Thursday, May 31, 2012

taittirIyopanishhad 1.2; varNa, svara, mAtrA,..... names of vishhNu with PDF


Courtesy: Sri.Bryan Hill


The taittirIya - upanishhad 1.2:
  शीक्षां व्याख्यास्यामः । वर्णः स्वरः । मात्रा बलम् । साम सन्तानः । इत्युक्तः शीक्षाध्यायः ॥१.२॥
" Now, we shall explain that which a student of brahmavidyA must know: varNa i.e., tAlu etc., the vocal organs through which the letters are uttered, svara i.e., the accents udAtta, anudAtta, etc., mAtrA i.e., the length of the vowels, bala i.e., the efforts vivR^ita, etc., sAma i.e., the joining o the letters, and santAna i.e., the series of letters.
                        varNa i.e., the Supreme brahman present in the varNas, conveyed by the varNas and designated varNa. The Supreme brahman present in svara, conveyed by svara and designated as svara. The Supreme brahman present in, conveyed by and designated as mAtrA, bala, sAma and santAna. These are what a student of brahmavidyA should know and therefore are stated here. "
Explanation:
(१) varNa, svara, etc., that constitute the vedic phonetics are stated here and their spiritual significance are explained:
ब्रह्मविद्याभ्यासार्थिनः पूर्वं शिक्सणीयमर्थं प्रतिज्ञापूर्वकमाह शीक्षामिति । शिक्ष्यते इति शिकषा । शीक्षेति दैर्घ्यं छान्दसम् । (राघवेन्द्र खाण्डार्थ)
(२) वर्णः – अकारादिवर्णोच्चारणस्थानानि कण्ठताल्वादीनि स्वरः उदात्तादिः मात्रा – एकमात्रादिः बलम् – वर्णोच्चारणप्रयत्नः विवृतादिः साम वर्णानां सन्धिः सन्तानः – वर्णमाला न केवलं वर्णोत्पत्तिस्था नादिकमेव ज्ञातव्यम् ।
(i) वरणीयत्वहेतुना वर्णनामकं वर्णस्थं वर्णवाच्यं पुरुषे वर्णोच्चरणादिक्रियाप्रदं विष्णो रूपं वर्ण इति ज्ञेयम् ।
(ii) स्वस्मिन् रमते इति व्युत्पत्त्या उदात्तादिस्वरनामकं स्वरवाच्यं स्वरगतं पुरुषे स्वरोच्चारणक्रियाप्रदं विष्णो रूपं स्वर इत्यनेन ज्ञेयम् ।
(३) मानात् ज्ञानात् निमित्तात् त्रातेति व्युत्पत्त्या मात्रानामकं मात्रास्थितं मात्रावाच्यं मात्रोच्चारणक्रियाप्रदं रूपं मात्रेत्यनेन ज्ञेयम् ।
(४) बलरूपतया बलनामकं बलस्थं विवृतादिपुरुषगतप्रयत्नरूपक्रियाप्रदं रूपं बलमित्यनेन ज्ञेयम् ।
(५) सर्वरूपेषु समत्वहेतुना सामनामकं सामवाच्यं सामशब्दितसन्धिस्थं पुंगतसन्ध्युच्चारणक्रियाप्रदं रूपं सामेति ज्ञेयम् ।
(६) गुणादिना सन्ततत्वनिमित्तेन सन्ताननामकं वर्णसन्ततिस्थितं सन्तानवाच्यं पुरुषगतसन्तानोच्चारणक्रियाप्रदं सन्तान इत्यपि ज्ञेयम् । (राघवेन्द्र खाण्डार्थ)

No comments:

Post a Comment