Friday, August 20, 2010

Marriage mantras

Mantras for various rituals will be posted as when they are collected from various sources.

For a start, some of the mantras commonly used in the marriage ceremony are listed hereunder. These are randomly selected. There are variations in different Gṛhya Sūtras of some of the mantras. The page will be updated with more and more mantras in the days to come.

१. अनृक्षरा ऋजवः सन्तु पन्था येभिः सखायो यन्ति नो वरेयम् ।
    समर्यमा सम्भगो नो निनीयात् सं जास्पत्यं सुयममस्तु देवाः ॥

२. प्र सु ग्मन्ता धियसानस्य सक्षणि वरेभिर्वराँ अभि षु प्रसीदतः ।
    अस्माकमिन्द्र उभयं जुजोषति यत्सोम्यस्यान्धसो बुबोधति ॥

३. खे रथस्य खेऽनसः खे युगस्य शतक्रतो ।
    अपालमिन्द्र त्रिष्पूत्व्यकृणोः सूर्यत्वचम् ॥

४. यन्मधुनो मधव्यस्य परमस्यान्नाद्यस्य परममन्नाद्यं रूपम् ।
    तेनाहं मधुनो मधव्यस्य परमस्यान्नाद्यस्य परमोऽन्नाद्यो मधव्यो भूयासम् ॥

५. अघोरचक्षुरपतिध्न्येधि शिवा पशुभ्यः सुमनाः सुवर्चाः ।
    वीरसूर्देवकामा स्योना शं नो भव द्विपदे शं चतुष्पदे ॥

६. रैभ्यासीदनुदेयी नाराशंसी न्योचनी ।
    सूर्याय भद्रमिद्वासो गाथयैति परिष्कृतम् ॥

७. समञ्जन्तु विश्वे देवाः समापो हृदयानि नौ ।
    सं मतरिश्वा सं धाता समु देष्ट्री दधातु नौ ॥

८. गृभ्णामि ते सौभगत्वाय हस्तं मया पत्या जरदष्टिर्यथासः ।
    भगो अर्यमा सविता पुरंधिर्मह्यं त्वादुर्गार्हपत्याय देवाः ॥

९. सम्राज्ञी श्वशुरे भव सम्राज्ञी श्वश्र्वां भव ।
    ननान्दरि सम्राज्ञी भव, सम्राज्ञी अधि देवृषु ॥

१०. इमां त्वमिन्द्र मीढ्वः सुपुत्रां सुभगां कृणु ।
    दशास्यां पुत्राना धेहि पतिमेकादशं कृधि ॥

११. एकमिषे विष्णुस्त्वान्वेतु ।
    द्वे ऊर्जे विष्णुस्त्वान्वेतु ।
    त्रीणि व्रताय विष्णुस्त्वान्वेतु ।
    चत्वारि मायोभवाय विष्णुस्त्वान्वेतु ।
    पञ्च पशुभ्यो विष्णुस्त्वान्वेतु ।
    षडृतुभ्यो विष्णुस्त्वान्वेतु ।
    सप्त सप्तभ्यो होत्राभ्यो विष्णुस्त्वान्वेतु ।
    सखा सप्तपदा भव सखायौ सप्तपदा बभूव ।

१२.अमोऽहमस्मि सा त्वं ।
    सा त्वमस्यमोऽहम् ।
    द्यौरहं पृथिवी त्वम् ।
    सामाहमस्मि ऋक्त्वम् ।
    तावेव विवहावहै सह रेतो दधावहै ।
    प्रजां प्रजनयावहै पुत्रान्विन्दावहै बहून् ।
    ते सन्तु जरदष्टयः संप्रियौ रोचिष्णु सुमनस्यमानौ ।
    पश्येम शरदः शतं जीवेम शरदः शतँ श्रुणयाम शरदः शतम् ॥

१३. स्योनं ध्रुवं प्रजायै धारयामि ते अश्मानं देव्या: पृथिव्या उपस्थे ।
    तम तिष्टानुमाद्या सुवर्चा दीर्घं त आयु: सविता कृणोतु ॥

१४.आतिष्ठेममश्मानमश्मेव त्वं स्थिरा भव ।
    अभितिष्ठ पृतन्यतस्सहस्व पृतनायतः ॥

knr

--
If God brings you to it, He will bring you through it.
Happy moments, praise God.
Difficult moments, seek God.
Quiet moments, worship God.
Painful moments, trust God.

  Every moment, thank God

No comments:

Post a Comment