदात्वावृत्तिर्देवताभेदे / मिमांसा-११,.२५ / अन्ते यूपाहुतिस्तद्वत् / मिमांसा-११,.२६ /

इतरप्रतिषेधो वा / मिमांसा-११,.२७ /

अशास्त्रत्वाच्च देशानाम् / मिमांसा-११,.२८ /

अवभृथे प्रधाने ऽग्निविकारः स्यान्न हि तद्धेतुरग्निसंयोगः / मिमांसा-११,.२९ /

साङ्गो वा प्रयोदवचनैकत्वात् / मिमांसा-११,.३० /

लिङ्गदर्शनाच्च / मिमांसा-११,.३१ /

शब्दविभागाच्च देवतानपनयः / मिमांसा-११,.३२ /

दक्षिणे ऽग्नौ वरुणप्रधासेषु देशभेदात्सर्वं क्रियते / मिमांसा-११,.३३ /

अचोदनेतिचेत् / मिमांसा-११,.३४ /

स्यात्पौर्णमासीवत् / मिमांसा-११,.३५ /

प्रयोगचेदनेति चेत् / मिमांसा-११,.३६ /

इहापिमारुत्याः प्रयागश्चोद्यते / मिमांसा-११,.३७ /

आसादानमिति चेत् / मिमांसा-११,.३८ /

नोत्तरेणैकवाक्यत्वात् / मिमांसा-११,.३९ /

अवाच्यत्वात् / मिमांसा-११,.४० /

आमनायवचनं तद्वत् / मिमांसा-११,.४१ /

कर्तृभेदस्तथेति चेत् / मिमांसा-११,.४२ /

न समवायात् / मिमांसा-११,.४३ /

लिङ्गदर्शनाच्च / मिमांसा-११,.४४ /

वेदिसंयोगादिति चेत् / मिमांसा-११,.४५ /

न देशमात्रत्वात् / मिमांसा-११,.४६ /

एकवाक्यत्वात् / मिमांसा-११,.४७ /

एकाग्नित्वादपरेषु तन्त्रं स्यात् / मिमांसा-११,.४८ /

नाना वा कर्तृभेदात् / मिमांसा-११,.४९ /

पर्यग्निकृतानामुत्सर्गे प्राजापत्यानां कर्मोत्सर्गः श्रुतिसामानयादारण्यवत्तस्माद्भ्मसाम्नि चोदनापृथक्तवं स्यात् / मिमांसा-११,.५० /

संस्कारप्रतिषेधो वा वाक्यैकत्वो क्रतुसामान्यात् / मिमांसा-११,.५१ /

वाक्यैकत्वे क्रतुसामान्यात् / मिमांसा-११,.५२ /

वपानां चानभिघारणस्य दर्शनात् / मिमांसा-११,.५३ /

पञ्चशारदीयास्तथेति चेत् / मिमांसा-११,.५४ /

न चेदनैकवाक्यत्वात् / मिमांसा-११,.५५ /

यातयामत्वाच्च / मिमांसा-११,.५६ /

संस्कारणां च तद्दर्शनात् / मिमांसा-११,.५७ /

दशपेये क्रयप्रतिकर्षात्प्रतिकर्षस्ततः प्राचां तत्समानं तन्त्रं स्यात् / मिमांसा-११,.५८ /

समानवचनं तद्वत् / मिमांसा-११,.५९ /

अतिकर्षो वार्ऽथहेतुत्वात् / मिमांसा-११,.६० /

पूर्वस्मिंश्चावभृथस्य दर्शनात् / मिमांसा-११,.६१ /

समानः कालसामान्यात् / मिमांसा-११,.६२ /

विष्कासस्यावभृथे तदेकदेशत्वात्पशुवत्प्रदानविप्रकर्षः स्यात् / मिमांसा-११,.६३ /

अपनयो वा प्रसिद्धेनाभिसंयोगात् / मिमांसा-११,.६४ /

प्रतिपत्तिरिति चेन्न कर्मसंयोगात् / मिमांसा-११,.६५ /

उदयनीये च तद्वत् / मिमांसा-११,.६६ /

प्रतिपत्तिर्वातकर्मसंयोगात् / मिमांसा-११,.६७ /

अर्थकर्म वा शेषत्वाच्छ्रयणवत्तदर्थेनविधानात् / मिमांसा-११,.६८ /



अङ्गानां मुख्यकालत्वाद्वचनादन्यकालत्वम् / मिमांसा-११,./

द्रव्यस्य कर्मकालनिष्पत्तेः प्रयोगः सर्वार्थः स्यात्स्बकालत्वात् / मिमांसा-११,./

यूपश्चाकर्मकालत्वात् / मिमांसा-११,./

एकयूपं च दर्षयति / मिमांसा-११,./

संस्कारास्त्वावर्तेरन्नर्थकालत्वात् / मिमांसा-११,./

तत्कालस्तु यूपकर्मत्वात्तस्य धर्मविधानात्सर्वार्थानां च वचनादन्यकालत्वम् / मिमांसा-११,./

