पद्माधिराजे गरुडाधिराजे विरिञ्चराजे सुरराजराजे । त्रैलोक्यराजेऽखिलराजराजे श्रीरङ्गराजे रमतां मनो मे ॥१॥
नीलाब्जवर्णे भुजपूर्णकर्णे कर्णान्तनेत्रे कमलाकलत्रे । श्रीमल्लरङ्गे जितमल्लरङ्गे श्रीरङ्गरङ्गे रमतां मनो मे ॥२॥
लक्ष्मीनिवासे जगतां निवासे हृत्पद्मवासे रविबिम्बवासे । क्षीराब्धिवासे फणिभोगवासे श्रीरङ्गवासे रमतां मनो मे ॥३॥
कुबेरलीले जगदेकलीले मन्दारमालाङ्कितचारुफाले । दैत्यान्तकालेऽखिललोकमौले श्रीरङ्गलीले रमतां मनो मे ॥४॥
अमोघनिद्रे जगदेकनिद्रे विदेहनिद्रे च समुद्रनिद्रे । श्रीयोगनिद्रे सुखयोगनिद्रे श्रीरङ्गनिद्रे रमतां मनो मे ॥५॥
आनन्दरूपे निजबोधरूपे ब्रह्मस्वरूपे क्षितिमूर्तिरूपे । विचित्ररूपे रमणीयरूपे श्रीरङ्गरूपे रमतां मनो मे ॥६॥
भक्ताकृतार्थे मुररावणार्थे भक्तासमर्थे जगदेककीर्ते । अनेकमूर्ते रमणीयमूर्ते श्रीरङ्गमूर्ते रमतां मनो मे ॥७॥
कंसप्रमाथे नरकप्रमाथे दुष्टप्रमाथे जगतां निदाने । अनाथनाथे जगदेकनाथे श्रीरङ्गनाथे रमतां मनो मे ॥८॥
सुचित्रशायी जगदेकशायी नन्दाङ्कशायी कमलाङ्कशायी । अम्भोधिशायी वटपत्रशायी श्रीरङ्गशायी रमतां मनो मे ॥९॥
सकलदुरितहारी भूमिभारापहारी दशमुखकुलहारी दैत्यदर्पापहारी । सुललितकृतचारी पारिजातापहारी त्रिभुवनभयहारी प्रीयतां श्रीमुरारिः ॥१०॥
रङ्गस्तोत्रमिदं पुण्यं प्रातःकाले पठेन्नरः । कोटिजन्मार्जितं पापं स्मरणेन विनश्यति ॥
इति श्रीरङ्गस्तोत्रम् ॥
श्रीलक्ष्म्यष्टकम्
नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते । शङ्खचक्रगदाहस्ते महालक्ष्मि नमऽस्तु ते ॥१॥
नमस्ते गरुडारूढे कलासुरभयङ्करि । सर्वपापहअरे देवि महालक्ष्मि नमोऽस्तु ते ॥२॥
सर्वज्ञे सर्ववरदे सर्वदुष्टभयङ्करि । सर्वदुःखहरे देवि महालक्ष्मि नमोऽस्तु ते ॥३॥
सिद्धिबुद्धिप्रदे देवि भुक्तिमुक्तिप्रदायिनि । मन्त्रमूर्ते महादेवि महालक्ष्मि नमोऽस्तु ते ॥४॥
आद्यन्तरहिते देवि आद्यशक्ति महेश्वरि । योगजे योगसम्भूते महालक्ष्मि नमोऽस्तु ते ॥५॥
स्थूलसूक्ष्ममहारौद्रे महाशक्ति महोदरे । महापापहरे देवि महालक्ष्मि नमोऽस्तु ते ॥६॥
पद्मासनस्थिते देवि परब्रह्मस्वरूपिणि । परमेशि जगन्मातर्महालक्ष्मि नमोऽस्तु ते ॥७॥
श्वेताम्बरधरे देवि नानालङ्कारभूषिते । जगत्स्थिते जगन्मातर्महालक्ष्मि नमोऽस्तु ते ॥८॥
महालक्ष्म्यष्टकस्तोत्रं यः पठेन्नित्यं महापापविनाशनम् । सर्वसिद्धमवाप्नोति राज्यं प्राप्नोति सर्वदा ॥९॥
एककाले पठेन्नित्यं महापापविनाशनम् । द्विकाले यः पठेन्नित्यं धनधान्यसमन्वितः ॥१०॥
त्रिकाले यः पठेन्नित्यं महाशत्रुविनाशनम् । महालक्ष्मीर्भवेन्नित्यं प्रसन्ना वरदा शुभा ॥११॥
इति श्रीकरवीरपुराणे इन्द्रकृतमहालक्ष्म्यष्टकम् ॥
knr
The New Busy is not the old busy. Search, chat and e-mail from your inbox. Get started.
--
If God brings you to it, He will bring you through it.
Happy moments, praise God.
Difficult moments, seek God.
Quiet moments, worship God.
Painful moments, trust God.
Every moment, thank God
No comments:
Post a Comment