Tuesday, April 16, 2019

Holi festival-Sanskrit essay

*स्वर्वाणीप्रकाशः* (वाट्साप् गणः)
🦚गुरुवासरः फाल्गुनपौर्णमी (21-03-19)👻
✍प्रस्तावविषयः-- होलीपर्व🎨


वर्णानाम् उत्सवः होलीपर्व। होलिकोत्सवः वसन्तकालस्य आरम्भं सूचयति। फाल्गुनपौर्णिमायां भवति अयमुत्सवः। 
जातिमतभेदं विस्मृत्य जनाः परस्परं वर्णालेपनं कृत्वा अस्य उत्सवस्य आचरणं कुर्वन्ति।अनेन परस्परं मैत्री वर्धते सामाजिक- सामरस्यं सिध्यति।। 


होली-सम्बन्धाः कथा विविधाः सन्ति। 
प्रह्लादचरितकथा राधाकृष्णयोः प्रेमकथा कामदेवस्य कथा एताः कथाः  प्रसिद्धाः। 

होलिकायाः कथा ~ 

एषा कथा प्रह्लादस्य पितुसहोदर्याः होलिकानामाख्यायाः असुरस्त्रियः कथा इत्येव प्रायः सर्वे वदन्ति। प्रह्लादस्य पिता हिरण्यकशिपुः त्रिलोकविजयं प्राप्य विष्णोः हननं कर्तुम् ऐच्छत्। 

अहंकारेण अन्धः हिरण्यकशिपुः विष्णोः पूजनं निषिद्धम् इति उद्घोषितम् अपितु सर्वे हिरण्यकशिपोः पूज्या एव करणीया  इति आज्ञापितवान्।  त्रिलोकाधिपत्यम् अस्ति चेदपि पञ्चवर्षीयं स्वपुत्रं प्रह्लादं वशीकर्तुम् असुराधिपतिः न शक्तवान् प्रह्लादस्तु महान् विष्णुभक्त आसीत्। प्रह्लादः निरन्तरं विष्णोः नामानि उच्चारय् असुरबालानां पुरतः भगवतः माहात्म्यं वदति स्म। अनेन कोपाविष्टः दैत्यराजा प्रह्लादं हन्तुं बहूनां दुष्टानां नियोजनं चकार। एकैकस्यां दुर्घटनायामपि विष्णोः निस्सीमकृपया प्रह्लादः रक्षितो जातः। अन्ते हिरण्यकशिपोः सहोदरी होलिका नाम राक्षसी प्रह्लादं हन्तुम् उद्युक्तवती। सा अग्निदेवात् वररूपेण प्राप्तं अग्निकवचवस्त्रं धृत्वा प्रह्लादं गृहीत्वा अग्निं प्रविष्टवती किन्तु यदि एकाकिनी भूत्वा अग्निं प्रविशति चेदेव वरस्य प्रभावो भवतीति विस्मृतवती अनेन कारणेन होलिका सम्पूर्णतया भस्मीभूता प्रह्लादस्तु विष्णोः कृपया रक्षितो जातः।अस्याः घटनायाः आधारेण जनाः दुष्टानाम् उपरि शिष्टानां विजयसूचकार्थं होलिकोत्सवः आचर्यते।। 

कामदेवस्य कथा ~

सतीदेव्याः देहवियोगानन्तरं विरक्तो महादेवः कठिनतपः आचरितः तपसः प्रभावेण सर्वत्र तापः वर्धितः। विरहभावात् महादेवं निवारयितुं लोककल्याणार्थं देव्याः पार्वत्योपरि प्रीतिं जनयितुं कामदेवः स्वीयबाणान् प्रयुक्तवान्। अनेन क्रुद्धः शिवः ललाटनेत्राग्निना कामदेवं भस्मीकृतवान्। लोकसंग्रहार्थं भगवान् पुनः कामदेवाय शापमोक्षं वरञ्च दत्तवान्। अस्य घटनायाः स्मरणार्थमेव होलीपर्वः आचर्यते इत्यपि कथा श्रूयते ।। 

राधाकृष्णयोः कथा ~ 

मेघश्याम: भगवान् कृष्णः एकदा गोपस्त्रीणाम् अवहेलनम् असहमानः यशोदयाः समीपं गत्वा स्वीयशरीरवर्णस्य निन्दायाः वार्तां तां श्रावितवान्। यशोदा कृष्णाय वर्णचूर्णानि दत्त्वा राधायाः तथा अन्यगोपीनाम् उपरि लेपयतु इत्यादिष्टवती! अनेन सन्तुष्टः भगवान् सर्वत्र वर्णान् अक्षिपत्। अद्यापि व्रजवासिनः कृष्णभक्ताश्च संगीतवाद्यनृत्यसमेतं होलिकोत्सवेषु परस्परं वर्णानां लेपनं वर्णमयजलस्य प्रोक्षणम् इत्यादि कृत्वा मदनोत्सवम् आचरन्ति।। 

उत्सवसमये गृहे गृहे विविधानि मिष्टान्नानि अपि पचन्ति। एवं प्रकारेण सर्वैरपि सोत्साहं होलिकोत्सवम् आचरन्ति।। 


~ सुनीशः

No comments:

Post a Comment