सकृन्मानं च दर्शयति / मिमांसा-११,./

स्वरुस्तन्त्रापवर्गः स्यादस्वकालत्वात् / मिमांसा-११,./

साधारणे वानुनिष्पत्तिस्तस्य साधारणत्वात् / मिमांसा-११,./

सोमान्ते च प्रतिपत्तिदर्शनात् / मिमांसा-११,.१० /

न चोत्पत्तिवाक्यत्वात्प्रदेशात्प्रस्तरे तथा / मिमांसा-११,.११ /

अहर्गणे विषाणाप्रासनं धरमविप्रतिषेधादन्ते प्रथमे वाहनि विकल्पः स्यात् / मिमांसा-११,.१२ /

पाणेस्त्वश्रुतिभूतत्वाद्विशाणानियमः स्यात्प्रातः सवनमध्यत्वाच्छिष्टे चाभिप्रवृत्तत्वात् / मिमांसा-११,.१३ /

शिष्ठे चाभिप्रवृत्तत्वात् / मिमांसा-११,.१४ /

वाग्विसर्गो हविष्कृता वीजभेदे तथा स्यात् / मिमांसा-११,.१५ /

यथाह्वानमपीतिचेत् / मिमांसा-११,.१६ /

पशौ च पुरोडाशे समानतन्त्रं भवेत् / मिमांसा-११,.१७ /

अङ्गप्रधानार्थोयोगः सर्वापवर्गे विमोकः स्यात् / मिमांसा-११,.१८ /

प्रधानापवर्गे वा तदर्थत्वात् / मिमांसा-११,.१९ /

अवभृथे च तद्वत्प्रधानार्थस्य प्रतिषेधो ऽपवृक्तार्थत्वात् / मिमांसा-११,.२० /

अहर्गणे च प्रत्यहं स्यात्तदर्थत्वात् / मिमांसा-११,.२१ /

सुब्पह्मण्या तु तन्त्रं दीक्षावदन्यकालत्वात् / मिमांसा-११,.२२ /

तत्कालात्त्वादावर्तेत प्रयागतो विशेषसम्बन्धात् / मिमांसा-११,.२३ /

अयोदाङ्गमिति चेत् / मिमांसा-११,.२४ /

प्रयोगनिर्देशात्कर्सृभेदवत् / मिमांसा-११,.२५ /

तद्भूतस्थानादग्निवदिति चेत्तदपरगस्तदर्थत्वात् / मिमांसा-११,.२६ /

अग्निवदिति चेत् / मिमांसा-११,.२७ /

न प्रयोगसाधारण्यात् / मिमांसा-११,.२८ /

लिङ्गदर्शनाच्च / मिमांसा-११,.२९ /

तद्धि तथेति चेत् / मिमांसा-११,.३० /

नाशिष्टत्वादितरन्यायत्वाच्च / मिमांसा-११,.३१ /

विध्येकत्वादिति चेत् / मिमांसा-११,.३२ /

न कृत्स्नस्य पुनः प्रयोगात्प्रधानवत् / मिमांसा-११,.३३ /

लौकिकेतु यथाकामी संस्कारानर्थलोपात् / मिमांसा-११,.३४ /

यज्ञायुधानि धार्येरन्प्रतिपत्तिविधानादृजीषवत् / मिमांसा-११,.३५ /

यजमानसंस्कारो वा तदर्थः श्रूयते तत्र यथाकामी तदर्थ त्वात् / मिमांसा-११,.३६ /

मुख्यधारणं वा मरणस्यानियत्वात् / मिमांसा-११,.३७ /

यो वा यजनीयेहनि म्रियेत सो ऽधिकृतः स्यादुपवेषवत् / मिमांसा-११,.३८ /

न शास्त्रलक्षणत्वात् / मिमांसा-११,.३९ /

उत्पत्तिर्वा प्रयोजकत्वादाशिपवत् / मिमांसा-११,.४० /

शब्दासामझ्जस्यमिति चेत् / मिमांसा-११,.४१ /

तथाऽशिरे ऽपि / मिमांसा-११,.४२ /

शास्त्रात्तु विप्रयोगस्तत्रैकद्रव्यचिकीर्षा प्रतावथेहापूर्वार्थवद्भूतोपदेशः / मिमांसा-११,.४३ /

