Monday, February 22, 2021

What is the caste of woman? - Sanskrit article

*स्त्रीणां जातिः का?* 

कश्चन पुरुषः काञ्चित् महिलां पृष्टवान् - भवत्याः जातिः का? इति। 

महिला तदा प्रत्युत्तरं वदति- महिलानां जातिः न भवति। 

सः पुरुषः आश्चर्येण पुनः पृष्टवान् तत् कथम्? इति। 

तदा सा वदति- यदा काचिद् महिला माता भवति तदा सा शिशोः लालनपालनं करोति। 

तदानीं सा शूद्रा भूत्वा शिशोः मलमूत्रादिकं मार्जयति।

शिशुः यदा किञ्चिद् वर्धते तदा क्षत्रिया भूत्वा तस्य रक्षणं करोति। 

शिशुः यदा विद्यार्जनाय समर्थः भवति तदा सा माता तं पाठयित्वा ब्राह्मणत्वम् अधिगच्छति। 

यदा सः युवावस्थां प्राप्य वाणिज्यं कर्तुम् आरभते तदा सा तस्य पुत्रस्य उचितमार्गदर्शनं कारयित्वा वैश्यधर्मं पालयति।

महिलायाः मुखात् एतदुत्तरं श्रुत्वा सः पुरुषः स्तम्भितः अभवत्। 
तदानीं तस्य पुरुषस्य हृदये महिलानां प्रति सम्मानः, आदरभावः च अवर्धताम्। 
*-प्रदीपः!*

No comments:

Post a Comment