Thursday, June 6, 2024

Dont believe 6 things - sanskrit subhashitam

Courtesy: Dr. Bala Chiraavoori

विश्वासो नैव कर्तव्यः
शृङ्गीषु स्त्रीनदीषु च ।
नखीषु च तथा मित्र
राजवंशे च शस्त्रिषु ।।

नखीनां-हिंसकसिंहव्याध्रादिनखयुक्तपशूनां,नदीनां-अज्ञातनदीनां जलंकीदृग्गभीरमस्ति,वेगादिविषये न ज्ञानं ,आभ्यन्तरे पङ्कमस्तिवा पाषाणं,वा वालुका,तादृशीनां नदीनां विश्र्वासो नैव कर्तव्यः,शृगीणां-वृषभगवादिपशूनामपि विश्र्वासो नैव कर्तव्यः समीपगमनावसरे कदा प्रहारो भवेत् ,इति न ज्ञायते,अतःशृगीणां पशूनां विश्र्वासो नैव कर्तव्यः,हस्ते यस्य जनस्य शस्त्रं तस्यापिविश्र्वासो नैव कर्तव्यः,कदा प्रहारो भवेत्, अतः तादृशजनस्य विश्र्वासो नैव कर्तव्यः,पंचमस्तु विश्र्वास अयोग्या स्त्री प्रतिपादिता, कारणं स्त्रिणाम् उदरे गोपनीया वार्ता न तिष्ठति,एतदर्थं विश्र्वासो नैव कर्तव्यः,भागवते अस्माभिः विलोक्यते ,धुंधूकारीहत्यास्त्रिभिः कृता, अतः तादृशिषु विश्र्वासो नैव कर्तव्यः,राजकुलस्यापिविश्र्वासो नैव कर्तव्यः,कारणं निर्दोषजनः दण्डार्हो भवेत्। अतः राजकुलस्यापि विश्र्वासो नैव कर्तव्यः। अत्र षट्षु विश्वासो नैव कर्तव्यः।इति प्रतिपदितमस्ति।

No comments:

Post a Comment