Wednesday, April 17, 2019

Tarka sangrah by annabhatta - Sanskrit

*संस्कृतरसास्वाद:* 
 *विश्वहितायसंस्कृतम्*
🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻 अन्नम्भट्टलिखित तर्कसंग्रह 🐟🐟🐟🐟🐟🐟🐟🐟🐟🐟🐟🐟🐟🐟🐟🐟 *प्रस्तुति  -आँचल गर्ग* 

👆🏼👆🏼👆🏼👆🏼👆🏼👆🏼👆🏼👆🏼👆🏼

निधाय हृदि विश्वेशं विधाय गुरुवन्दनम् ।
बालानां सुखबोधाय क्रियते तर्कसंग्रहः ॥

द्रव्यगुणकर्मसामान्यविशेषसमवायाऽभावाः
सप्तपदार्थाः ॥ १॥

तत्र द्रव्याणि
पृथिव्यप्तेजोवाय्वाकाशाकालदिगात्ममनांसि नवैव ॥ २॥

रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभग-
परत्वापरत्वगुरुत्व-
द्रवत्व-स्नेह-शब्द-बुद्धि-सुख-दुःखेच्छा-द्वेष-प्रयत्न-
धर्माधर्म-संस्काराः चतुर्विंशतिर्गुणाः ॥ ३॥

उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनानि
पञ्च कर्माणि ॥ ४॥

परमपरं चेति द्विविधं सामान्यम् ॥ ५॥

नित्यद्रव्यवृत्तयो विशेषास्त्वनन्ता एव ॥ ६॥

समवायस्त्वेक एव ॥ ७॥

अभावश्चतुर्विधः प्रागभावः प्रध्वंसाभावः
अत्यन्ताभावः अन्योन्याभावश्चेति ॥ ८॥

तत्र गन्धवती पृथिवी ।
सा द्विविधानित्याऽनित्या च ।
नित्या परमाणुरूपा ।
अनित्या कार्यरूपा ।
पुनस्त्रिविधा शरीरेन्द्रियविषयभेदात् ।
शरीरमस्मदादीनाम् ।
इन्द्रियं गन्द्धग्राहकं घ्राणम् ।
तच्च नासाग्रवर्ति ।
विषयो मृत्पाषाणादिः ॥ ९॥

शीतस्पर्शवत्यः आपः ।
ता द्विविधाः नित्या अनित्याश्च ।
नित्यः परमाणुरूपाः ।
अनित्याः कार्यरूपाः ।
पुनस्त्रिविधा शरीरेन्द्रियविषयभेदात् ।
शरीरं वरुणलोके ।
इन्द्रियं रसग्राहकं रसनं जिह्वाग्रवर्ति ।
विषयः सरित्समुद्रादिः ॥ १०॥

उष्णस्पर्शवत्तेजः ।
तच्च द्विविधं नित्यमनित्यं च ।
नित्यं परमाणुरूपं ।
अनित्यं कार्यरूपं ।
पुनस्त्रिविधं शरीरेन्द्रियविषयभेदात् ।
शरीरमादित्यलोके प्रसिद्धम् ।
इन्द्रियं रूपग्राहकं चक्षुः कृष्णताराग्रवर्ति ।
विषयश्चतुर्विधः भौमदिव्यौदर्याकरज भेदात् ।
भौमं वह्न्यादिकम् ।
अबिन्धनं दिव्यं विद्युदादि ।
भुक्तस्य परिणामहेतुरौदर्यम् ।
आकरजं सुवर्णादि ॥ ११॥

रूपरहीतः स्पर्शवान्वायुः ।
स द्विविधः नित्योऽनित्यश्च ।
नित्यः परमाणुरूपः ।
अनित्यः कार्यरूपः ।
पुनस्त्रिविधः शरीरेन्द्रियविषयभेदात् ।
शरीरं वायुलोके ।
इन्द्रियं स्पर्शग्राहकं त्वक्सर्वशरीरवर्ति ।
विषयो वृक्षादिकम्पनहेतुः ॥ १२॥