प्रकृत्यर्थत्वात्पौर्णमास्याः क्रियेरन् / मिमांसा-११,.४४ /

अग्न्याधेये वाविप्रतिषेधात्तानि धारयेन्मरणस्यानिमित्तवात् / मिमांसा-११,.४५ /

प्रतिपत्तिर्वा यथान्येषाम् / मिमांसा-११,.४६ /

उपरिष्टात्सोमानां प्राजापत्यैश्र्तपन्तीति / मिमांसा-११,.४७ /

अङ्गविपर्यासोविनावचनादिति चेत् / मिमांसा-११,.४८ /

उत्कर्षः संयोगात्कालमात्रमितरत्र / मिमांसा-११,.४९ /

प्रकृतिकालासत्तेः शस्त्रवतामिति चेत् / मिमांसा-११,.५० /

न श्रुतिप्रतिषेधात् / मिमांसा-११,.५१ /

विकारस्थाने इति चेत् / मिमांसा-११,.५२ /

न चोदनापृथक्त्वात् / मिमांसा-११,.५३ /

उत्कर्षे सूक्तवाकस्य न सोमदेवतानामुत्कर्षः पश्वनङ्गत्वाद्यथा निष्कर्षेनान्वयः / मिमांसा-११,.५४ /

वाक्यसंयोगाद्वोत्कर्षः समानतन्त्रत्वादर्थलोपादन्नवयः / मिमांसा-११,.५५ /



चोदनैकत्वाद्राजसूये ऽनुक्तदेशकालानां समवायात्तन्त्रमङ्गानि / मिमांसा-११,./

प्रतिदक्षिणं वा कर्तृसम्बन्धादिष्टिवदङ्गभूतत्वात्समुदायो हि तन्निर्वृत्त्यातदेकत्वादेकत्वादेकशब्दोपदेशः स्यात् / मिमांसा-११,./

तथा चान्यार्थदर्शनम् / मिमांसा-११,./

अनियमः स्यादिति चेत् / मिमांसा-११,./

नोपदिष्टत्वात् / मिमांसा-११,./

प्रयोजनैकत्वात् / मिमांसा-११,./

अविशेषार्था पुनः श्रुतिः / मिमांसा-११,./

अवेष्टौ चैकतन्त्र्यं स्याल्लिङ्गदर्शनाद्वचनात् कामसंयोगेन / मिमांसा-११,./

क्रत्वर्थायामिति चेन्न वर्णसंयोगात् / मिमांसा-११,./

पवमानहविःष्वैकतन्त्र्. प्रयोगवचनैकत्वात् / मिमांसा-११,.१० /

लिङ्गदर्शनाच्च / मिमांसा-११,.११ /

वर्तमानापदेशाद्वचनात्तु तन्त्रभेदः स्यात् / मिमांसा-११,.१२ /

सहत्वे नित्यानुवादः स्यात् / मिमांसा-११,.१३ /

द्वादशाहे तु प्रकृतित्वादेकैकमहपरवृज्येत कर्मपृथक्त्वात् / मिमांसा-११,.१४ /

अह्रां वा श्रुतिभूतत्वात्तत्र साङ्गं क्रियेत यथा माध्यन्दिने / मिमांसा-११,.१५ /

अपि वा फलकर्तृसम्बन्धात्सह प्रयोगः स्यादाग्नेयाग्नीषोमीयवत् / मिमांसा-११,.१६ /

साङ्गकालश्रुतित्वाद्वा स्वस्थानानां विकारः स्यात् / मिमांसा-११,.१७ /

दीक्षोपसदां च संख्या पृथक्पृथक् प्रत्यक्षसंयोगात् / मिमांसा-११,.१८ /

वसतीवरीपर्यन्तानिपूर्वाणितन्त्र मन्यकालत्वादवभृथादीन्युत्तराणिदीक्षाविसर्गार्थत्वात् / मिमांसा-११,.१९ /

