*श्रीरामायणकथा, अयोध्याकाण्डम्।*
(पञ्चमो भागः)
श्रीरामस्य वनवासः।
रामः आगत्य पितुः दशरथस्य मातुः कैकेय्याः च चरणस्पर्शम् अकरोत्। रामं दृष्ट्वा महाराजः दीर्घश्वासं नीत्वा केवलं "हे राम" इत्यवदत्, अत्यधिकनिराशकारणतः च सः पुनः तूष्णीम् अभवत्। तस्य नेत्राभ्याम् अश्रूणि प्रवहन्ति स्म। एतद् दृष्ट्वा रामः विनम्रस्वरेण कैकेयीम् अपृच्छत् मातः! पितुः ईदृशी दशा कथम् अभवत्? कुत्रचित् सः मयि असन्तुष्टस्तु नास्ति?
यदि सः मयि अप्रसन्नः तर्हि क्षणमात्रं हि मम जीवनं व्यर्थम्।
कैकेयी अवदत् वत्स! महाराजः त्वयि अप्रसन्नः भवितुं नार्हति। किन्तु तस्य हृदये कश्चन विचारः अस्ति यः तव विरुद्धे अस्ति। अतः सङ्कोचकारणात् सः त्वां वक्तुं न शक्नोति। देवासुरसङ्ग्रामे सः मह्यं वरद्वयं दातुं प्रतिज्ञाम् अकरोत्। अवसरं प्राप्य अहं तद् वरद्वयम् अयाचे। इदानीं तव पितुः प्रतिज्ञायाः पूर्तये तव साहाय्यस्य आवश्यकता अस्ति।
यदि त्वं प्रतिज्ञां कुर्याः यद् अहं यत्किमपि वदामि तस्य पालनं त्वं करिष्यसि तर्हि अहं वरद्वयस्य विषये त्वां वदिष्यामि।
रामः अवदत् हे मातः! पितुः आज्ञया तु अहं मम प्राणानपि त्यक्तुं शक्नुयाम्। ईश्वरः एव साक्षी, अहं प्रतिज्ञां करोमि यद् भवत्याः वचनस्य पालनम् अवश्यं करोमि।
रामस्य प्रतिज्ञावचनं श्रुत्वा सन्तुष्टा कैकेयी अवदत् वत्स! अहं प्रथमं वरं तदर्थम् अयाचे यद् भरतः अयोध्यायाः राजा भवतु, द्वितीयं वरं तदर्थं यत् चतुर्दशवर्षाणां कृते तव वनवासः भवतु। अतः इदानीं त्वं स्वप्रतिज्ञानुसारं शीघ्रं हि वल्कलं धृत्वा वनं प्रति प्रस्थानं कुरु। तव मोहकारणतः महाराजः दुःखितः, अतः तव वनगमनात् परं हि भरतस्य राज्याभिषेकः भविष्यति। मम पूर्णविश्वासः अस्ति यत् त्वं स्वप्रतिज्ञां पालयन् तव पितरं पापात् मोचयिष्यसि।
राज्ञ्याः कैकेय्याः वचनं श्रुत्वा रामः दुःखात् शोकात् च रहितः सन् स्मितवदनेन अवदत् हे मातः! केवलम् इत्येव सामान्यः विषयः? तदर्थं हि भवन्तौ उभावपि चिन्तितौ स्तः? अहं क्षणाभ्यन्तरे हि वनं प्रति प्रस्थानं करोमि, इत्येव मम सत्या प्रतिज्ञा वर्तते।
महाराजः दशरथः रामकैकेय्योः संवादं शृणोति स्म। तच्छ्रुत्वा सः पुनः एकवारं मूर्छितः अभवत्। रामः मूर्छितपितुः कैकेय्याः च चरणस्पर्शं कृत्वा तूष्णीमेव तस्मात् प्रकोष्ठात् बहिः आगच्छत्।
*-प्रदीपः!*
No comments:
Post a Comment