शरीरान्तःसंचारी वयुः प्राणः ।
स च एकोऽप्युपाधिभेदात्प्राणापानादिसंज्ञां लभते ॥ १३॥

शब्दगुणकमाकाशम् ।
तच्चैकं विभु नित्यञ्च ॥ १४॥

अतीतादिव्यवहारहेतुः कालः ।
स चैको विभुर्नित्य्श्च ॥ १५॥

प्राच्यादिव्यवहारहेतुर्दिक् ।
सा चैका विभ्वी नित्या च ॥ १६॥

ज्ञानाधिकरणमात्मा ।
स द्विविधः परमात्मा जीवात्मा च ।
तत्रेश्वरः सर्वज्ञः परमात्मैक एव ।
जीवात्मा प्रतिशरीरं भिन्नो विभुर्नित्यश्च ॥ १७॥

सुखाद्युपलब्धिसाधनमिन्द्रियं मनः ।
तच्च प्रत्यात्मनियतत्वादनन्तं परमाणुरूपं नित्यं
च ॥ १८॥

चक्षुर्मात्रग्राह्यो गुणो रूपम् ।
तच्च शुक्लनीलपीतरक्तहरितकपिशचिन्न
भेदात्सप्तविधम् ।
पृथिवीजलतेजोवृत्ति ।
तत्र पृथिव्यां सप्तविधम् ।
अभास्वरशुक्लं जले ।
भास्वरशुक्लं तेजसि ॥ १९॥

रसनग्राह्यो गुणो रसः ।
स च मधुराम्ललवणकटुकषायतिक्तभेदात्
षड्विधः ।
पृथिवीजलवृत्तिः । तत्र पृथिव्यां षड्विधः।
जले मधुर एव ॥ २०॥

घ्राणग्राह्यो गुणो गन्धः ।
स द्विविधः सुरभिरसुरभिश्च ।
पृथिवीमत्रवृत्तिः ॥ २१॥

त्वगिन्द्रियमात्रग्राह्यो गुणः स्पर्शः ।
स च त्रिविधः शीतोष्णानुष्णाशीतभेदात् ।
पृथिव्यप्तेजोवायुवृत्तिः ।
तत्र शीतो जले ।
उष्णस्तेजसि ।
अनुष्णाशीतः पृथिवीवाय्वोः ॥ २२॥

रूपादिचतुष्टयं पृथिव्यां पाकजमनित्यं च ।
अन्यत्र अपाकजं नित्यमनित्यं च ।
नित्यगतं नित्यम् ।
अनित्यगतमनित्यम् ॥ २३॥

एकत्वादिव्यवहारहेतुः संख्या ।
सा नवद्रव्यवृत्तिः एकत्वादिपरार्धपर्यन्ता ।
एकत्वं नित्यमनित्यं च ।
नित्यगतं नित्यम् ।
अनित्यगतमनित्यम् ।
द्वित्वादिकं तु सर्वत्राऽनित्यमेव ॥ २४॥

मानव्यवहारासाधारणकारणं परिमाणम् ।
नवद्रव्यवृत्तिः ।
तच्चतुर्विधम् ।
अनु महद्दीर्घं हृस्वं चेति ॥ २५॥

पृथग्व्यवहारासाधारणकारणं पृथक्त्वम् ।
सर्वद्रव्यवृत्तिः ॥ २६॥

संयुक्तव्यवहारहेतुः संयोगः ।
सर्वद्रव्यवृत्तिः ॥ २७॥

संयोगनाशको गुणो विभागः ।
सर्वद्रव्यवृत्तिः ॥ २८॥

परापरव्यवहारासाधारणकारणे परत्वापरत्वे ।
पृथिव्यादिचतुष्टय मनोवृत्तिनी ।
ते द्विविधे दिक्कृते कालकृते च ।
दूरस्ते दिक्कृतं परत्वम् ।
समीपस्थे दिक्कृतमपरत्वम् ।
ज्येष्ठे कालकृतं परत्वम् ।
कनिष्ठे कालकृतमपरत्वम् ॥ २९॥