तथा चान्यार्थदर्शनम् / मिमांसा-११,.२० /

चोदनापृथक्त्वे त्वैकतन्त्र्यं समवेतानां कालसंयोगात् / मिमांसा-११,.२१ /

भेदस्तु तद्भेदात्करमभेदः प्रयोगे स्यात्तेषां प्रधानशब्दत्वात् / मिमांसा-११,.२२ /

तथा चान्यार्थदर्शनम् / मिमांसा-११,.२३ /

श्वासुत्यावचनं तद्वत् / मिमांसा-११,.२४ /

पश्वतिरेकश्च / मिमांसा-११,.२५ /

सुत्याविवृद्धौ सुब्रह्मण्यायां सर्वेषामुपलक्षणं प्रकृत्यन्व यादावाहनवत् / मिमांसा-११,.२६ /

अपि वेन्द्राभिधानत्वात्सकृत्स्यादुपलक्षणं कालस्यलक्षणार्थत्वात् / मिमांसा-११,.२७ /

अविभागाच्च / मिमांसा-११,.२८ /

पशुगणे कुम्भीशूलवपाश्रपणीनां प्रभुत्वात्तन्त्रमावः स्यात् / मिमांसा-११,.२९ /

भेदस्तु सन्देहाद्देवतान्तरे स्यात् / मिमांसा-११,.३० /

अर्ताद्वा लिङ्गकर्म स्यात् / मिमांसा-११,.३१ /

प्रतिपाद्यत्वाद्वसानांभेदः स्यात्स्वयाज्याप्रदानत्वात् / मिमांसा-११,.३२ /

अपि वा प्रतिपत्तित्वात्तन्त्रं स्यात्स्वस्याश्रुतिभूतत्वात् / मिमांसा-११,.३३ /

सकृदिति चेत् / मिमांसा-११,.३४ /

न कालभेदात् / मिमांसा-११,.३५ /

पक्तिभेदात्कुम्भोशूलवपाश्ररणीनांभेदः स्यात् / मिमांसा-११,.३६ /

जात्यन्तरेषु भेदः पक्तिवैषम्यात् / मिमांसा-११,.३७ /

वृद्धिदर्शनाच्च / मिमांसा-११,.३८ /

कपालानि च कुम्भीवत्तुल्यसंख्यानाम् / मिमांसा-११,.३९ /

प्रतिप्रधानं वा प्रकृतिवत् / मिमांसा-११,.४० /

सर्वेषां वाभिप्रथमं स्यात् / मिमांसा-११,.४१ /

एकद्रव्ये संस्काराणां व्याख्यातमेककर्मत्वात् / मिमांसा-११,.४२ /

द्रव्यान्तरे कृतार्थत्वात्तस्य पुनः प्रयोगान्मन्त्रस्य च तद्गुणत्वात्पुनः प्रयोगः स्यात्तदर्थेन विधानात् / मिमांसा-११,.४३ /

निर्वपणलवनस्तरणाज्यग्रहणेषु चैकद्रव्यवत्प्रयोजनैकत्वात् / मिमांसा-११,.४४ /

द्रव्यान्तरवद्वा स्यात्तत्संस्कारात् / मिमांसा-११,.४५ /

वेदिप्रोक्षणे मन्त्राभ्यासः कर्मणः पुनः प्रयोगात् / मिमांसा-११,.४६ /

एकस्य वा गुणविधिर्द्रव्याकत्वात्तस्मात्सकृत्प्रयोगः स्यात् / मिमांसा-११,.४७ /

कण्डूयने प्रत्.ङ्गं कर्मभेदात्स्यात् / मिमांसा-११,.४८ /

अपि वा चोदनैककालमैककर्म्यं स्यात् / मिमांसा-११,.४९ /

स्वप्ननदीतरणाभिवर्षणामेध्यप्रतमन्त्रणेषु चैवम् / मिमांसा-११,.५० /

प्रयाणे त्वार्थनिर्वृत्तेः / मिमांसा-११,.५१ /

उपरवमम्त्रस्तन्त्रं स्याल्लोकवद्बहुनचनात् / मिमांसा-११,.५२ /

न सन्निपातित्वादसन्निपातिकर्मणां विशेषग्रहणे का लैकत्वात्सकृद्वचनम् / मिमांसा-११,.५३ /

हविष्कृदध्रिगुपुरो ऽनुलाक्यामनोतस्यावृत्तिः कालभेदात् स्यात् / मिमांसा-११,.५४ /

अध्रिगोश्च विपर्यासात् / मिमांसा-११,.५५ /

करिष्यद्वचनात् / मिमांसा-११,.५६ /



तन्त्रिसमवाये चोदनातः समानानामेकतन्त्र्यमतुल्येषु तुभेदः स्याद्विधिप्रक्रमतादर्थ्यात् श्रुतिकालनिर्देशात् / मिमांसा-१२,./

