Thursday, January 11, 2018

Dhanur maasam-Sanskrit essay

Courtesy:Smt.Baala Chiraavoori
*धनुर्मासः* 

सूर्यः यदा धनुर्राशौ प्रविष्टो भूत्वा मासपर्यन्तमपि स्थितो भवेत् तर्हि तन्मास धनुर्मास इति कथ्यते। धनुर्मासः विष्णोः प्रीतिकरो मासः। 

श्रीकृष्णं पतिं प्राप्तुं गीपिकाः अस्मिन् मासे एव कात्यायनीव्रतं कृताः  इति चिन्तयामि।

धनुर्मासे गोदामातुः वैशिष्ट्यमस्ति। 
श्रीरङ्गे महाभक्तस्य विष्णुचित्तस्य पुत्रिका गोदा आसीत्।  
 विष्णुं स्वान्तरङ्गे स्थापितः अतः स विष्णुचित्त नाम्ना विख्यातः।तस्य पुत्री गेदाऽपि बाल्यावधि विष्णुमेव सखा, पतिरिव च मत्वा विग्रहरूपेण विष्णुना सह संभाषणं, जल्पनं, खेलनं सर्वमपि च करीति स्म। विष्णुचित्तः प्रतिदिनमपि रङ्गनाथस्वामिनमुद्धिश्य मालां रचयित्वा स्वामिनः कण्ठे तद् हारं समर्पयति स्म। गोदादेवी तथैव प्रतिदिनमपि मालां संरच्य स्वगले धृत्वा  मुकुरे मालाधारिणं स्वामिनं स्वात्मनि समूह्य तत्पश्चादेव पितरं प्रति ददाति स्म। एतद्विषयं न ज्ञात्वैव विष्णुचित्तः प्रिदिनमपि स्वामिनं हारं समर्पयति स्म। एकदा स्विमिनं हारसमर्पणानन्तरं रङ्गनाथस्य गले हारे केशान् अर्चकाःददृशुः। ते केशाःअति दीर्घाःसन्ति अतः ते स्त्रीकेशा इति निर्धारितवन्तः। विष्णुचित्तः स्वामिनं प्रति पुत्रिकायाः अपराध कारणात् तां मालां मा रचयत्विति रुष्टो भूत्वा आज्ञापयामस। परस्मिन् सैव हारं व्यरच्य रङ्गनाथं समर्पितवान्। किन्तु स्वामी तां न स्वीकृतवान्। गोदया भक्त्या रचिता माला अत्यन्तविशेषमिति सर्वे अजानन्। तदा श्रीरङ्गनाथस्य अनुज्ञया गोदादेवीं स्वामिने समर्प्य कल्याणं कारितवन्तः।गोदादेवी स्वामिनमुद्दिश्य द्रविडभाषायां" तिरुप्पावै" इति प्रबन्धकाव्यं  स्तुतिरुपेण व्यरचयत्। 
 धनुर्मासे प्रतिदिनमि सर्वे विष्णुभक्ताः प्रातःकाले तिरुप्पावै स्तोत्रं कुर्वन्ति।
 
अयं वृत्तान्तः श्रीकृष्णदेवरायस्य "आमुक्तमाल्यदा" इति आन्ध्रकाव्ये सम्यक् वर्ण्यते।

ब्राह्मीमुहूर्ते एव सर्वेऽपि उत्थाय नित्यकर्मानुष्ठानं कृत्वा विष्णुपूजां कुर्वन्ति।

उदयात्पञ्चघटिकित्प्रातरुत्थाय यत्नतः।
स्नानं कृत्वा प्रथमतो नित्यकर्म समाचरेत्।।

यथा संकोच्य तत्कर्म भुङ्क्तेऽत्वाल्पद्वादशीदिने।
तथा प्रातर्धनुर्मासे सर्वकर्माल्पमाचरेत्।।

               -इति कपिञ्जलसंहितायाम्।
धनुर्मासव्रतेन सर्वाणि महापापान्यपि नश्येयुः ।विष्णुं मधुसूदन नाम्ना समर्चयेत्। स्वामिने एकस्मिन् पक्षे मुद्गान्नं अन्यस्मिन् पक्षे शाल्यन्नं निवेदितव्यम्। 

मुद्गद्विदलसंमिश्रं शाल्यन्नममृतोपमम्।
संगृहाण हृषीकेश तव प्रीत्या निवेदितम्।।

कदलीफलगोक्षीरदधिखण्डसमिश्रितम्
नैवेद्यं गृह्यतां देव मधुसूदन केशव।।
   इति संप्रार्थ्य निवेदयेत् । इत्यपि अस्यां संहितायां वर्तते।
 
अस्माकं प्रान्ते स्त्रियः उषःकाले एव उत्थाय गृहप्राङ्गणे सम्मार्जयित्वा गोमयजलेन सम्यक् विकीर्य बृहद् रङ्गवल्लयः रचयेयुः। अविवाहितबालिकाः गोमयपिण्डान् विरच्य तान् गौरीरूपेण ध्यात्वा धूपदीपनैवेद्येन अर्चयित्वा रङ्गवल्लिकायाः मध्ये स्थापयन्ति। अनेन पूजनेन शीघ्रमेव कल्याणं भविष्यतीति अनुकूलवरंमपि प्राप्स्यन्तीति वृद्धा कथयन्ति। 

           🙏🌷बाला...✍

No comments:

Post a Comment