आद्यपतनासमवायिकारणं गुरुत्वम् ।
पृथिवीजलवृत्ति ॥ ३०॥

आद्यस्यन्दनासमवायिकारणं द्रवत्वम् ।
पृथिव्यप्तेजोवृत्ति ।
तद्द्विविधं सांसिद्धिकं नैमित्तिकं च ।
सांसिद्धिकं जले ।
नैमित्तिकं पृथिवीतेजसोः ।
पृथिव्यां घृतादावग्नि संयोगजं द्रवत्वम् ।
तेजसि सुवर्णादौ ॥ ३१॥

चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः ।
जलमात्रवृत्तिः ॥ ३२॥

श्रोत्रग्राह्यो गुणः शब्दः आकाशमात्रवृत्तिः ।
स द्विविधः ध्वन्यात्मकः वर्णात्मकश्च ।
तत्र ध्वन्यात्मकः भेर्यादौ ।
वर्णात्मकः संस्कृतभाषादिरूपः ॥ ३३॥

सर्वव्यवहारहेतुर्गुणो बुद्धिर्ज्ञानम् ।
सा द्विविधा स्मृतिरनुभवश्च ।
संस्कारमात्रजन्यं ज्ञानं स्मृतिः ।
तद्भिन्नं ज्ञानमनुभवः ।
स द्विविधः यथार्थोऽयथार्थश्च ।
तद्वति तत्प्रकारकोऽनुभवो यथार्थः ।
यथा रजते इदं रजतमिति ज्ञानम् ।
सैव प्रमेत्युच्यते ।
तदभाववति तत्प्रकारकोऽनुभवोऽयथार्थः ।
यथा शुक्ताविदंरजतमिति ज्ञानम् ।
सैव अप्रमेत्युच्यते ॥ ३४॥

यथार्थनुभवश्चतुर्विधः
प्रत्यक्षानुमित्युपमितिशाब्दभेदात् ।
तत्करणमपि चतुर्विधं
प्रत्यक्षानुमानोपमानशाब्दभेदात् ॥३५॥

असाधारणं कारणं करणम् ।
कार्यनियतपूर्ववृत्ति कारणं ।
कार्यं प्रागभावप्रतियोगि ॥ ३६॥

कारणं त्रिविधं समवाय्यसमवायिनिमित्तभेदात् ।
यत्समवेतं कार्यमुत्पद्यते तत्समवायिकारणम् ।
यथा तंतवः पटस्य पटश्च स्वगतरूपादेः ।
कार्येण कारणेन वा सहैकस्मिन्नर्थे समवेतत्वे सति
यत्कारणं
तदसमवायिकारणम् ।
यथा तंतुसंयोगः पटस्य तन्तुरूपं पटरूपस्य ।

तदुभयभिन्नं कारणं निमित्तकारणम् ।
यथा तुरीवेमादिकं पटस्य ।
तदेतत्त्रिविधकारणमध्ये यदसाधारणं कारणं
तदेव करणम् ॥ ३७॥

तत्र प्रत्यक्षज्ञानकरणं प्रत्यक्षम् ।
इन्द्रियार्थसंनिकर्षजन्यं ज्ञानं प्रत्यक्षम् ।
तद्द्विविधं निर्विकल्पकं सविकल्पकं चेति ।
तत्र निष्प्रकारणं ज्ञानं निर्विकल्पकं यथेदं
किञ्चित् ।
सप्रकारकं ज्ञानं सविकल्पकं यथा डित्थोऽयं
ब्राह्मणोऽयं श्यामोऽयं
पाचकोऽयमिति ॥ ३८॥

प्रत्यक्षज्ञानहेतुरिन्द्रियार्थसंनिकर्षः
षड्विधः ।
संयोगः संयुक्तसमवायः संयुक्तसमवेतसमवायः
समवायः
समवेतसमवायः विशेषणविशेष्यभावश्चेति ।
चक्षुषा घटप्रत्यक्षजनने संयोगः संनिकर्षः ।