गिणकालविकाराच्च तन्त्रभेदः स्यात् / मिमांसा-१२,./

तन्त्रमध्ये विधानाद्वा मुख्यतन्त्रेण सिद्धिःस्यात्तन्त्रार्थस्याविशिष्टत्वात् / मिमांसा-१२,./

विकाराच्च न भेदः स्यादर्थस्याविकृतत्वात् / मिमांसा-१२,./

एकेषां वाशक्यत्वात् / मिमांसा-१२,./

आहोपुरीषकं स्यात् / मिमांसा-१२,./

एकाग्निवच्च दर्शनम् / मिमांसा-१२,./

जैमिनेः परतन्त्रत्वापत्तेः स्वतन्त्रप्रतिषेधः स्यात् / मिमांसा-१२,./

नानार्थत्वात्सोमे दर्शपूर्णमासप्रक-तीनां वेदिकर्म स्यात् / मिमांसा-१२,./

अकर्म वा कृतदूषा स्यात् / मिमांसा-१२,.१० /

पात्रेषु च प्रसङ्गः स्याद्धोमार्थत्वात् / मिमांसा-१२,.११ /

न्याय्यानि वा प्रयुक्तत्वादप्रयुक्ते प्रसङ्गः स्यात् / मिमांसा-१२,.१२ /

शामित्रे च पशुपुरोडाशो न स्यादितरस्य प्रयुक्तत्वात् / मिमांसा-१२,.१३ /

श्रपणं वाग्निहोत्रस्य शालामुखीये न स्यात्प्राजहितस्य विद्यनानत्वात् / मिमांसा-१२,.१४ /

हविर्धाने निर्वपणार्थं साधयेतां प्रयुक्तत्वात् / मिमांसा-१२,.१५ /

असिद्धिर्वान्यदेशत्वात्प्रधानवैगुण्यादवैगुण्ये प्रसङ्गः स्यात् / मिमांसा-१२,.१६ /

अनसाञ्च दर्शनात् / मिमांसा-१२,.१७ /

तद्युक्तत्व च कालभेदात् / मिमांसा-१२,.१८ /

मन्त्राश्च सन्निपातित्वात् / मिमांसा-१२,.१९ /

धारणार्थत्वात्सोमे ऽग्न्यन्वाधानं न विद्यते / मिमांसा-१२,.२० /

तथा व्रतमपेतत्वात् / मिमांसा-१२,.२१ /

विप्रतिषेधाच्च / मिमांसा-१२,.२२ /

सत्यवदिति चेत् / मिमांसा-१२,.२३ /

न संयोगपृथक्त्वात् / मिमांसा-१२,.२४ /

ग्रहार्थं च पूर्वमिष्टेस्तदर्थत्वात् / मिमांसा-१२,.२५ /

शेषवदिति चेन्न वैश्वदेवो हि स्याद्व्यपदेशात् / मिमांसा-१२,.२६ /

न गुणार्थत्वात् / मिमांसा-१२,.२७ /

सन्नहनञ्च वृत्तत्वात् / मिमांसा-१२,.२८ /

अन्यविधानादारण्यभोजनं न स्यादुभयं हि बृत्त्यर्थम् / मिमांसा-१२,.२९ /

शेषभक्षास्तथेति चेन्नान्यार्थत्वात् / मिमांसा-१२,.३० /

भृत्वाच्च परिक्रयः / मिमांसा-१२,.३१ /

शेषभक्षास्तथेति चेत् / मिमांसा-१२,.३२ /

न कर्मसंयोगात् / मिमांसा-१२,.३३ /

प्रवृत्तवरणात्प्रति तन्त्रवरणात्प्रतितन्त्रवरणं होतु क्रियेत / मिमांसा-१२,.३४ /

ब्रह्मापीति चेत् / मिमांसा-१२,.३५ /

न प्राङ्नियमात्तदर्थं हि / मिमांसा-१२,.३६ /

विर्दिष्टस्येति चेत् / मिमांसा-१२,.३७ /

न श्रुतत्वात् / मिमांसा-१२,.३८ /

हीतुस्तथेति चेत् / मिमांसा-१२,.३९ /

न कर्मसंयोगात् / मिमांसा-१२,.४० /

यज्ञोत्पत्त्युपदेशे विष्ठितकर्मप्रयोगभेदात्प्रतितन्त्रं क्रियेत / मिमांसा-१२,.४१ /

