Tuesday, November 24, 2015

GOPIKAGEETAM IN GARGASAMHITA

Courtesy:http://prramamurthy1931.blogspot.in/2014/05/gopikageetam-in-gargasamhita.html

GOPIKAGEETAM IN GARGASAMHITA

गर्गसंहिता
अश्वमेधखण्डः - पञ्चचत्वारिंशोऽध्यायः
रासक्रीडा -
गोप्य ऊचुः 

अधरबिम्बविडम्बितविद्रुमं मधुरवेणुनिनादविनोदितम् ॥ 
कमलकोमलनीलमुखाम्बुजं तमपि गोपकुमारमुपास्महे ॥१॥ 

श्यामलं विपिनकेलिलम्पटं कोमलं कमलपत्रलोचनम् ॥ 
कामदं व्रजविलासिनीदृशां शीतलं मतिहरं भजामहे ॥२॥ 

तं विसञ्चलितलोचनाञ्चलं सामिकुड्मलितकोमलाधरम् ॥ 
वंशवल्गितकराङ्गुलीमुखं वेणुनादरसिकं भजामहे ॥३॥ 

ईषदङ्कुरितदन्तकुड्मलं भूषणं भुवनमङ्गलश्रियः ॥ 
घोषसौरभमनोहरं हरेर्वेषमेव मृगयामहे वयम् ॥४॥ 

अस्तु नित्यमरविन्दलोचनः श्रेयसे हि तु सुरार्चिताकृतिः ॥ 
यस्य पादसरसीरुहामृतं सेव्यमानमनिशं मुनीश्वरैः ॥५॥ 

गोपकै रचितमल्लसङ्गरं सङ्गरे जितविदग्धयौवनम् ॥ 
चिन्तयामि मनसा सदैव तं दैवतं निखिलयोगिनामपि ॥६॥ 

उल्लसन्नवपयोदमेव तं फुल्लतामरसलोचनाञ्चलम् ॥ 
ल्लवीहृदयपश्यतोहरं पल्लवाधरमुपास्महे वयम् ॥७॥ 


यद्धनञ्जयरथस्य मण्डनं खण्डनं तदपि सञ्चितैनसाम् ॥ 
जीवनं श्रुतिगिरां सदामलं श्यामलं मनसि मेऽस्तु तन्महः ॥८॥

गोपिकास्तनविलोललोचनप्रान्तलोचनपरम्परावृतम् ॥ 
बालकेलिरसलोलसंभ्रमं माधवं तमनिशं विभावये ॥९॥  

नीलकण्ठकृतपिच्छशेखरं नीलमेघतुलिताङ्गवैभवम् ॥ 
नीलपङ्कजपलाशलोचनं नीलकुन्तलधरं भजामहे ॥१०॥ 

घोषयोषिदनुगीतवैभवं कोमलस्वरितवेणुनिस्वनम् ॥
सारभूतमभिरामसम्पदां धाम तामरसलोचनं भजे ॥११॥ 

मोहनं मनसि शार्ङ्गिणं परं निर्गतं किल विहाय मानिनीः ॥ 
नारदादिमुनिभिश्च सेवितं नन्दगोपतनयं भजामहे ॥१२॥ 

श्रीहरिस्तु रमणीभिरावृतो यस्तु वै जयति रासमण्डले ॥ 
राधया सह वने च दुःखितास्तं प्रियं हि मृगयामहे वयम् ॥ १३॥ 

देवदेव व्रजराजनन्दन देहि दर्शनमलं च नो हरे ॥ 
सर्वदुःखहरणं च पूर्ववत्संनिरीक्ष्य तेऽशुल्कदासिकाः ॥१४॥


क्षितितलोद्धरणाय दधार यः सकलयज्ञवराहवपुः परम् ॥ 
दितिसुतं विददार च दंष्ट्रया स तु सदोद्धरणाय क्षमोऽस्तु नः ॥१५॥ 

मनुमताद्रुचिजो दिविजैः सह वसु दुदोह धरामपि यः पृथुः ॥ 
श्रुतिमपाद्धृतमत्स्यवपुः परं स शरणं किल नोऽस्त्वशुभक्षणे ॥१६॥ 

अवहदब्धिमहो गिरिमूर्जितं कमठरूपधरः परमस्तु यः ॥ 
असुहरं नृहरिः तमदण्डयत्स च हरिः परमं शरणं च नः ॥१७॥

नृपबलिं छलयन्दलयन्नरीन्मुनिजनाननुगृह्य चचार यः ॥ 
कुरुपुरं च हलेन विकर्षयन्यदुवरः स गतिर्मम सर्वथा ॥१८॥

व्रजपशून्गिरिराजमथोद्धरन् व्रजपगोपजनं च जुगोप यः ॥ 
द्रुपदराजसुतां कुरुकश्मलाद्भवतु तच्चरणाब्जरतिश्च नः ॥१९॥

विषमहाग्निमहास्त्रविपद्गणात्सकलपाण्डुसुताः परिरक्षिताः ॥ 
यदुवरेण परेण च येन वै भवतु तच्चरणः शरणं च नः ॥२०॥

मालां बर्हिमनोज्ञकुन्तलभरां वन्यप्रसूनोषितां 
शैलेयागुरुक्लृप्तचित्रतिलकां शश्वन्मनोहारिणीम् ॥ 
लीलावेणुरवामृतैकरसिकां लावण्यलक्ष्मीमयीं 
बालां बालतमालनीलवपुषं न्दामहे देवताम् ॥२१॥  

गर्ग उवाच - 
इति स्त्रीभिः रुदन्तीभिः रेवतीरमणानुजः 
आविर्बभूव चाहूतस्तासां मध्ये च भक्तितः ॥२२॥

||इति श्रीगर्गसंहितायां हयमेधखण्डे 
रासक्रीडायां पञ्चचत्वारिंशोऽध्यायः ॥




GOPIKAGEETAM from Gagra Samhita contributed by Vishwas R. Bhide and proofread by PSA Easswaran 

No comments:

Post a Comment