घटरूपप्रत्यक्षजनने संयुक्तसमवायः
संनिकर्षः ।
चक्षुः संयुक्ते घटे रूपस्य समवायात् ।
रूपत्वसामान्यप्रत्यक्षे संयुक्तसमवेतसमवायः
संनिकर्षः ।
चक्षुः संयुक्ते घटे रूपं समवेतं तत्र
रूपत्वस्य समवायात् ।
श्रोत्रेण शब्दसाक्षात्कारे समवायः संनिकर्षः
कर्णविवरवर्त्याकाशस्य
श्रोत्रत्वात् शब्दस्याकाशगुणत्वाद्गुणगुणिनोश्च
समवायात् ।
शब्दत्वसाक्षात्कारे समवेतसमवायः संनिकर्षः
श्रोत्र्समवेते शब्दे
शब्दत्वस्य समवायात् ।
अभावप्रत्यक्षे विशेषणविशेष्यभावः संनिकर्षः
घटाभाववद्भूतलमित्यत्र
चक्षुः संयुक्ते भूतले घटाभावस्य विशेषणत्वात् ।

एवं संनिकर्षषट्कजन्यं ज्ञानं प्रत्यक्षं
तत्करणमिन्द्रियं
तस्मातिन्द्रियं प्रत्यक्षप्रमाणमिति सिद्धम् ॥ ३९॥

अनुमितिकरणमनुमानम् ।
परामर्शजन्यं ज्ञानमनुमितिः ।
व्याप्तिविशिष्टपक्षधर्मताज्ञानं ।
यथा वह्निव्याप्यधूमवानयं पर्वत इति ज्ञानं
परामर्शः ।
तज्जन्यं पर्वतो वह्निमानिति ज्ञानमनुमितिः ।
यत्र यत्र धूमस्तत्र तत्राग्निरिति साहचर्यनियमो
व्याप्तिः ।
व्याप्यस्य पर्वतादिवृत्तित्वं पक्षधर्मता ॥ ४०॥

अनुमानं द्विविधं स्वार्थं परार्थं च ।
तत्र स्वार्थं स्वानुमितिहेतुः तथाहि स्वायमेव
भूयोदर्शनेन यत्र यत्र
धूमस्तत्र तत्राग्निरिति महानसादौ व्याप्तिं गृहीत्वा
पर्वतसमीपं गतः
तद्गते चाग्नौ सन्दिहानः पर्वते धूमं पश्यन्व्याप्तिं
स्मरति यत्र यत्र
धूमस्तत्र तत्राग्निरिति ।
तदनन्तरं वह्निव्याप्यधुमवानयं पर्वत इति
ज्ञानमुत्पद्यते अयमेव
लिश्ण्गपरामर्श इत्युच्यते ।
तस्मात्पर्वतो वह्निमानिति ज्ञानमनुमितिः उत्पद्यते ।

तदेतत्स्वार्थानुमानम् ।
यत्तु स्वयं धुमाग्निमनुमाय परंप्रतिबोधयितुं
पञ्चावयव वाक्यं प्रयुज्यते
तत्परार्थानुमानम् ।
यथा पर्वतो वह्निमान्धूमत्वाद्यो यो धूमवान्स
वह्निमान्यथा महानसः तथा
चायं तस्मात्तथेति ।
अनेन प्रतिपादिताल्लिष्ण्गात्परोऽप्यग्निं प्रतिपद्यते ॥ ४१॥

प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्चावयवाः ।

पर्वतो वह्निमानिति प्रतिज्ञा ।
धूमवत्वादिति हेतुः ।
यो यो धूमवान्स वह्निमान्यथा महानस इत्युदाहरणम् ।

तथा चायमित्युपनयः ।
तस्मात्तथेति निगमनम् ॥ ४२॥

स्वार्थानुमितिपरार्थानुमित्योः लिश्ण्गपरामर्श एव
करणम् ।
तस्माल्लिश्ण्गपरामर्शोऽनुमानम् ॥ ४३॥