देशपृथक्त्वान्मन्त्रोव्यावर्तते / मिमांसा-१२,.४२ /

सन्नहनहरणे तथेति चेत् / मिमांसा-१२,.४३ /

नान्यार्थत्वात् / मिमांसा-१२,.४४ /



विहारो लौकिकानामर्थं साधयेत्प्रभुत्वात् / मिमांसा-१२,./

मांसपाकप्रतिषेधश्च तद्वत् / मिमांसा-१२,./

निर्देशाद्वा वैदिकानां स्यात् / मिमांसा-१२,./

सति चोपासनस्य दर्शनात् / मिमांसा-१२,./

अभावदर्शनाच्च / मिमांसा-१२,./

मांसपाको विहितप्रतिषेधः स्यादाहुतिसंयोगात् / मिमांसा-१२,./

वाक्यशेषो वा दक्षिणस्मिन्नमारभ्यविधानस्य / मिमांसा-१२,./

सवनीये छिद्रापिधानार्थत्वात्पशुपुरोडाशो न स्याद्न्येषामेवमर्थत्वात् / मिमांसा-१२,./

क्रिया वा देवतार्थत्वात् / मिमांसा-१२,./

लिङ्गदर्शनात् / मिमांसा-१२,.१० /

हविष्कृत्सवनीयेषु न स्यात्प्रकृतौ यदि सर्वार्था पशुं प्रत्याहूता सा कुर्याद्वुद्यमानत्वात् / मिमांसा-१२,.११ /

पशौ तु संस्कृते विधानात् / मिमांसा-१२,.१२ /

योगाद्वा यज्ञाय तद्विमोके विसर्गः स्यात् / मिमांसा-१२,.१३ /

निशि यज्ञे प्राकृतस्याप्रवृत्तिः स्यात्प्रत्यक्षशिष्टत्वात् / मिमांसा-१२,.१४ /

कालवाक्यभेदाच्च तन्त्रभेदः स्यात् / मिमांसा-१२,.१५ /

वेद्युद्धननव्रतंविप्रतिषेधात्त देव स्यात् / मिमांसा-१२,.१६ /

तत्रंमध्ये विधानाद्वा तत्तन्त्रा सवनीयवत् / मिमांसा-१२,.१७ /

वेगुण्यादिध्मवर्हिर्नसाधयेदग्न्य्वाधानं च यदि देवतार्थम् / मिमांसा-१२,.१८ /

अग्न्यन्वाधानं च यदि देवतार्थम् / मिमांसा-१२,.१९ /

आरम्भणीया विकृतौ न स्यात्प्रकृतिकालमध्यत्वात् कृता पुमस्तदर्थेन / मिमांसा-१२,.२० /

सकृदाऽरम्भसंयोगात् / मिमांसा-१२,.२१ /

स्याद्वा कालस्याशेषभूतत्वात् / मिमांसा-१२,.२२ /

आरंभविभागाच्च / मिमांसा-१२,.२३ /

विप्रतिषिद्धधर्माणां समवाये भूयसां स्यात्सधर्मकत्वम् / मिमांसा-१२,.२४ /

मुख्यं वा पूर्वचोदनाल्लोकवत् / मिमांसा-१२,.२५ /

तथा चान्यार्थदर्शनम् / मिमांसा-१२,.२६ /

अङ्गगुणविरोधे च तादर्थ्यात् / मिमांसा-१२,.२७ /

परिधेद्व्यर्थत्वाद भयधर्मा स्यात् / मिमांसा-१२,.२८ /

यौप्यस्तु विरोधे स्यान्मुख्यानन्तर्यात् / मिमांसा-१२,.२९ /

इतरो वा तस्य तत्र विधानादुभयोश्चाङ्गसंयोगः / मिमांसा-१२,.३० /

पशुसवनीयेषु विकल्पः स्याद्वैकृतश्तेदुभयोपश्रुतिभूतत्वात् / मिमांसा-१२,.३१ /

पाशुकं वा तस्य वैशेषिकाम्नानात्तदनर्थकं विकल्पे स्यात् / मिमांसा-१२,.३२ /

पशोश्च विप्रकर्षस्तन्त्रमध्ये विधानात् / मिमांसा-१२,.३३ /

अपूर्वं च प्रकृतौ समानतन्त्रा चेदनित्यत्वादनर्थकं हि स्यात् / मिमांसा-१२,.३४ /

अधिकश्च गुणः साधारणे ऽविरोधात्कांस्यभोजिवदमुख्ये ऽपि / मिमांसा-१२,.३५ /

तत्प्रवृत्त्या तु तन्त्रस्य नियमः स्याद्यथा पाशुकं सूक्तपाकेन / मिमांसा-१२,.३६ /

न वाविरोधात् / मिमांसा-१२,.३७ /

अशास्त्रलक्षणत्वाच्च / मिमांसा-१२,.३८ /



विश्र्वजिति वत्सत्वङ्नामधेयादितर था तन्त्रभूय त्वादहतं स्यात् / मिमांसा-१२,./

अविरोधी वा उपरिवासो हि वत्सत्वक् / मिमांसा-१२,./

अनुनुर्वाप्येषु भूयस्त्वेन तन्त्रनियमः स्याच्छ्विष्ठकृद्दर्शनाच्च / मिमांसा-१२,./

