Tuesday, January 1, 2013

Gita Ramayanam

Courtesy: Sri.Nityanand Misra
Here are two Gītis (song numbers 26
and 27) from the canto Gītarāvaṇāriḥ (26th canto, second canto of
Laṅkākāṇdam) of the lyrical epic poem Gītarāmāyaṇam<http://en.wikipedia.org/wiki/Gitaramayanam>(2011) by Gurudeva Jagadguru Rāmānandācārya Svāmī Rāmabhadrācārya.

विभीषणवचो निशम्य कृपालुः।
सम्प्रहस्य जग्राह कार्मुके चण्डं शरं दयालुः ॥
यस्य च वाजेष्वनिलो विलसति फलेषु सूर्यनिशेशौ ।
तनुराकाशमयी गुरुतायां मन्दरमञ्जुनगेशौ ॥१॥
नित्यं भूतद्रुहां खलानां मज्जासृक्च यदशनम्।
रक्षःस्त्रीणां भ्रूणस्रावणमतिकठिनं यद्रसनम्॥२॥
सदा पूजितं सिद्धनागनरसुरमुनिगन्धर्वाणाम्।
सम्मानितं पूज्यवन्नित्यं हरिविरिञ्चशर्वाणाम्॥३॥
मन्दोदरीभाग्यलुण्ठनमथ निखिलरक्षसां भयदम्।
इक्ष्वाकूणां हर्षवर्धनं सुरमुनिसतामभयदम्॥४॥
शार्ङ्गे तं सन्दधे संयुगे रामः पावकबाणम्।
गिरिधरप्रभुरभिलक्ष्य रावणं धृतवपुरिव निर्वाणम्॥५॥

यदानलशरं सन्दधे रामः।
सन्तत्रास तदाखिललोको विस्मृतसुखपरिणामः॥
सन्त्रेसुः प्राणिनश्चुक्रुशुर्भीता हाहाकारम्।
प्रलयकाल इव जगद्भयार्तं त्यक्त्वा स्वाहाकारम्॥१॥
वेदमन्त्रपूर्वकमभ्यर्च्य विकृष्य प्रचण्डं चापम्।
आकर्णं विससर्ज वज्रमिव रिपवे प्रबलप्रतापम्॥२॥
महाकालमिव सुदुर्निवारं कोटिहिमाचलसारम्।
चण्डीश्वरमिव प्रलयकारिणं कोटिमहीतलभारम्॥३॥
सम्बिभेद हृदयं दुरात्मनो रावणस्य वरकाण्डः।
भोगावतिपयसा स्नातस्तूणीं प्राविशत् प्रचण्डः॥४॥
वज्राहत इव गिरी रावणो न्यपतद्भुवि निष्प्राणः।
गिरिधरप्रभुविशिखप्रार्पितमुनिजनदुर्लभनिर्वाणः ॥५॥

The entire Gītarāmāyaṇam along with a Hindi commentary by the poet is
available for free reading from this link<http://jagadgururambhadracharya.org/pdfs/JR2011Gitaramayanam.pdf>
.
 

No comments:

Post a Comment