लिश्ण्गं त्रिविधम् ।
अन्वयव्यतिरेकि केवलान्वयि केवलव्यतिरेकि चेति ।
अन्वयेन व्यतिरेकेण च व्याप्तिमदन्वयव्यतिरेकि ।
यथा वह्नौ साध्ये धूवत्त्वम् ।
यत्र धूमस्तत्राग्निर्यथा महानस इत्यन्वयव्याप्तिः ।
यत्र वह्निर्नास्ति तत्र धूमोऽपि नास्ति यथा महाहृद
इति व्यप्तिरेकव्याप्तिः ।
अन्वयमात्रव्याप्तिकं केवलान्वयि ।
यथा घटोऽभिधेयः प्रमेयत्वात्पटवत् ।
अत्र प्रमेयत्वाभिधेयत्वयोः व्यतिरेकव्याप्तिर्नास्ति
सर्वस्यापि
प्रमेयत्वादभिधेयत्वाच्च ।
व्यतिरेकमात्रव्याप्तिकं केवलव्यतिरेकि यथा
पृथिवीतरेभ्यो भिद्यते गन्धवत्त्वात् ।
यदितरेभ्यो न भिद्यते न तद्गन्धवद्यथा जलम् ।
न चेयं तथा ।
तस्मान्न तथेति ।
अत्र यद्गन्धवत्तदितरभिन्नमित्यन्वयदृष्टान्तो
नास्ति पृथिवीमात्रस्य
पक्षत्वात् ॥ ४४॥

सन्दिग्धसाध्यवान्पक्षः ।
यथा धूमवत्त्वे हेतौ पर्वतः ।
निश्चितसाध्यवान्सपक्षः यथा तत्रैव महानसम् ।
निश्चितसाध्याऽभाववान्विपक्षः यथा तत्रैव
महाह्रदः ॥ ४५॥

सव्यभिचारविरुद्धसत्प्रतिपक्षासिद्धबाधिताः पञ्च
हेत्वाभासाः ।
सव्यभिचारोऽनैकान्तिकः ।
स त्रिविधः साधारणासाधारणानुपसंहारिभेदात् ।
तत्र साध्याभाववद्वृत्तिः साधारणोऽनैकान्तिकः यथा
पर्वतो वह्निमान्प्रमेयत्वादिति ।
प्रमेयत्वस्य वह्न्यभाववति ह्रदे विद्यमानत्वात् ।
सर्वसपक्षविपक्षव्यावृत्तः पक्षमात्रवृत्तिः
असाधारणः ।
यथा शब्दो नित्यः शब्दत्वादिति ।
शब्दत्वं हि सर्वेभ्यो नित्येभ्योऽनित्येभ्यश्च
व्यावृत्तं शब्दमात्रवृत्तिः ।
अन्वयव्यतिरेकदृष्टान्तरहितोऽनुपसंहारी ।
यथा सर्वमनित्यं प्रमेयत्वादिति ।
अत्र सर्वस्यापि पक्षत्वाद्दृष्टान्तो नास्ति ।
साध्याभावव्याप्तो हेतुर्विरुद्धः ।
यथा शब्दो नित्यः कृतकत्वादिति ।
कृतकत्वं हि नित्यत्वाभावेनाऽनित्यत्वेन व्याप्तम् ।
यस्य साध्याभावसाधकं हेत्वन्तरं विद्यते स
सत्प्रतिपक्षः ।
यथा शब्दो नित्यः श्रावणत्वाच्छब्दत्ववत् ।
शब्दोऽनित्यः कार्यत्वाद्घटवत् ।
असिद्धस्त्रिविधः आश्रयासिद्धः स्वरूपासिद्धो
व्याप्यत्वासिद्धश्चेति ।
आश्रयासिद्धो यथा गगनारविन्दं सुरभि
अरविन्दत्वात्सरोजारविन्दवत् ।
अत्र गगनारविन्दमाश्रयः स च नास्त्येव ।
स्वरूपासिद्धो यथा शब्दो गुणश्चाक्षुषत्वात् ।
अत्र चाक्षुषत्वं शब्दं नास्ति शब्दस्य
श्रावणत्वात् ।
सोपाधिको हेतुः व्याप्यत्वासिद्धः ।
साध्यव्यापकत्वे सति साधनाव्यापकत्वमुपाधिः ।
साध्यसमानाधिकरणात्यन्ताभावाप्रतियोगित्वं
साध्यव्यापकत्वम् ।
साधनवन्निष्ठात्यन्ताभावप्रतियोगित्वं
साधनाव्यापकत्वम् ।
पर्वतो धूमवान्वह्निमत्वादित्यत्रार्द्रेन्धनसंयोग
उपाधिः ।
तथाहि ।
यत्र धूमस्तत्रार्द्रेन्धनसंयोग इति साध्यव्यापकता ।