आगन्तुकत्वाद्वा स्वधर्मा स्याच्छ्रुतिविशेषादितरस्य च मुख्यत्वात् / मिमांसा-१२,./

स्वस्थानत्वाच्च / मिमांसा-१२,./

स्विष्टकृच्छ्रपणान्नेतिचोद्विकारः पवमानवत् / मिमांसा-१२,./

अविकारो वा प्रकृतिवच्चोदनां प्रति भानाच्च / मिमांसा-१२,./

एक कर्मणिशिष्टत्वाद्गुणानां सर्वकर्म स्यात् / मिमांसा-१२,./

एकार्थास्तुविकल्पेरन्,मुच्चये ह्यावृत्तिः स्यात्प्रधानस्य / मिमांसा-१२,./

अभ्यस्योतार्थवत्त्वादिति चेत् / मिमांसा-१२,.१० /

नाश्रुतत्वाद्धि विकल्पवच्चदर्शयति कालान्तरे ऽर्थवत्त्वं स्यात् / मिमांसा-१२,.११ /

प्रायश्चित्तेषुचैकार्थ्यान्निष्पन्नेनाभिसंयोगस्तस्मात् सर्वस्य निर्घातः / मिमांसा-१२,.१२ /

समुच्चयस्तु दोषार्थः / मिमांसा-१२,.१३ /

मन्त्राणाङ्कर्मसंयोगः स्वधर्मेण प्रयोगः स्याद्धर्मस्य तन्निमित्तत्वात् / मिमांसा-१२,.१४ /

विद्यांप्रतिविधिनाद्वा सर्वकारणं प्रयोगः स्यात् कर्मार्तत्वात् प्रयोगस्य / मिमांसा-१२,.१५ /

भाषास्वरोपदेशादैरवत् प्रायवचनप्रतिषेधः / मिमांसा-१२,.१६ /

मन्त्रोपदेशोवा न भाषिकस्य प्रायोपपत्तेर्भाषिकश्रुतिः / मिमांसा-१२,.१७ /

विकारः कारणाग्रहणे तन्न्यायत्वाद् दृष्टे ऽप्येवम् / मिमांसा-१२,.१८ /

तदुत्पत्तेर्वा प्रवचनलक्षणत्वात् / मिमांसा-१२,.१९ /

मन्त्राणां करणार्थत्वान्मन्त्रान्तेन कर्मादिसन्निपातः स्यात्सर्वस्य वचनार्थत्वात् / मिमांसा-१२,.२० /

सन्ततवचनाद्धारायामादिसंयोगः / मिमांसा-१२,.२१ /

करमसन्तानो वा नानाकर्मत्वादितरस्याशक्चत्वात् / मिमांसा-१२,.२२ /

आघारे च दीर्घधारत्वात् / मिमांसा-१२,.२३ / मन्त्राणां सन्निपातित्वादेकार्थानांविकल्पः स्यात् / मिमांसा-१२,.२४ /

संख्याविहितेषु समुच्चयो ऽसन्निपातित्वात् / मिमांसा-१२,.२५ /

ब्राह्मणविहितेषु च संख्यावत्सर्वेषामुपदिष्ठत्वात् / मिमांसा-१२,.३६ /

याज्यावषद्कारयोश्र्त समुच्चयदर्शनं तद्वत् / मिमांसा-१२,.२७ /

विकल्पो वा समुच्चयस्याश्रुतित्वात् / मिमांसा-१२,.२८ /

गुणार्थत्वादुपदेशस्य / मिमांसा-१२,.२९ /

वषट्कारे नानार्थत्वात्समुच्चयो हौत्रास्तु विकल्पेरन्नेकार्थत्वात् / मिमांसा-१२,.३० /