यत्र वह्निस्तत्रार्द्रेन्धनसंयोगो नास्त्ययोगोलके
आर्द्रेन्धनसंयोगाभावादिति
साधनाव्यापकता ।
एवं साध्यव्यापकत्वे अस्ति
साधनाव्यापकत्वार्द्रेन्धनसंयोग उपाधिः ।
सोपाधिकत्वाद्वह्निमत्त्वं व्याप्यत्वासिद्धम् ।
यस्य साध्याभावः प्रमाणान्तरेण निश्चितः स
बाधितः ।
यथा वह्निरनुष्णो द्रव्यत्वाज्जलवत् ।
अत्रानुष्णत्वं साध्यं तदभाव उष्णत्वं
स्पर्शनप्रत्यक्षेण गुह्यते
इति बाधितत्वम् ॥ ४६॥

उपमितिकरणमुपमानम् ।
संज्ञासंज्ञिसम्बन्धज्ञानमुपमितिः ।
तत्करणं सादृश्यज्ञानम् ।
अतिदेशवाक्यार्थस्मरणमवान्तर व्यापारः ।
तथा हि
कश्चिद्गवयशब्दार्थमजानन्कुतश्चिदारण्यकपुरुषाद्गोसदृशो
गवय इति श्रुत्वा वन गतो वाक्यार्थं
स्मरन्गोसदृशं पिण्डं पश्यति ।
तदनन्तरमसौ गवयशब्दवाच्य
इत्युपमितिरुत्पद्यते ॥ ४७॥

आप्तवाक्यं शद्बः ।
आप्तस्तु यथार्थवक्ता ।
वाक्यं पदसमूहः ।
यथा गामानयेति ।
शक्तं पदम् ।
अस्मात्पदादयमर्थो बोद्धव्य इतीश्वरसंकेतः
शक्तिः ॥ ४८॥

आकाश्ण्क्षा योग्यता संनिधिश्च वाक्यार्थज्ञानहेतुः
पदस्य
पदान्तरव्यतिरेकप्रयुक्तान्वयाननुभावकत्वमाकाश्ण्क्षा ।

अर्थाबाघो योग्यता ।
पदानामविलम्बेनोच्चारारणं संनिधिः ॥ ४९॥

आकाश्ण्क्षादिरहितं वाक्यमप्रमाणम् ।
यथा गौरश्वः पुरुषो हस्तीति न
प्रमाणमाकाश्ण्क्षाविरहात् ।
अग्निना सिञ्चेदिति न प्रमाणं योग्यताविरहात् ।
प्रहरे प्रहरेऽसहोच्चारितानि गामानयेत्यादिपदानि न
प्रमाणं साम्निध्याभावात् ॥ ५०॥

वाक्यं द्विविधम् ।
वैदिकं लौकिकं च ।
वैदिकमीश्वरोक्तत्वात्सर्वमेव प्रमाणम् ।
लौकिकं त्वाप्तोक्तं प्रमाणम् ।
अन्यदप्रमाणम् ॥ ५१॥

वाक्यार्थ्ज्ञानं शब्दज्ञानम् ।
तत्करणं शब्दः ॥ ५२॥

अयथार्थानुभवस्त्रिविधः संशयविपर्ययतर्कभेदात् ।

एकस्मिन्धर्मिणि विरुद्धनानाध्र्म्वैशिष्ट्यावगाहि
ज्ञानं संशयः ।
यथा स्थाणुर्वा पुरुषो वेति ।
मिथ्याज्ञानं विपर्ययः ।
यथा शुक्तौ इदं रजतमिति ।
व्याप्यारोपेण व्यापकारोपस्तर्कः यथा यदि वह्निर्न
स्यात्तर्हि धूमोऽपि न स्यादिति ॥ ५३॥