क्रियमाणानुवादित्वात् समुच्चयो वा हौत्राणाम् / मिमांसा-१२,.३१ /

समुच्चयं च दर्शयति / मिमांसा-१२,.३२ /



जपाश्चाकर्मसंयुक्ताः स्तुत्याशीरभिधानाश्च याजमानेषु समुच्चयः स्यादाशीःपृथक्त्वात् / मिमांसा-१२,./

समुच्चयं च दर्शयति / मिमांसा-१२,./

याज्यानुवाक्यासु तु विकल्पः स्याद्देवतीपलक्षणार्थत्वात् / मिमांसा-१२,./

लिङ्गदर्शनाच्च / मिमांसा-१२,./

क्रयेषु ति विकल्पः स्यादेकार्थत्वात् / मिमांसा-१२,./

समुच्चयो वा प्रयोगद्रव्यसमवायात् / मिमांसा-१२,./

समुच्चयञ्चदर्शयति / मिमांसा-१२,./

संस्कारे च तत्प्रधानत्वात् / मिमांसा-१२,./

संख्यासु तु विकल्पः स्याच्छ्रुतिप्रतिधात् / मिमांसा-१२,./

द्रव्यविकारात्तु पूर्ववदर्थकर्म स्यात्तया विकल्पेन नियमप्रधानत्वात् / मिमांसा-१२,.१० /

द्रव्यत्वे ऽपि समुच्चयो द्रव्यस्य कर्मनिष्पत्तेः प्रतिपशु कर्मभेदादेवं सति यथाप्रकृति / मिमांसा-१२,.११ /

कपाले ऽपि तथेतिचेत् / मिमांसा-१२,.१२ /

न कर्मणः परार्थत्वात् / मिमांसा-१२,.१३ /

प्रतिपत्तिस्तु शेषत्वात् / मिमांसा-१२,.१४ /

शृते ऽपि पूर्ववत्स्यात् / मिमांसा-१२,.१५ /

मवायात्तसमात्तेनार्थकर्म स्यात् / मिमांसा-१२,.१६ /

उखायां काम्यनित्यसमुच्चयो नियोगे कामदर्शनात् / मिमांसा-१२,.१७ /

तस्यत देवतार्थत्वात् / मिमांसा-१२,.१८ /

विकारो वा नित्यस्याग्नेः काम्येन तदुक्तहेतुः / मिमांसा-१२,.१९ /

वचनादसंस्कृतेषु कर्म स्यात् / मिमांसा-१२,.२० /

संसर्गे चापि दोषः स्यात् / मिमांसा-१२,.२१ /

वचनादिति चेदथेतरस्मिन्नुत्सर्गापरिग्रहः कर्मणःकृतत्वात् / मिमांसा-१२,.२२ /

स आहवनीयः स्यादाहुतिसंयोगात् / मिमांसा-१२,.२३ /

अन्यो वोद्धृत्याहरणात् तस्मिन्त्संस्कारकर्म शिष्टत्वात् / मिमांसा-१२,.२४ /

स्थानात्तु परिलुप्येरन् / मिमांसा-१२,.२५ /

नित्याधारणे विकल्पो न ह्यकस्मात्प्रतिषेधः स्यात् / मिमांसा-१२,.२६ /

नित्यधारणाद्वा प्रतिषेधो गतश्रियः / मिमांसा-१२,.२७ /

परार्थान्योकः प्रतियन्तिवत् सत्राहीनयो यजमानगणे ऽनियमो ऽविशेषात् / मिमांसा-१२,.२८ /

मुख्यो वाविप्रतिषेधात् / मिमांसा-१२,.२९ /

सत्रे गृहपतिरसंयोगाद्धौत्रवदाम्नायवचनाच्च / मिमांसा-१२,.३० /

सर्वैः वा तदर्थत्वात् / मिमांसा-१२,.३१ /

विप्रतिषेधे परम् / मिमांसा-१२,.३२ /

हौत्रे परार्थत्वात् / मिमांसा-१२,.३३ /

वचनं परम् / मिमांसा-१२,.३४ /

प्रभुत्वादार्त्विज्यं सर्ववर्णानां स्यात् / मिमांसा-१२,.३५ /

स्मृतेर्वा स्याद्व्राह्मणानाम् / मिमांसा-१२,.३६ /

फलचमसविधानाच्चेतरेषाम् / मिमांसा-१२,.३७ /

सान्नाय्येप्येवं प्रतिषेधः सौमपीयहेतुत्वात् / मिमांसा-१२,.३८ /

चतुर्धाकरणे च विर्देशात् / मिमांसा-१२,.३९ /

अन्वाहहर्ये च दर्शनात् / मिमांसा-१२,.४० /


No comments:

Post a Comment