स्मृतिरपि द्विविधा ।
यथार्थायथार्था च ।
प्रमाजन्या यथार्था ।
अप्रमाजन्याऽयथार्था ॥ ५४॥

सर्वेषामनुकूलतया वेदनीयं सुखम् ॥ ५५॥

सर्वेषां प्रतिकूलतया वेदनीयं दुःखम् ॥ ५६॥

इच्छा कामः ॥ ५७॥

क्रोधो द्वेषः ॥ ५८॥

कृतिः प्रयत्नः ॥ ५९॥

विहितकर्मजन्यो धर्मः ॥ ६०॥

निषिद्धकर्मजन्यस्त्वधर्मः ॥ ६१॥

बुद्ध्यादयोऽष्टावात्ममात्रविशेषगुणाः ॥ ६२॥

बुद्धीच्छा प्रयत्ना द्विविधाः ।
नित्या अनित्याश्च ।
नित्या ईश्वरस्यानित्या जीवस्य ॥ ६३॥

संस्कारस्त्रिविधः ।
वेगो भावना स्थितिस्थापकश्चेति ।
वेगः पृथिव्यादिचतुष्टयमनोवृत्तिः ।
अनुभवजन्या स्मृतिहेतुर्भावना ।
आत्ममात्रवृत्तिः ।
अन्यथाकृतस्य पुनस्तदवस्थापकः स्थितिस्थापकः
कटादिपृथिवीवृत्तिः ॥ ६४॥

चलनात्मकं कर्म ।
ऊर्ध्वदेशसंयोगहेतुरुत्क्षेपणम् ।
अधोदेशसंयोगहेतुरपक्षेपणम् ।
शरीरसंनिकृष्टसंयोगहेतुराकुञ्चनम् ।
विप्रकृष्टसंयोगहेतुः प्रसारणम् ।
अन्यत्सर्वं गमनम् ।
पृथिव्यादिचतुष्टयमनोमात्रव्ट्ति ॥ ६५॥

नित्यमेकमनेकानुगतं सामान्यं
द्रव्यगुणकर्मवृत्ति ।u
तद्द्विविधं पराऽपरभेदात् ।
परं सत्ता ।
अपरं द्रव्यत्वादिः ॥ ६६॥

नित्यद्रव्यवृत्तयो व्यावर्तका विशेषाः ॥ ६७॥

नित्यसम्बन्धः समवायः ।
अयुतसिद्धवृत्तिः ।
ययोर्द्वयोर्मध्ये
एकमविनश्यदपराऽश्रितमेवावतिष्ठते
तावयुतसिद्धौ
यथा अवयवाऽवयविनौ क्रियाक्रियावन्तौ जातिव्यक्ती
विशेषनित्यद्रव्ये चेति ॥ ६८॥

अनादिः सान्तः प्रागभावः ।
उत्पत्तेः पूर्वं कार्यस्य ।
सादिरनन्तः प्रध्वंसः ।
उत्पत्यनन्तरं कार्यस्य ।
त्रैकालिकसंसर्गावच्छिन्नप्रतियोगिताकोऽत्यन्ताभावः ।

यथा भूतले घटो नास्तीति ।
तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकोऽन्योन्याभावः ।
यथा घटः पटो नेति ॥ ६९॥

सर्वेषां पदार्थानां यथायथमुक्तेष्वन्तर्भावात्सप्तैव
पदार्था इति सिद्धम् ॥ ७०॥

कणादन्यायमतयोर्बालव्युत्पत्तिसिद्धये ।
अन्नंभट्टेन विदुषा रचितस्तर्कसंग्रहः ॥

इति श्रीमहामहोपाध्याय
अन्नंभट्टविरचिततर्कसंग्रहः समाप्तः ॥

No comments:

Post a Comment